________________
४८४
प्रश्नव्याकरणदशाङ्गसूत्रम् २/३/३८
एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुपणिहियं एवं जाव आघवियंसुदेसितंपसत्थं
वृ. 'जंबू इत्यादि जम्बूरित्यामन्त्रणं 'दत्ताणुनायसंवरो नाम'त्ति दत्तं च-वितीर्णमन्नादिकमनुज्ञातं च-प्रतिहारिकपीठफलकादि ग्राह्यमिति गम्यतेइत्येवंरूपः संवरो दत्तानुज्ञातसंवर इत्येवंनामकं भवति तृतीयं संवरद्वारमिति गम्यते,
हे सुव्रत! जम्बूनामन् ! महाव्रतमिदं, तथागुणानां-ऐहिकामुष्मिकोपकाराणां कारणभूतं व्रतं गुणवतं, किंस्वरूपमित्याह-परद्रव्यहरणप्रतिविरतिकरणयुक्तं तथा अपरिमिताअपरिमाणद्रव्यविषया अनन्ता वा--अक्षया या तृष्णा-विद्यमानद्रव्याव्ययेच्छा तया यदनुगतं महेच्छंच-अविद्यमानद्रव्यविषये महाभिलाषं यन्मनो--मानसं वचनं च वाक् ताभ्यां यत्कलुषंपरधनविषयत्वेन पापरूपमादानं-ग्रहणं तत्सुष्टु निगृहीतं-नियमितं यत्र तत्तथा, सुसंयमितमनसा-संवृतेन चेतसा हेतुना हस्तौ च पादौ च निभृतौ-परधनादानव्यापारादुपरती यत्र तत्सुसंयितमनोहस्तपादनिभृतं, अनेन च विशेषणद्वयेन मनोवाक्कायनिरोधः परघनं प्रति दर्शितः, तथा निर्ग्रन्थं निर्गतबाह्याभ्यन्तरग्रन्थं नैष्ठिकं-सर्वधर्मप्रकर्षपर्यन्तवर्तिं नितरामुक्तं सर्वज्ञैरुपादेयतयेति निरुक्तं अव्यभिचरितं वा निराश्रवं-कर्मादानरहितं निर्भयं-अविद्यमानराजदिभयं विमुक्तं-लोभदोषत्यक्तं उत्तमनरवृषभाणां 'पवरबलवग'त्ति प्रधानबलवतां च सुविहितजनस्य च-सुसाधुलोकस्य सम्मतं-अभिमतं यत्तत्तथा,
परसाधूनां धर्माचरणं-धर्मानुष्ठानं यत्तत्तथा, यत्र च तृतीये संवरे ग्रामाकरनगरनिगमखेटकर्बटमडम्बद्रोणमुखसंवाहपत्तनाश्रमगतंच ग्रामादिव्याख्यापूर्ववत् किञ्चिद् -अनिर्दिष्टस्वरूपं द्रव्यं, तदेवाहमणिमौक्तिकशिलाप्रवालकांस्यदूष्यरजतवरकनकरत्नादि, किमित्याह-पतितंभ्रष्टं पम्हुटुंति विस्मृतंवा-प्रतिपादयितुंअदत्तग्रहणप्रवर्त्तनं मा भूदितिकृत्वा ग्रहीतुंवा-आदातुं तन्निवृत्तत्वात्साधोः, यतः साधुनैवंभूतेन विहर्त्तव्यमित्यत आह-हिरण्यं-रजतं सुवर्णंच-हेम ते विद्येते यस्य स हिरण्यसुवर्णिकस्तन्निषेधेनाहिरण्यसुवर्णिकस्तेन, समे-तुल्ये उपेक्षणयतया लेष्टुकाञ्चने यस्य स तथा तेन,
अपरिग्रहो-धनादिरहितः संवृतश्चेन्द्रियसंवरेणयःसोऽपरिग्रहसंवृतस्तेन, लोके मर्त्यलोके विहर्तव्यं-आसितव्यं सञ्चरितव्यं वा साधुनेति गम्यते, यदपि च भवेद् द्रव्यजातं-द्रव्यप्रकारः खलगतं-धान्यमलनस्थानाश्रितं क्षेत्रगतं-कर्षणभूमिसंश्रितं रन्नमन्तरगतंव'त्ति अरण्यमध्यगतं वा, वाचनान्तरे 'जलथलगयं खेत्तमंतरगयं वत्ति दृश्यते, किश्चिद्-अनिर्दिष्टस्वरूपं पुष्पफलत्वक्प्रवालकन्दमूलतृणकाष्टशर्करादीति प्रतीतं अल्पं वा मूल्यतो बहु वा तथैव अणुवा-स्तोकं प्रमाणतः स्थूलकं वा तथैव न कल्पते-न युज्यते अवग्रहे-गृहस्थण्डिलादिरूपे अदत्ते-स्वामिनाऽननुज्ञातेग्रहीतुं आदातुंजे इति निपातः,ग्रहणे निषेध उक्तोऽधुना तद्विधिमाह
हणि हणित्ति अहन्यहनि प्रतिदिनमित्यर्थः अवग्रहमनुज्ञाप्य यथेह भवदीयेऽवग्रहे इदं इदं च साधुप्रायोग्यं द्रव्यं ग्रहीष्याम इति पृष्टेन तत्स्वामिना एवं कुरुतेत्यनुमते सतीत्यर्थो ग्रहीतव्यं-आदातव्यं वर्जयितव्यश्च सर्वकालं 'अचियत्त'त्ति साधून प्रत्यप्रीतिमतो यद् गृहं तत्र यः प्रवेशःसतथा अचियत्त'तिअप्रीतिकारिणः सम्बन्धि यद्भक्तपानंतत्तथा तद्वर्जयितव्यमिति प्रक्रमः, तथा अचियत्तपीठफलकशय्यासंस्तारकवस्त्रापात्रकम्बलदण्डकरजोहरणनिषद्याचोलप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org