SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ द्वारं - २, अध्ययनं ५, तत्रैकमासिकी द्विमासिकीत्यादयः सप्त अष्टमीनवमीदशम्यस्तु प्रत्येकं सप्तरात्रिन्दिवमानाः एकादशी अहोरात्रमाना द्वादशी एकरात्रमानेति, इतः सूत्रं सूचामात्रमेव पुस्तकेषु दृश्यते तचैवं परिपूर्णीकृत्याध्येयम् ? 'किरियाठाणा य'त्ति त्रयोदश क्रियास्थानानि - व्यापारभेदाः तद्यथा - शरीराद्यर्तं दण्डोऽर्थदण्डः १ एतदव्यतिरिक्तोऽनर्थदण्डो २ हिंसिष्यतीत्याद्याश्रित्य दण्डो हिंसादण्डः ३ अनभिसन्धिना दण्डोऽकस्माद्दण्डः ४ मित्रादेरमित्रादिबुद्धया विनाशनं दृष्टिविपर्यासितादण्डः ५ मृषावाददण्डः ६ अदत्तादानदण्डः ७ अध्यात्मदण्डः - शोकाद्यभिभव इत्यर्थः ८ मानदण्डोजात्यादिमदः ९ मित्रद्वेषदण्डन्ट - मात्रादीनामल्पापराधेऽपि महादण्डनिवर्त्तनलक्षणः १० मायादण्डः ११ लोभदण्ड: १२ ऐर्यापथिकः - केवलयोगप्रत्ययः कर्मबन्ध इति १३, 'भूयगाम' त्ति चतुर्दश भूतग्रामाः - जीवसमूहाः, तत्रैकेन्द्रियाः सूक्ष्माः १ बादराश्च २ द्वीन्द्रियाः ३ त्रीन्द्रियाः ४ चतुरिन्त्रियाः ५ पञ्चेन्द्रियाः संज्ञिनः ६ असंज्ञिनश्चेति ७ सप्तच, एते प्रत्येकं पर्याप्तकापर्याप्तकभेदात् द्विधेति चतुर्दश, 'परमाहम्मिय'त्ति पञ्चदश परमाधार्मिकाः - नारकाणां दुःखोत्पादका असुरकुमारविशेषाः, ते चामी "अंबे २ अंबरिसी चेव २, सामेय ३ सबलेवि य४ । रुद्दे ५ उवरुद्दकाले ७, महाकालेत्ति ८ आवरे ॥ ॥ २ ॥ असिपत्ते ९ धणू १० कुंभे ११, वालुय १२ वेयरणि १३ त्तिय । खरस्सरे १४ महाघोसे १५, एते पन्नरसाऽऽहिया ।" इति, 119 11 'गाहासोलसा य'त्ति षोडश गाथाषोडशानि गाथेति गाथाभिधानं षोडशमध्ययनं येषां तानि गाथाषोडशकानि - सूत्रकृताङ्गस्य प्रथमश्रुतस्कन्धाध्ययनानि तानि चैवतानि - "समओ १ वेयालीयं २ उवसग्गपरिण्ण ३ थीपरिण्णा य ४ । 119 11 ५०५ निरयविभत्ती ५ वीरत्थओ य ६ कुसीलाण परिभासा ७ ॥ ॥ २ ॥ विरिय ८ कम्म ९ समाही १० मग्ग ११ समोसरण १२ अहतहं १३ गंथो १४ । जईयं १५ तह गाहासोलसमं १६ चेव अज्झयणं ।” 119 11 - 'असंजम 'त्ति सप्तदशविधः असयंमः, सचायं“पुढवि १ दग २ अगणि ३ मारुय ४ वणक्फइ ५ बि ६ त्ति ७ चउ ८ पणिदि ९ अजीवे १० । पेह ११ उवेह १२ पमजण १३ परिट्ठवण १४ मणो १५ वई १६ काए १७ ॥" -'अबंभ'त्ति अष्टादशविधमब्रह्म, तच्चैवं " ओरालियं च दिव्वं मणवयकायाण करणजोगेहिं । 'अणुमोयणकारावणकरणेणऽट्ठारसाबंभं ॥” ति, औदारिकं मनःप्रभृतिकरणानाम- नुमोदनादियोगैः नवधा एवं दिव्यमपीत्यष्टादशधा, 'नाय'त्ति एकोनविंशतिर्ज्ञाताध्ययनानि तानि चामूनि ॥ १ ॥ "उक्खित्तनाए १ संघाडे २, अंडे ३ कुम्मे य ४ सेलए ५ । || 9 || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003344
Book TitleAgam Sutra Satik 10 Prashnavyakarana AngSutra 10
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages192
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 10, & agam_prashnavyakaran
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy