SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ५०४ प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४४ असंयमः-असंयतत्वं, द्वादेवच रागद्वेषौ बन्धने इति शेषः, त्रयश्च दण्डाः-आत्मनो दण्डनात् दुष्प्रणिहितमनोवाकायलक्षणाः, गौरवाणि चगृद्धयभिमानाभ्यामात्मनः कर्मणो गौरवहेतवः ऋद्धिरससातविषयाः परिणामविशेषाः, त्रीणीति प्रकृतमेव, तथा 'गुत्तीओतिण्णि'त्ति गुप्तयोमनोवाकायलक्षणाअनवद्यप्रवीचाराप्रवीचाररुपाः, तिम्रश्च विराधनाः--ज्ञानादीनां सम्यगननुपालनाः, चत्वारः कषायाः-क्रोधादयःध्यानानि-एकाग्रतालक्षणानिआर्तरौद्रधर्मशुक्लाभिधानानि संज्ञाः-आहारभयमैथुनपरिग्रहसंज्ञाभिधानाः विकथाः-स्त्रीभक्तदेशराजकथालक्षणाः तथा च भवन्ति चतस्रः, पञ्च च क्रियाः--जीवव्यापारात्मिकाः कायिक्याधिकरणिकीप्राद्वेषिकीपारितापनिकीप्राणातिपातक्रियालक्षणा भवन्तीति सर्वत्र क्रिया श्या, तथा समितिइंदियमहव्वयाइय'त्ति समितीन्द्रियमहाव्रतानिपञ्चभवन्तीतिप्रकृतं, तत्र समितयः-ईर्यासमित्यादयःनिरवद्यप्रवृत्तिरूपाः इन्द्रियाणि-स्पर्शनादीनि महाव्रतानिच-प्रतीतान्येवेति, तथा षट् जीवानिकायाः-पृथिव्यादयः षट् च लेश्याः-कृष्णनीलकापोततेजःपद्मशुक्लानामिकाः, तथा __ 'सत्त भय'त्ति सप्त भयानि, इहलोकभयं-स्वजातीयात् मनुष्यादेर्मनुष्यादिकस्यैव भयं परलोकभयं-विजातीयात्तिर्यगादेः मनुष्यादिकस्य भयं, आदानभयं-द्रव्यमाश्रित्य भयं अकस्माप्रयं-बाह्यनिमित्तानपेक्षं आजीविकाभयं-वृत्तिभयमित्यर्थःमरणभयंअश्लोकभयमिति, "अट्टयमय'त्ति अष्टौ च मदाः-मदस्थानानि, तद्यथा॥१॥ "जाई १ कुल २ बल ३ रूवे ४ तव ५ ईसरिए ६ सुए ७ लाभे ८।" -नव चैव ब्रह्मचर्यगुप्तयः,“वसहि १ कह २ निसज्जिं ३ दिय ४ कुटुंतर ५ पुव्वकीलिए ६ पणीए ७। अतिमायाहार ८ विभूसणाय ९ नव बंभगुत्तीओ॥"त्ति एवंलक्षणा भनन्तीनि गम्यं, दशप्रकारश्च श्रमणधर्मो, यथा॥१॥ "खंती य १ मद्दव २ जव ३ मुत्ती ४ तव ५ संजमे य बोद्धब्बे ६। सच्चं सोयं ८ अकिंचर्ण च ९ बंभंच १० जइधम्मो ।।" -एकादश चोपासकानां श्रावकाणांप्रतिमा भवन्तिति गम्यं ॥१॥ "दंसण १ वय २ सामाइय ३ पोसह ४ पडिमा ५ अर्बभ ६ सच्चित्ते७। आरंभ ८ पेस ९ उद्दिट्टवजए १० समणभूए य ।।" इह च गाथायं प्रतिमेति-कायोत्सर्गः अब्रह्मादिषु पञ्चसुपदेषु वर्जकशब्दो योजनीयः, तथा द्वादश च भिक्षुप्रतिमाः-साधूनामभिग्रहविशेषा;, ताश्चेमाः॥१॥ “मासाई सत्तंता ७ पढमा १ बिय २ तिय ३ सत्त राइदिणा । अहराइ ११ एगराइ १२ भिक्खुपडिमाण बारसगं ।।"त्ति, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003344
Book TitleAgam Sutra Satik 10 Prashnavyakarana AngSutra 10
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages192
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 10, & agam_prashnavyakaran
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy