SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ द्वारं-२, अध्ययनं - ५, ५०९ एवमन्यस्योपदर्शनं १५ एवं निमन्त्रणं १६ रत्नाधिकमनापृच्छयान्यस्मै भक्तादिदानं १८ स्वयं प्रधानतरस्य भोजनं १८ व्याहरतो रत्नाधिकस्य वचनाप्रतिश्रवणं १९ रत्नाधिकस्य समक्षं बृहता शब्देन बहुधा भाषणं २० व्याहृतस्य किं भणसीति भणनं २१ प्रेरणायां कोऽसि त्वमित्येवमुल्लण्ठवचनं २२ ग्लानं प्रतिचरेत्याद्यादेशे त्वमेव किं न प्रतिचरसीत्यादिभणनं २ ३ धर्मं देशयति गुरावन्यमनस्कत्वं २४ कथयति गुरौ न स्मरसीति भणनं २५ धर्मकथाया आच्छेदनं २ ६ भिक्षावेला वर्त्तत इत्यादिवचनतः पर्षदो भेदनं २७ पर्षदस्तथैव स्थितायाः धर्मकथनं २८ गुरुसंस्तारकस्य पादघट्टनं २९ गुरुसंस्तारके निषदनं २० एवमुधासने ३१ एवं समासने ३२ गुरौ किञ्चित् पृच्छति तत्रगतस्यैवोत्तरदानं चेति ३३ । 'सुरिंद' त्ति द्वात्रिंशत्सुरेन्द्रा विंशतिर्भवनपतिषु दश वैमानिकैषु द्वौ ज्योतिष्वेषु चन्द्रसूर्याणामसङ्ख्यातत्वेऽपिजातिग्रहणाद् द्वितयमेवेति, इयं चेन्द्रसङ्ख्या यद्यपि वक्ष्यमाणसूत्रगत्या न प्रतीयते तथापि ग्रन्थान्तरादवसेया, भवन्तीत्यनुवर्त्तते सर्वत्र, इह स्थाने 'एएसु'त्ति वाक्यशेषो द्रष्टव्यः, तेन य एते एकत्वादिसङ्घयोपेता असंयमादयो भावा भवन्ति एतेषु किंभूतेषु ? - आदिमं प्रथमं एकादिकं - एकद्वित्र्यादिकं सङ्ख्याविशेषं कृत्वा - विधाय एकोत्तरिकया वृद्धया इति गम्यते वृर्द्धितेषु सङ्ख्याधिक्यं प्राप्तेषु कियतीं सङ्घयां यावद्दृ द्वेष्वित्याह 'तीसातो जाव' 'भवे तिकाहिया' त्रिंशद्यावद् भवति - जायते त्रिकाधिका त्रयस्त्रिंशतं यावद्वृद्धेष्वित्यर्थः, अनेन च क्रियास्थानादिपदानां सङ्क्षेपार्थसूत्रेऽनधीतापि सङ्ख्या यथोक्ता दर्शिता भवति, तत एवं वृद्धेष्वेतेषु शङ्खादि निराकृत्य यः शासनं श्रद्धत्त इति सम्बन्धनीयं, तथा विरतयः--प्राणातिपातादिविरमणानि प्रणिधयः- प्रणिधानानि विशिष्टैकाग्रत्वानि तेषु अविरतिषु च - अविरमणेषु अन्येषुच - उक्तव्यतिरिक्तेषु एवमादिकेषु - एवंप्रकारेषु बहुषु स्थानेषु - पदार्थेषु सङ्ख्यास्थानेषु वा चतुस्त्रिंशदादिषु जिनप्रशस्तेषु - जिनप्रशासितेषु अवितथेषु - सत्येषु शाश्वतभावेषु - ओघतोऽक्षयस्वभावेषु अत एवावस्थितेषु सर्वदाभाविषु, किमत आह-शङ्कासन्देहं काल–अन्यान्यमतग्रहणरूपां निराकृत्य सद्गुरुपर्युपासनादिभिः श्रद्धत्ते श्रद्दधाति शासनं - प्रवचनं भगवतो - जिनस्य श्रमण इति प्रक्रमः पुनः किंभूतः ? -अनिदानोदेवेन्द्राद्यैश्वर्याप्रार्थकः अगौरवः - ऋद्धयादिगौरववर्जितः अलुब्धः - अलंपट : अमूढो - मनोवचनकायगुप्तश्च यः स तथेति ॥ - अपरिग्रहसंवृतः श्रमण इत्युक्तमधुना अपरिग्रहत्वमेव प्रक्रान्ताध्ययनाभिदेयं वर्णयन्नाहसू. (४५) जो सो वीरवरवयणविरतिपवित्थरबहुविहप्पकारो सम्मत्तिवसुद्धमूलो धितिकंदी विनयवेतितो निग्गततिलोक्कविरुलजसनिविडपीणपवरसुजातखंधी पंचमहव्वयविसालसालो भावणतयंतज्झाणसुभजोगनाणपल्लववरं कुरधरो बहुगुणकुसुमसमिद्धो सीलसुगंधो अन्नहवफलो पुणो य मोक्खरवरबीजसारो मंदरगिरिसिहरचूलिका इव इमस्स मोक्खवरमुत्तिमग्गस्स सिहरभूओ संवरवरपादपो चरिमं संवरदारं, जत्थन कप्पइ गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमगयं च किंचि अप्पं व बहु व अणुं व थूलं व तसथावरकायदव्वजायं मणसावि परिधेत्तुं न हिरन्नसुवन्नखेत्तवत्थु न दासीदासभयकपेसहयगयगवेलगं च न जाणजुग्गसयणाइ ण छत्तकं न कुंडिया न उवाणहा न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003344
Book TitleAgam Sutra Satik 10 Prashnavyakarana AngSutra 10
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages192
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 10, & agam_prashnavyakaran
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy