________________
द्वारं-२, अध्ययनं -२,
जात्यादीनां समाहापरद्वन्द्वः, ततो जात्यादिना निन्दितेन परचित्तपीडाकारित्वाद्यद्भवेद्वर्जनीयं परिहर्त्तव्यं तदेवंविधं सत्यमपि न वक्तव्यमिति वाक्यार्थः, तत्र जातिः --मातृकः पक्षः कुलं - पैतृकः पक्षः रूपं आकृतिः व्याधिः - चिरस्थाता कुष्ठादिः रोगः-- शीघ्रतरघाती ज्वरादिः वा विकल्पे अपिः समुच्चये 'दुहिलं'ति द्रोहवत् पाठान्तरेण 'दुहओ' त्ति द्रव्यतो भावतश्च उपचारंपूजामुपकारं वा अतिक्रान्तं, एवंविधं तु - एवंप्रकारं पुनः सत्यमपि सद्भूततामात्रेण आस्तामसत्यं न वक्तव्यं न वाच्यं,
'अथ केरिसगं' ति अथशब्दः परिप्रश्ने की शकं ? - किंविधं पुणाई' ति इह पुनरपि पूर्ववाक्याथपिक्षयोत्तरवाक्यार्थस्य विशेषद्योतनार्थः आइन्ति वाक्यालङ्कारार्थः 'सच्चं तु' त्ति सत्यमपि भाषितव्यं वक्तव्यं यत्तद् द्रव्यैः - त्रिकालनुगतिलक्षणैः पुद्गलादिभिर्वस्तुभिः पर्यायैश्चनवपुराणादिभिः क्रमवर्त्तिभिर्धम्र्मैः गुणैः- वर्णादिभिः सहभाविभिर्द्धम्मैरेव कर्म्मभिः कृष्यादिव्यापारैः बहुविधैः शिल्पैः साचार्यकैश्चित्रकम्र्मादिभिः क्रियाविशेषैः आगमैश्च - सिद्धानतार्थेर्युक्तमिति सम्बन्धः कार्यः, युक्तशब्दस्योत्तरत्र समस्तनिर्देशेऽपि प्राकृत शैलीवशात् द्रव्यादियुक्तत्वं वचनस्य तदभिधायकत्वाद्, अथवा द्रव्यादिषु विषये द्रव्यादिगोचरमित्यर्थः,
तथा “नामाख्यातनिपातोपसर्गतद्धितसमाससन्धिपदहेतुयोगिकोणादिक्रियाविधानधातुस्वर विभक्तिवर्णयुक्त' मिति तत्र नामेति पदशब्दसन्धान्नामपदमेवमुत्तरत्रापि, तच्चाव्युत्पन्नेतरभेदाद् द्विधा, तत्र व्युत्पन्नं देवदत्तादि अव्युत्पन्नं डित्थेत्यादि, आख्यातपदं साध्यक्रियापदं यथा अकरोत् करोति करिष्यति, तत्तदर्थद्योतनाय तेषु तेषु स्थानेषु निपतन्तीति निपाताः तत्पदं निपातपदं यथा च वा खल्वित्यादि, उपसृज्यन्ते - धातुसमीपे नियुज्यन्त इत्युपसर्गास्तद्रूपं पदमुसर्गपदं प्र परा अपेत्यादिवत्, तस्मै हितं तद्धितमित्याद्यर्थाभिधायका ये प्रत्ययास्ते तद्धिताः तदन्तं पदं तद्धितपदं यथा गोभ्यो हितो गव्यो देशः नाभेरपत्यं नाभेय इत्यादि, समसनं समास:पदानामेकीकरणरूपः तत्पुरुषादिस्तत्पदं समासपदं यथा राजपुरुष इत्यादि,
सन्धिः- सन्निकर्षस्तेन पदं यथा दधीदं तद्यथेत्यादि, तथा हेतुः - साध्याविनाभूतत्वलक्षणो यथाऽनित्यः शब्दः कृतकत्वादिति, यौगिकं - यदेतेषामेव ट्र्यादिसंयोगवत्, यथा उपकरोति सेनयाऽ- भियाति अभिषेणयतीत्या, तथा उणादि उणप्रभृतिप्रत्ययान्तं पदं यथा आशु स्वादु, तथा क्रियाविधानं-सिद्धक्रियाविधिः कान्तप्रत्ययान्त पदविधिरित्यर्थः, यथा पाचकः पाक इत्यादि, तथा धातवो - भ्वादयः क्रियाप्रतिपादकाः स्वरा - अकारादयः षड्जादयो वा सप्त, क्वचिद्रसा इति पाठः तत्र रसाः - श्रृङ्गारादयो नव, यथा
119 11
"श्रृङ्गारहास्यकरुणा, रौद्रवीरभयानकाः ।
४७७
बीभत्साद्भुतशान्ताश्च, नव नाट्ये रसाः स्मृताः ॥”
विभक्तयः-- प्रथमाद्याः सप्त वर्णाः- ककारादिव्यञ्जनानि एभिर्युक्तं यत्तत्तथा, अथ सत्यं भेदत आह- त्रैकाल्यं - त्रिकालविषयं दशविधमपि सत्यं भवतीति योगः, दशविधत्वं च सत्यस्य जनपदसम्मतसत्यादिभेदात्, आह च-
11| 9 || “जनवय १ संमय २ ठवणा ३ नामे ४ रूवे ५ पडुच्चसच्चे य ६ । ववहार ७ भाव ८ जोगे ९ दसमे ओवम्मसच्चे य १० ॥ त्ति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org