________________
द्वारं - २, अध्ययनं - ५,
षडविंशतिरुद्देशनकाला दशाकल्पव्यवहाराणां तत्र गाथा
119 11
"दस उद्देसणकाला दसाण छच्चेव होति कप्पस्स । दस चेव य ववहारस्स होंति सव्वेवि छव्वीसं ।' 'गुण' त्ति सप्तविंशतिरनगारगुणाः, तत्र महाव्रतानि पञ्च ५ इन्द्रियनिग्रहाः पञ्च १० क्रोधादिविकाश्चत्वारः १४ सत्यानि त्रीणि, तत्र भावनासत्यं-: - शुद्धन्तरात्मा करणस्यं यथोक्तप्रतिलेखनाक्रियकरणं योगसत्यं मनः प्रभृतीनामवितथत्वं १७ क्षमा १८ विरागता १९ मनः प्रभृतिनिरोधाश्च २२ ज्ञानादिसम्पन्नता २५ वेदनादिसहनं २६ मारणान्तिकोपसर्गसहनं २७ चेति, अथवा "वयछक ६ मिंदियाणं च निग्गहो ११ भावकरणसच्चं च १३ ।
॥१॥
खमया १ विरागयावि य १५ मणमाईणं निरोहो य १८ ॥ ॥२॥ कायाण छक्क २४ जोगम्मि जुत्तया २५ वेयणाहियसणया २६ । तह मरणंते संलेहणा य २७ एएऽणगारगुणा ।।" 'पकप्प’त्ति अष्टाविंशतिविधः आचारप्रकल्पः निशीथान्तमाचारङ्गमित्यर्थः, स चैवम्"सत्यपरिण्णा 9 लोगविजओ २ सीओसणिज्ज २ सम्मत्तं ४ | आवंति ५ ध्रुव ६ विमोहो ७ उवहाणसुयं ८ महपरिण्णा ९ ॥ " - प्रथमस्य श्रुतस्कन्धस्याध्ययनानि, द्वितीयस्य तु
119 11
॥ २ ॥ " पिंडेसण १ सेज २ इरिया ३ भासजाया य ४ वत्थपाएसा ५-६ । उग्गहपडिमा ८ सत्तसत्तिक्कया १४ भावण १५ विमुत्ती १६ ॥ उग्घाइ १ अणुग्घाई २ आरूवणा ३ तिविहमो निसीहं तु । इह अट्ठावीसविहो आयारपकप्पनामोत्ति ॥”
॥३॥
उद्घातिकं यत्र लघुमासादिकं प्रायश्चित्तं वण्यते, अनुद्घातिकं यत्र गुरुमासादि, आरोपणा च यत्रैकस्मिन् प्रायश्चित्ते अन्यदप्पारोप्यत इति ।
'पावसुय'त्ति एकोनत्रिंशत् पापश्रुतप्रसङ्गाः, ते चामी"अट्ठ निमित्तंगाई दिव्वु १ प्पायं २ तलिक्ख ३ भोमं च ४ । अगं ५ सर ६ लक्खण ७ वंजणं ८ च तिविहं पुणोक्तेक्कं ॥ सुत्तं वित्ती तह वत्तियं च पावसुयमउणतीसविहं ।
गंधव्व २५ नट्ट २६ वत्युं २७ आउं २८ धणुवेयसंजुत्तं २९ ॥” 'मोहणिजे 'त्ति त्रिंशत् मोहनीयस्थानानि - महामोहबन्धहेतवः, तानि चामूनिजलनिबोलनेन त्रसानां विहिंसनं १ एवं हस्तादिना मुखादिश्रोतसः स्थगनेन २ वर्धादिना शिरोवेष्टनतः ३ मुद्गरादिना शिरोऽभिधातेन ४ भवोदधिपतितजन्तूनां द्वीपकल्पस्य देहिनो हननं ५ सामर्थ्य सत्यपि घोरपरिणामाद ग्लानस्यौषधादिभिरप्रतिचरणं ६ तपस्विनो बलात्कारेण धर्माद भ्रंसनं ७ सम्यग्दर्शनादिमोक्षमार्गस्य परेषां विपरिणामकरणेनापकारकरणं ८ जिनानां निन्दाकरणं ९ आचार्यदिखिंसनं १० आचार्यादीनां ज्ञानादिभिरुपकारिणां कार्येषु अप्रतितर्पणं ११ पुनः पुनरधिकरणस्य नृपप्रयाणकदिनादेः कथनं १२ वशीकरणादिकरणं १३ प्रत्याख्यातभोगप्रार्थनं १४ अभीक्ष्णमबहुश्रुतत्वेऽप्यात्मनो बहुश्रुतत्वप्रकाशनं १५ एवमतपस्विनोऽपि तपस्विताप्रकाशनं
For Private & Personal Use Only
11911
५०७
॥२॥
Jain Education International
www.jainelibrary.org