________________
श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-9
नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः
६ ज्ञाताधर्मकथाङ्गम्
सटीक
(षष्ठं अङ्गसूत्रम्)
119 11
५
(मूलसूत्रम् + अभयदेवसूरिविरचिता वृत्तिः) प्रथमः श्रुतस्कन्ध : फ
नवा श्रीमन्महावीरं, प्रायोऽन्यग्रन्थवीक्षितः । ज्ञाताधर्मकथाङ्गस्यानुयोगः कश्चिदुच्यते ॥
तत्र च फलमङ्गलादिचर्चः स्थानान्तरादवसेयः, केवलमनुयोगद्वारा वेशेषस्योपक्रमस्य प्रतिभेदरूपप्रक्रान्तशास्त्र वीरजिनवरेन्द्रापेक्षयाऽर्थतः आत्मागमत्वं तच्छिष्यं तु पञ्चमगणधरं सुधर्मस्वा-मिनमाश्रित्यानन्तरागमत्वं तच्छिष्यं च जम्बूस्वामिनमपेक्ष्य परम्परागमतां प्रतिपिपादयिषुः अथवा अनुगमाख्यस्य तृतीयस्यानुयोगद्वारस्य भेदभूताया उपोद्घातनिर्युक्तेः प्रतिभेदभूतनिर्गमद्वारस्वभावं प्रस्तुतग्रन्थस्यार्थतो महावीरनिर्गतत्वमभिधित्सुः सूत्रकारः - 'तेणं कालेण' मित्यादिकमुपोद्घातग्रन्थं तावदादावाह
● अध्ययनं - १ - उत्क्षिप्तः
मू. (१) ॐ नमः सर्वज्ञाय । ते णं काले णं ते णं समए णं चंपानामं नयरी होत्था वण्णओ वृ. तत्र योऽयं णंशब्दः स वाक्यालङ्कारार्थः, ते इत्यत्र च य एकारः स प्राकृ तशैलीप्रभवो यथा 'करेमि भंते!' इत्यादिषु, ततोऽयं वाक्यार्थो जातः - तस्मिन् काले तस्मिन् समये यस्मिन्नसौ नगरी बभूवेति, अधिकरणे चेयं सप्तमी, अथ कालसमययोः कः प्रति विशेषः ?, उच्यते, काल इति सामान्यकालः अवसर्पिण्याश्चतुर्थविभागलक्षणः समयस्तु तद्विशेषो यत्र सा नगरी स राजा सुधर्म्मस्वामी च बभूव, अथवा तृतीयैवेयं, ततस्तेन कालेन - अवसर्पिणीचतुर्थारकलक्षणेन हेतुभूतेन तेन समयेन तद्विशेषभूतेन हेतुना
"
'चंपा नाम नगरी होत्य'त्ति अभवत् आसीदित्यर्थः ननु चेदानीमपि साऽस्ति किं पुनरधिकृतग्रन्थकरणकाले ?, तत्कथमुक्तमासीदिति ?, उच्यते, अवसर्पिणीत्वात् कालस्य वर्णकग्रन्थवर्णिविभूतियुक्ता तदानीमासीद् इदानीं नास्तीति 'बण्णओ' त्ति चम्पानगर्या वर्णकग्रन्थोऽत्रावसरे वाच्यः, स चायं - 'ऋद्धत्थिमियसमिद्धा' ऋद्धा-भवनादिभिर्वृद्धिमुपगता स्तिमिता - भयवर्जितत्वेन स्थिरा समृद्धाधनधान्यादियुक्ता ततः पदत्रयस्य कर्मधारयः 'पमुइयजणजाणवया' प्रमुदिताः प्रमोदकारणवस्तूनां सद्मावाञ्जनाः नगरीवास्तव्यलोका जानपदाश्च - जनपदभवास्तत्रायाताः सन्तो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org