SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ५०६ प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४४ तुंबे य ६ रोहिणी ७ मल्ली ८, मायंदी ९ चंदिमा इय १०॥ ॥२॥ दावद्दवे ११ उदगणाए १२, मंडुक्के १३ तेयलीइ य १४ । नंदिफले १५ अवरकंका १६, आइने १७ सुसुम १८ पुंडरिए १९॥" 'असमाहिठाण'त्ति विंशतिरसमाधिस्थानानि-चित्तास्वास्थ्यस्याश्रयाः, तानि चामूनि-द्रुतचारित्वं १ अप्रमार्जितचारित्वं २ दुष्प्रमार्जितचारित्वलं ३ अतिरिक्तशय्यासनिकत्वं ४ आचार्यपरिभाषित्वं ५ स्थविरोपधातित्वं ६ भूतोपघातित्वं७ सञ्जवलनत्वं प्रतिक्षणरोषणत्वं ८ क्रोधनत्वं-अत्यन्तक्रोधनत्वमित्यर्थः पृष्ठमांसकत्वं परोक्षस्यावर्णवादित्वमित्यर्थः १०, अभीक्ष्णमवधारकत्वंशङ्किततस्याप्यर्थस्यावधारकत्वमित्यर्थः ११नवानामधिकरणानामुत्पादनं १२ पुराणानांतेषामुदीरकत्वं १३ सरजस्कपाणिपादत्वं १४ अकालस्वाध्यायकरणं १५ कलहकरत्वं कलहहेतुभूतकर्तव्यकारित्वमित्यर्थः १६शब्दकरत्वं-रात्रीमहाशब्देनोल्लापित्वं १७ झंझाकारित्वं गणस्य चित्तभेदकारित्वं मनोदुःखकारिवचनभाषित्वंवा १८ सूरप्रमाणभोजित्वं-उदयादस्तमयं यावद् भोक्तृत्वमित्यर्थः १८ एषणायामसमतित्तंवचेति २०, 'सबला यत्ति एकविंशतिः शबलाः-चारित्रमालिन्यहेतवः, ते चामी-हस्तकर्म १ मैथुनमतिक्रमादिना २ रात्रिभोजनं ३ आधाकर्मणः ४ शय्यातरपिण्डस्य ५ औद्देशिकक्रीतापमित्यकाच्छेद्यानिसृष्टादेश्च भोजनं ६ प्रत्याख्याताशनादिभोजनं ७ षण्मासान्तर्गणाद् गणान्तरसङ्क्रमणं७मासस्यान्तस्त्रिकृत्वोनाभिप्रमाणजलावगाहनं९ मासस्यान्तस्त्रियाकरणं १० राजपिण्डभोजनं ११ आकुट्टया प्राणातिपातकरणं १२ एवं मृषावादनं १३अदत्तग्रहणं १४ तथैवानन्तर्हितायां सचित्तपृथिव्यां कायोत्सर्गादिकरणं १५ एवं सस्नेहसरजस्कायिकायां १६ अन्यत्रापि प्राणिबीजादियुक्ते १७ आकुट्टया मूलकन्दादिभोजनं १८ संवत्सरस्यान्तर्दशकृत्वो नाभिप्रमाणजलावगाहनं १९ संवलत्सरस्यान्तर्दशमायास्थानकरणं २० अभिक्षणं शीतोदकप्लुतहस्तादिनाऽ-शनादेर्ग्रहणं १ भोजनं २ चेति। द्वाविंशतिः परीषहाश्च, ते चामी॥१॥ “खुहा १ पिवासा २ सीउण्हं ३-४ दंसा ५ चेल ६ ऽरई ७ स्थिओ ८ । चरिया ९ निसीहिया १० सेजा ११ अक्कोसा २ वह १३ जायणा १४॥ ॥२॥ अलाभ १५ रोग १६ तणफासा १७ मलसकारपरीसहा १८-१९। पण्णा २० अन्नाण २१ सम्मत्तं २२, इय बावीस परीसहा ।।" 'सूयगडज्झयण त्तित्रयोविंशतिः सूत्रकृताध्ययनानि, तत्रसमयादीनिप्रथमश्रुतस्कन्धमावीनि प्रागुक्तान्येव षोडश द्वितीयश्रुतस्कन्धभावीनि चान्यानि सप्त, तद्यथा॥१॥ "पुंडरिय १ किरियठाणं २ आहारपरिण ३ पच्चखाणकिरिया ४ य । अणयार ५ अद्द ६ नालंद ७ सोलसाइंच तेवीसं॥"त्ति, 'देव'त्ति चतुर्विंशतिर्देवाः, तत्र गाथा-- "भवण १ वण २३ जोइ ३ वेमाणिया य ४ दस अट्ठपंच एगविहा ।" इति, चउवीसं देवा केई पुण बेंति अरहंता" 'मावण'त्तिपञ्चविंशतिर्भावनाः, ताश्च इहैवप्रतिमहाव्रतं पञ्च पञ्चाभिहिताः, 'उद्देस'त्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003344
Book TitleAgam Sutra Satik 10 Prashnavyakarana AngSutra 10
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages192
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 10, & agam_prashnavyakaran
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy