________________
द्वारं-२, अध्ययनं - ३,
४८५
ट्टकमुखपोतिकापादप्रोञ्छनादि प्रतीतमेव, किमेवंविधभेदमित्याह - भाजनं - पात्रं भाण्डं वा तदेव मृन्मयं उपधिश्च - वस्त्रादिः एत एवोपकरणमिति समासस्तद्वर्जयितव्यमिति प्रक्रमः, , अदत्तमेव स्वमिनाऽननुज्ञातमितिकृत्या,
तथा परपरिवादो - विकत्थनं वर्जयितव्य इति, तथा परस्य दोषो दूषणं द्वेषो वा वर्जयितव्यः, परिवदनीयेन दूषणीयेन च तीर्थकरगुरुभ्यां तयोरननुज्ञातत्वे नादत्तरूपत्वादिति, अदत्तलक्षणं हीदं- 'सामीजीवादत्तं तित्थयरेणं तहेव य गुरूहिं' ति
तथा परस्य - आचार्यग्लानादेव्यपदेशेन - व्याजेन यच्च गृह्णाति -आदत्ते वैयावृत्त्यकरादिस्तत्तेनान्येन च वर्जयेतव्यं, आचायदिरेव दायकेन दत्तत्वादिति, परस्य परसम्बन्धि नाशयतिमत्सरादपहुते यच्च सुकृतं सच्चरितमुपकारं वा तत्सुकृतनाशनं वर्जयितव्यं, तथा दानस्य चान्तरायिकं - विघ्नोदानविप्रणाशो दत्तापलापः, तथा पैशून्यं चैव - पिशुनकर्म मत्सरित्वं च-परगुणानामसहनं तीर्थङ्कपाद्यननु ज्ञातत्वाद्वर्जनीयमिति,
तथा 'जेऽविए 'त्यादि योऽपि च पीठफलकशय्यासंस्तारकवस्त्रापात्रकम्बलमुखपोतिकापादप्रोञ्छनादिभाजनभाण्डोपध्युपकरणं प्रतीत्येति गम्यते अविसंविभागी - आचार्यग्लानादीनामेषणागुणविशुद्धिलब्धं सन्न विभजतेऽसौ नाराधयति व्रतमिदमिति सम्बन्धः, तथा 'असंगहरुइ' त्ति गच्छोपग्रहकरस्य-पीठादिकस्योपकरणस्यैषणादोषविमुक्तस्य लभ्यमानस्यात्मंभरित्वेन न विद्यते सङ्ग्रहे रुचिर्यस्यासावसङ्ग्रहमरुचिः, 'तववइतेणे य'त्ति तपश्च वाक् तपोवाचौ तयोः स्तेनःचौरस्तपोवावस्तेनः, तत्र स्वभावतो दुर्बलाङ्गमनगारमवलोक्य कोऽपि कञ्चन व्याकरोति - यथा भोः ! साधो स त्वं यः श्रूयते तत्र गच्छे मासक्षपकः ?, एवं पृष्टे यो विवक्षितक्षपकऽ सन्नप्याहएवमेतत्, अथवा धूर्त्ततया ब्रूते-भोः श्रावक ! साधवः क्षपका एव भवन्ति, श्रावकस्तु मन्यते - कथं स्वयमात्मानमयं भट्टारकः क्षपकतया निःस्पृहत्वात् प्रकाशयतीति कृत्वैवंविधमात्मोद्धत्यपरिहारपरं सकलसाधुसाधारणं वचनमाविः करोतीत्यतः स एवायं यो मया विवक्षित इत्येवं पर सम्बन्धि तप आत्मनि परप्रतिपत्तितः सम्पादयंस्तपस्तेन उच्यते, एवं भगवन् ! स त्वं वाग्गमीत्यादिभावनया परसम्बन्धिनीं वाचमात्मनि तथैव सम्पादयन् वाक्स्तेन उच्यते, तथा 'रूवतेणे य'त्ति एवं रूपवन्तमुपलभ्य स त्वं रूपवानित्यादिभावनया रूपस्तेनो, रूपं च द्विधा - शारीरसुन्दरता सुविहितसाधुनेपत्यं च, तत्र साधुनेपथ्यं यथा
119 11
"देहो रुगा उमन्ने जेसिं जल्लेण फासियं अंगं ।
मलिणा य चोलपट्टा दोन्नि य पाया समक्खाया ॥"
तत्र सुविहिताकाररञ्जनीयजनमुपजीवितुकामोऽसुविहितः सुविहिताकारधारी रूपस्तेनः, 'आयारे चेव'त्ति आचारे- साधुसामाचार्यां विषये स्तेनो यथा स त्वं यस्तत्र क्रियारुचिः श्रूयते इत्यादिभावना तथैव, 'भावतेणे य'त्ति भावस्य - श्रुतज्ञानादिविशेषस्य स्तेनो भावस्तेनो यथा कमपि कस्यापि श्रुतविशेषस्य व्याख्यानविशेषमन्यतो बहुश्रुतादुपश्रुत्य प्रतिपादयति यथाऽयं मयाऽपूर्वः श्रुतपर्यायोऽभ्युहितो नान्य एवमभ्यहितुं प्रभुरति, तथा शब्दकरो - रात्रौ महता शब्देगोल्लापस्वाध्यायादिकारको गृहस्थ भाषाभाषको वा,
तथा झञ्झाक येन येन गणस्य भेदो भवति तत्तत्कारी येन च गणस्य मनोदुःखमुत्पद्यते
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International