________________
७८
ज्ञाताधर्मकथाङ्ग सूत्रम्- 9/19/३७ तस्यैवमण्डलस्यधातं, एवंतृतीयमिति, नलिनीवनविवधनकरे, इह विवधनं-विनाशः, 'हेमंते'ति शीतकालेकुन्दाः-पुष्पजातीयविशेषाः लोध्राश्च-वृक्षविशेषास्तेचशीतकालेपुष्यन्त्यतस्तेउद्धताःपुष्पसमृद्धया उद्धवरा इव यत्र सतथा, तथा तुषारं-हिमं तत् प्रचुरं यत्र स तथा, ततः कर्मधारयः ततस्तत्र, ग्रीष्मे-उष्णकाले विवर्तमानो-विचरन् वनेषु वनकरेणूनां ताभिर्वा विविधा दिन्न'त्ति दत्ताः कजप्रसवैः-पद्मकुसुमैर्घाताः-प्रहारायेषुयस्य वा सतथा वनरेणुविविहदिन्नकय-पंसुधा
ओ'त्ति पाठान्तरे तु वनरेणवो-वनपांशवो विविधं-अनेकधा 'दिन्न'त्ति दत्ता दिक्ष्वात्मनि च क्रिडापरतया क्षिप्ता येन स तथा, तथा क्रीडयैव कृताः पांशुघाता येन स तथा, ततः पदद्वयस्य कर्मधारयः,
'तुम'ति त्वं, तथा कुसुमैः कृतानियानिचामरवत्वकर्णपूराणितैः परिमण्डितोऽभिरामश्च यःतथा, क्वचित् 'उउयकुसुम'त्तिपाठः, तत्रऋतुजकुसुमैरिति व्याख्येयं, तथामदवशेन विकसन्ति कटतटानि-गण्डतटानि क्लिन्नानि-आर्द्राकृतानि येन तत्तथा तच्च तद्गन्धमदवारि च तेन सुरभिजनितगन्धः-मनोज्ञकृतगन्धः करेणुपरिवृतःऋतुभिः समस्ता समाप्ता वा-परिपूर्णाजनिता शोभा यस्य स तथा, काले किंभूते ?-दिनकरः करप्रचण्डो यत्र स तथा तत्र, परिशोषिताःनीरसीकृताःतरुवराः श्रीधराः-शोभावन्तोयेन परिशोषिता वातरुवराणांश्री:-संपद्धरायां-भुवि वा येन, पाठान्तरे परिशोषितानि तरुवरशिखराणि येन स तथा स चासौ भीमतरदर्शनीयश्चेति,
__तत्र, भृङ्गाराणां-पक्षिविशेषाणां रुवतां-रवं कुर्वतां भैरवो-भीमो रवः-शब्दो यस्मिन् सतथा तत्र, नानाविधानि पत्रकाष्ठतृणकचवराण्युद्धतानि-उत्पाटितानि येन स तथा स चासो प्रतिमारुतश्च-प्रतिकूलवायुस्तेन आदिग्धं-व्याप्तं नमस्तलं-व्योम ‘पडुममाणे'त्ति पटुत्वादुपतापकारि यस्मिन्, पाठान्तरे उक्तविशेषणेन प्रतिमारुतेनादिग्धं नभस्तलं द्रुमगणश्च यस्मिन् स तथा, तत्र वातोल्या-वात्यया दारुणतरो यः स तथा तत्र, तृष्णावशेन ये दोषा-वेदनादयस्तैोषिता-जातदोषा दूषिता वानमन्तो विविधा ये श्वपदास्तैः समाकुलो यः स तथा तत्र, भीमं यथा भवत्येवं श्यतेयः सभीमदर्शनीयः तत्र वर्तमानोदारुणे ग्रीष्मे,केनेत्याह-मारुतवशेन यः प्रसरः-प्रसणं तेन प्रसृतो विजृम्भितश्च-प्रबलीभूतो यः स तथा तेन, वनदवेनेति योगः,
अभ्यधिकंयथा भवत्येवंभीमभैरवः-अतिभीष्मो रवप्रकारोयस्यस तथा तेन, मधुधाराया यत्पतितं-पतनं तेन सिक्त उद्धावमानः-प्रवर्द्धमानो धगधगायमानो-जाज्वल्यमानः स्पन्दोद्धतश्च-दह्यमानदारुस्पन्दप्रबलः पाठान्तरे शब्दोद्धतश्चयः सतथा तेनदीप्ततरो यः सस्फुलिङ्गश्च तेन, धूममालाकुलेनेति प्रतीतं, श्वापदशतान्तकरणेन-तद्विनाशकारिणा ज्वालाभिरालोपितः-कृताच्छादनो निरुद्धश्च-विवक्षितदिग्गमनेन निवारितो धूमजनितान्धकाराभीतश्च यः सतथा,आत्मानमेवपालयतीत्यात्मपालः,पाठा०'आयवालोय'त्तितत्रआतपालोकेन-हुतवहतापदर्शनेन महान्तौ तुम्बकितौ स्तब्धतया अरघट्टतुम्बाकृती ससंघ्रमौ कर्णौ यस्य स तथा, ... आकुञ्चतस्थूलपीवरकरः भयवशेन भजन्ती दिश इति गम्यते दीप्ते नयने यस्य स तथा 'आकुंचियथोरपीवरकराभोयसव्वभयंतदित्तनयणो' तिपाठान्तरंतत्राभोगो-विस्तरः सर्वादिशो भजन्ती दीप्ते नयने यस्येति, वेगेन महामेध इव वातेनोदितमहारूपः, किमित्याह-येन यस्यां दिशि कृतो-विहितस्ते- त्वयापुरा-पूर्वं दवाग्निभयभीतहदयेन अपगतानि तृणानि तेषामेव च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org