SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ५०८ प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४४ १६ बहुजनस्यान्तर्धूमेनाग्निना हिंसन १७ स्वयंकृतस्याकृत्यस्यान्यकृतत्वाविर्भावनं १८ विचित्र मायाप्रकारैः परवञ्चनं १९ अशुभपरिणामात् सत्यस्यापि मृषेति साभायां प्रकाशनं २० अक्षीणकलहत्वं २१ विश्रम्भोत्पादनेन परधानापहरणं २२ एवं परदारलोभनं २३ अकुमारत्वेप्यात्मनः कुमारत्वभणनं २४ एवमब्रह्मचारित्वेऽपि ब्रह्मचारिताप्रकाशनं २६५ येनैश्वर्यं प्रापितस्तस्यैव सत्के द्रव्ये लोभकरणं २६७ यत्प्रभावेन ख्यातिं गतस्यस्य किञ्चिदन्तरायकरणं २७ राजसेनाधिपराष्ट्रचिन्तकादेर्बहुजननायकस्य हिंसनं २८ अपश्यतोऽपि पश्यामीति मायया भनं २९ अवज्ञया देवेष्वहमेव देव इति प्रख्यापनमिति ३० । 'सिद्धाइगुणा 'त्ति एकत्रिंशत्सिद्धादिगुणा- सिद्धानामादित एव गुणाः सिद्धानां वा आत्यन्तिका गुणाः सिद्धातिगुणाः, ते चैवं- 'से ण तंसे ण चउरंसेण वट्टे ण मंडले ण आयते' इति संस्थानपञ्चकस्य निषेधतः वर्णपञ्चकस्य गन्धद्वयस्य रसपञ्चकस्य स्पर्शाष्टकस्य वेदत्रयस्य च, तथा अकाय: असङ्गः अरुहश्चेति, आह च 119 11 "पडिसेहणसंठाणे ५ वण्ण ५ गन्ध २ रस ५ फास ८ वेदे य ३ । पण पण दुपट्ट तिहा इगतीस अकायऽसंगऽ रुहा !1" अथवा क्षीणाभिनिबोधिकज्ञानावरणः क्षीणश्रुतज्ञानावरण इत्येवं कर्मभेदानाश्रित्यैकत्रिंशत्, आह च-॥१॥ "नव दरिसणम्मि चत्तारि आउए पंच आदिमे अंते । सेसे दो दो भैया खीणभिलावेण इगतीसं ।” ति 'जोगसंगह' त्ति 'द्वात्रिंशद्योगसङ्ग्रहाः' योगानां - प्रशस्तव्यापाराणां सङ्ग्रहहाः, ते चामी॥ १ ॥ “आलोयणा १ निरवलावे - आचार्यस्यापरिश्रावित्वमित्यर्थः २ आवइसुदढधम्मया ३ | अनिस्सिओवहाणेय-अनिश्रितं तप इत्यर्थः ४ सिक्खासूत्रार्थग्रहणं ५ निप्पडिकम्पया ६ ।। ॥ २ ॥ अन्नायया- तपसोऽप्रकाशनं ७ अलोभे य ८ तितिक्खा - परिषहजयः ९ अञ्जवे १० सुई - सत्यसंयम इत्यर्थः ११ । सम्मद्दिट्ठी - सम्यक्त्वशुद्धिः १२ समाही य १३, आयारे विणओवए- आचारोपगतं १४ विनयोगपगतं चेत्यर्थः १५ ॥ ॥ ३ ॥ धिईमई य-अदैन्यं १६ संवेग १७ पणिही माया न कार्येत्यर्थः १८ सुविहि सदनुष्ठानं १९ संवरे २० । अत्तदोसोवसंहारे २१ सव्वकामविरत्तया २२ ।। ॥४॥ पञ्चक्खाणं- मूलगुणविषयं २३ उत्तरगुणविषयं च २४ विउस्सग्गे २५, अप्पमाए २६ लवालवे क्षणे २ सामाचार्यनुष्ठानं २७ । झाणसंवपरजोगे य २८, उदए मारणंतिए २९ ॥ संगाणं च परिण्णा ३०, पच्छित्तकरणे इय ३१ । ॥५॥ आराहणा य मरणंते ३२, बत्तीसं जोगसंगहा ॥" त्रयस्त्रिंशदाशातनाः, एवं चेताः - राइणियस्स सेहो पुरओ गंता भवति आसायणा सेहस्सेत्येवमभिलापो दृश्यः, तत्र रत्नाधिकस्य पुरतो गमनं १ स्थानं-आसनं २ निषदनं २ एवं पार्श्वतो गमनं ४ स्थानं ५ निषदनं ६ एवमासन्ने गमनं ७ स्थानं ८ निषदनं ९ विचार भूमौ तस्य पूर्वमाचमनं १० ततो निवृत्तस्य पूर्वं गमनागमनालोचनं ११ रात्रौ को जागर्त्तीिति पृष्टे तद्वचनाप्रति श्रवणं १२ आलापनीयस्य पूर्वतरमालापनं १३ लब्धास्याशनादेरन्यस्मै पूर्वमालाचनं १४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003344
Book TitleAgam Sutra Satik 10 Prashnavyakarana AngSutra 10
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages192
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 10, & agam_prashnavyakaran
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy