________________
९०
ज्ञाताधर्मकथा सूत्रम्-१/-१२/४५ ॥१॥ “सो होइ साइजोगो दव्वं जं छुहिय अन्नदव्वेसु ।
दोसगुणा वयणेसु य अत्थविसंवायणं कुणि ॥त्ति" एकीयं व्याख्यानं, व्याख्यानान्तरं पुनरेवं-उत्कोचनं उत्कोचः निकृतिः-वञ्चनप्रच्छादनार्थ कर्म सातिः-अविश्रम्भः एतत्संप्रयोगेबहुलः, शेषतथैव, चिरं-बहुकालं यावत् नगरे नगरस्य वा विनष्टो-विप्लुतःचिरनगरविनष्टः, बहुकालीनो यो नगरविनष्टो भवति स किलात्यन्तं धूर्तो भक्तीत्येवं विशेषितः, तथा दुष्टं शीलं-स्वभावः आकारः-आकृतिश्चरित्रंच-अनुष्ठानं यस्य स तथा ततः कर्मधारयः, द्यूतप्रसङ्गी-छूतासक्तः एवमितराणि, नवरंभोज्यानि-खण्डखाद्यादीनि, पुनरुणग्रहणं हृदयदारक इत्यस्य विशेषणार्थत्वान्न पुनरुक्तं, लोकानां हदयानि दारयतिस्फोटयतीति हदयदारकः, पाठान्तरेण 'जणहियकारए' जनहितस्याकर्तेत्यर्थः, 'साहसिकः' अवितर्कितकारी 'सन्धिच्छेदकः' क्षेत्रखानकः 'उपधिको मायित्वेन प्रच्छन्नचारी विश्रम्मघाती' विश्वासघातकःआदीपक:-अग्निदातातीर्थानि-तीर्थभूतदेवद्रोण्यादीनि भिनत्ति-द्विधा करोति तद्रव्यमोषणाय तत्परिकरभेदनेनेति तीर्थभेदः, लघुभ्यां--क्रियासु दक्षाभ्यां हस्ताभ्यां संप्रयुक्तो यः स तथा, ततः पदत्रयस्य कर्मधारयः, परस्य द्रव्यहरणे नित्यमनुबद्धः प्रतिबद्ध इत्यर्थः,
–'तीव्रवैरः' अनुबद्धविरोधः 'अतिगमनानि' प्रवेशमार्गान् 'निर्गमनानि' निस्सरणमार्गान् 'द्वाराणि प्रतोल्यः 'अपरद्वाराणि' द्वारिकाः 'छिण्डीः' छिण्डीकाः-वृत्तिच्छिद्ररूपाः 'खण्डीः' प्राकारच्छिद्ररूपाः नगरनिर्द्धमनानि-नगरजलनिर्गमक्षालान् 'संवर्तनानि' मार्गमिलनस्थानानि 'निवर्तनानि' मार्गनिर्घटनस्थानानि चूतखलकानि' द्यूतस्थण्डिलानि पानागाराणि मद्यगेहानि 'वेश्यागाराणि' वेश्याभवनानि 'तस्करस्थानानि शून्यदेवकुलागारादीनि 'तस्करगृहाणि' तस्करनिवासान्शृङ्गाटकादीनि प्राग्व्याख्यातानि सभा:-जनोपवेशनस्थानानिप्रपाः-जलस्थानानि, लिङ्गव्यत्ययश्च प्राकृतत्वात्, ‘पणितशालाः' हटान् शून्यगृहाणि-प्रतीतानि 'आभोगयन्' पश्यन् ‘मार्गयन्' अन्वयधर्मपालोचनतः 'गवेषयन्' व्यतिरेकधर्मपालोचनतः बहुजनस्य 'छिद्रेषु' प्रविरलपरिवारत्वादिषु चौरप्रवेशावकाशेषु
-विषमेषु'तीव्ररोगादिजनितातुरत्वेषु 'विधुरेषु' इष्टजनवियोगेषु 'व्यसनेषु' राज्याधुपप्लवेषु तथा अभ्युदयेषु राज्यलक्षम्यादिलाभेषु 'उत्सवेषु' इन्द्रोत्सवादिषु 'प्रसवेषु' पुत्रादिजन्मसु 'तिथिषु' मदनत्रयोदश्यादिषु 'क्षणेषु' वडुलोकभोजनदानादिरूपेषु 'यज्ञेषु' नागादिपूजासु पर्वणीषु कौमुदी-प्रभृतिषुअधिकरणभूतासुमत्तः पीतमद्यतयाप्रमत्तश्चप्रमादवान् यः स तथा तस्य बहुजनस्येति योगः, 'व्याक्षिप्तस्य प्रयोजनान्तरोपयुक्तस्य व्याकुलस्य च नानाविधकार्यक्षेपेण सुखितस्य दुःखितस्य च विदेशस्थस्य च देशान्तरस्थस्य विप्रोषितस्य च-देशान्तरंगन्तुंप्रवृत्तस्य मार्गच पन्थानं 'छिद्रंच' अपद्वारं 'विरहंच' विजनं अन्तरंच-अवसरमिति आरामादिपदानि प्राग्वत् 'सुसाणेसु यत्ति श्मशानेषु 'गिरिकन्दरेषु' गिरिरन्ध्रेषु 'लयनेषु' गिरिवर्तिपाषाणगृहेषु 'उपस्थानेषु तथाविधमण्डपेषु बहुजनस्य छिद्रेष्वित्यादि पुनरावर्तनीयं यावद् एवं च णं विहरइति ।
मू. (४६) तते णं तीसे भद्दाए भारियाए अन्नया कयाइं पुव्वरत्तावरत्तकालसमयंसि कुडुंबजागरियंजागरमाणीए अयमेयारूवे अज्झथिए जावसमुपज्जित्था-अहंधन्नेन सत्यवाहेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org