SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-1919 यस्यां सा प्रमुदितजनजानपदा 'आइण्णजणमणुस्सा' मनुष्यजनेनाकीर्णा-संकीर्णा, मनुष्यजनाकीर्णेति वाच्ये राजदन्तादिदर्शनादाकीर्णनमनुष्येत्युक्तं, 'हलसयसहस्ससंकिट्ठवियट्ठलट्ठपन्नत्तसेउसीमा हलानां-लाङ्गलानां शतैः सहस्रैश्च शतसहस्रैर्वा-लक्षः संकृष्टा-विलिखिता विकृष्टं-दूरं यावदविकृष्टा वा-आसन्ना लष्टा-मनोज्ञा कर्षकाभिमतफलसाधनसमर्थत्वात् ‘पन्नत्तेति योग्या कृता बीजवपनस्य सेतुसीमामार्गसीमा यस्याः सा तथा, अथवा संकृष्टादिविशेषणानि सेतूनि-कुल्याजलसेक्यक्षेत्राणि सीमासु यस्याः सा तथा, अनेन तञ्जनपदस्य लोकबाहुल्यं क्षेत्रबाहुल्यं चोक्तं, 'कुक्कुडसंडेयगामपउरा' कुक्कुटाः-ताम्रचूडा पाण्ढेयाः षण्डपुत्रकाः षण्ढा एव तेषां ग्रामाः-समूहास्ते प्रचुराः-प्रभूता यस्यां सा तथा, अनेन लोकप्रमुदितत्वं व्यक्तीकृतं, प्रमुदितो हि लोकः क्रीडार्थ कुक्कुटान्पोषयतिषष्डांश्चकरोतीति, उच्छुजवसालिकलिया' अनेनचजनप्रमोदकारणमुक्तं, नह्येवंप्रकारवस्त्वभावेन प्रमोदोजनस्यस्यादिति, गोमहिसगवेलगप्पभूया' गवादयः प्रभूताः-प्रचुरा यस्यामिति वाक्यं गवेलका-उरभ्राः, ___ 'आयारवंतचेइयजुवइविधिहसन्निविट्ठबहुला' आकारवन्ति-सुन्दराकाराणि यानि चैत्यानि-देवतायतनानि युवतीनां च-तरुणीनां पण्यतरुणीनामिति हृदयं यानि विविधानि संनिविष्टानि-संनिवेशनानि पाटकास्तानि बहुलानिबहूनि यस्यां सा तथा 'उक्कोडियगायगंठिभेयभडतक्करखंडरक्खरहिया' उक्कोडा उत्कोटा-लञ्चेत्यर्थः तयायेव्यवहरन्ति तेउत्कोटिकाः गात्रान्-मनुष्यशरीरावयवविशेषान् कट्यादेः सकाशाद्ग्रन्थिकार्षापणादिपोट्टलिकां भिन्दन्ति-आच्छिन्दन्तीतिगात्रग्रन्थिभेदा भटाः-चारभट्बलात्कारप्रवृत्तयः तस्कराः-तदेव-चौर्य कुर्वन्तीत्येवंशीलास्तस्कराः खण्डरक्षा-दण्डपाशिकाः शुल्कपाला वा एभी रहिता या सा तथा, अनेन तत्रोपद्रवकारिणमभावमाह, 'खेमा' अशिवाभावात् 'निरुवढुवा' निरुपद्रुता अविद्यमानराजादिकृतोपद्रवेत्यर्थः, ‘सुभिक्षा' सुष्ठु-मनोज्ञा प्रचुरा भिक्षा भिक्षुकाणां यस्यां सा सुभिक्षा, अत एव पाखण्डिकानां गृहस्थानां च वीसत्थसुहावासा' विश्वस्तानां निर्भयानामनुत्सुकानां वा सुखः-सुखस्वरूपः शुभो वा आवासो यस्यां सा तथा, ‘अनेगकोडीकोटुंबियाइण्णनिव्वुयसुहा' अनेकाः कोट्यो द्रव्यसंख्यायां स्वरूपपरिमाणे वा येषां ते अनेककोट्यः तैः कौटुम्बिकैःकुटुम्बिभिश्चाकी संकुला या सा तथा सा चासौ निर्वृता च–संतुष्टजनयोगात् संतोषवतीति कर्मधारयोऽत एव सा चासौ सुखा च शुभा च वेति कर्मधारयः, नडनट्टगजल्लमुट्ठियवेलंगबगकहकपवकलासकआइक्खयलंखमंखतूणइल्लतुंबवीणियअनेगतालाचराणुचरिया' नटा-नाटकानां नाटयितारो नर्तका-ये नृत्यन्ति अंकोल्ला इत्येके जल्ला--वरनाखेलकाः राज्ञः स्तोत्रपाटका इत्यन्ये मल्लाः-प्रतीताः मौष्टिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति विडम्बका-विदूषकाः कथकाः-परतीताः-प्लवका-ये उत्प्लवन्ते नद्यादिकंवा तरन्ति लासका ये रासकान्गायन्ति जयशब्दप्रयोक्तारोवा भाण्डा इत्यर्थः आख्यायिका ये शुभाशुभमाख्यान्ति लक्षा-महावंशानखेलका मङ्खाः-चित्रफलकहस्ता भिक्षाकाः तूणइल्ला-तूणाभिधानवाद्यविशेषवन्तः तुम्बवीणिका-वीणावादका अनेके च ये तालाचराः-तालादानेन प्रेक्षाकारिणस्तैरनुचरिता-आसेविता या सा तथा, 'आरामुजाणअगडतलायदीहियवप्पिणगुणोववेया' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003340
Book TitleAgam Sutra Satik 06 Gnatadharmakath AngSutra 06
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages280
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy