SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ४७८ प्रश्नव्याकरणदशाङ्गसूत्रम् २/२/३७ तत्र जनपदसत्यं यथा उदकार्थे कोंकणादिदेशरूढ्या पय इति वचनं, संमतसत्यं यथा समानेऽपि पङ्कसम्भवे गोपालादीनामपि सम्मतत्वेनारविन्दमेव पङ्कजमुच्यते न कुवलयादीति, स्थापनासत्यं जिनप्रतिमादिषु जिनादिव्यपदेशः, ____ नामसत्यं यथा कुलमवर्द्धयन्नपि कुलवर्द्धन इत्युच्यते, रूपसत्यं यथाभावतोऽश्रमणोऽपि तद्रूपधारी श्रमण इत्युच्यते, प्रतीतसत्यं यथा अनामिका कनिष्ठिका प्रतीत्य दीर्घत्युच्यते, सैव मध्यमांप्रतीत्य ह्रस्वेति, नयवहारसत्यं यथा गिरिगततृणादिषु दह्यमानेषु व्यवहारद् गिरिदह्यत इति, भावसत्यं यथा सत्यपि पञ्चवर्णत्वे शुक्लत्वलक्षणभावोत्कटत्वात् शुक्ला बलाकेति, योगसत्यं यथा दण्डयोगाद्दण्ड इत्यादि, औपन्यसत्यं यथा समुद्रवत्तडाग इत्यादि, तथा 'जह भणिअंतह य कम्मणुहोइ'त्तियथा येन प्रकारेण भणितं-भणनक्रिया दशविधसत्यं सम्भूतार्थतया भवति तथा तेनैवप्रकारेण कर्मणा वा-अक्षरलेखनादिक्रियया सद्भूतार्थज्ञापनेन सत्यं दशविधमेव भवतीति, अनेनचेदमुक्तं भवति-न केवलं सत्यार्थं वचनं वाच्यं हस्तादिकमाप्यव्यभिचार्यर्थसूचकमेवकर्तव्यं, उभयत्राप्यव्यभिचारितयापराव्यंसनस्याकुटिलाध्यवसायस्य च तुल्यत्वादिति, तथा 'दुवालसविहाय होइ भास'त्ति द्वादश विधा च भवति भाषा, तथा च॥१॥ "प्राकृतसंस्कृतभाषा मागधपैशाचसौरसेनी च । षष्ठोऽन्न भूरिभेदो देशविशेषादपभ्रंशः ।।" इयमेव षड्विधा भाषा गद्यपद्यभेदेने भिद्यमाना द्वादशधा भवतीति, तथा वचनमपि षोडशविंधं भवति, तथाहि॥१॥ “वयणतियं ३ लिंगतियं ६ कालतियं ९ तह परोक्खपच्चक्खं ११। उवणीयाइचउक्कं १५ अज्झत्थं" १६ चेव सोलसमं ॥" तत्र वचनत्रयं एकवचनद्विवचनबहुवचनरूपं यथा वृक्षः वृक्षौ वृक्षाः, लिङ्गत्रिकं स्त्रीपुनपुंसकरूपं यथा कुमारी कुण्डं, कालत्रिकं अतीतानागतवर्तमानकालरूपं, यथाऽकरोत् करिष्यति करोति, प्रत्यक्षं यथाऽयं एष;, परोक्षं यथा सा, तथा उपनीतवचनं-गुणोपनयनरूपं यथा रूपवानयं, अपनीतवचनं-गुणापनयनरूपं यथा दुःशीलोऽयं, उपनीतापनीतवचनं यत्रैकं गुणमुपनीय गुणान्तरमपनीयते यथारूपवानयंकिंतुदुःशीलः, विपर्ययेण तुअपनीतोपनीतवचनं तद्यथा दुःशीलोऽयं किन्तु रूपवान्, अध्यात्मवचनं-अभिप्रेतमर्थंगोपयितुकामस्य सहसा तस्यैव भणनमिति, __ “एव'मिति उक्तसत्यादिस्वरूपावधारणप्रकारेण अर्हदनुज्ञातं समीक्षितं-बुद्धया पर्यालोचिलिोचितं संयतेन-संयमवता काले च–अवसरे वक्तयव्यं, नतु जिनानुज्ञातमपर्यालोचितमसंयतेनाकाले चेति भावना, आह च॥१॥ “बुद्धीए निएऊण भासेज्जा उभयलो गपरिसुद्धं । सपरोभयाण ज खलु न सव्वहा पीडजणगंतु॥" एतदर्थमेव जिनशासनमित्येतदाहमू. (३७) इमंच अलियपिसुणफरुसकडुयचवलवयणपरिरक्खणट्टयाएपावयणं भगवया सुकहियं अत्तहियं पेचाभाविकं आगमेसिभदं सुद्धं नेयाउयं अकुडिलं अनुत्तरं सव्वदुक्खपावाणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003344
Book TitleAgam Sutra Satik 10 Prashnavyakarana AngSutra 10
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages192
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 10, & agam_prashnavyakaran
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy