________________
श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-१
७७
आघावमान-ईषत् परिधावमानः- समन्तात् 'पाणियपाए त्ति पानं पायः पानीयस्य पायः पानीयपायस्तस्मिन्, जलपानायेत्यर्थः, सेयंसिविसन्नेत्तिपङ्केनिमग्नः, कायंप्रत्युद्धरिष्यामीतिकृत्वा कायमुद्धर्तुमारब्ध इति शेषः, 'बलियतराय'ति गाढतरं।
"तए णमित्यादि, इहैवमक्षरघटना-त्वया हे मेघ ! एको गजवरयुवा करचरणदन्तमुशलप्रहारकैर्विप्रालब्धो विनाशयितुमिति गम्यते, विपराद्धोवा-हतःसन् अन्यदा कदाचित् स्वकाधूथात् चिरं 'निजूढे ति निर्घाटितो यः स पानीयपानाय तमेव महाहदं समवतरति स्मेति, 'आसुरुत्ते'त्ति स्फुरितकोपलिङ्गः रुष्ट :-उदितक्रोधः कुपितः--प्रवृद्धकोपोदयः चाण्डिक्यितःसंजातचाण्डिक्यः प्रकटितरौद्ररूप इत्यर्थः 'मिसिमिसीमाणे'त्ति क्रोधाग्निना देदीप्यमान इव, एकाथिका वैतेशब्दाःकोपप्रकर्षप्रतिपादनार्थंनानादेशजनिवेयानुग्रहार्थवा, उच्छुहइ अवष्टभ्नाति विध्यतीत्यर्थः, 'निजाए'त्तिनिर्यातयति समापयति, वेदना किंविधा?-उज्ज्वला विपक्षलेशेनापि अकलङ्किता विपुला शरीरव्यापकत्वात् क्वचित्तितुलेत्ति पाठस्तत्र त्रीनपि मनोवाक्यलक्षणानर्थास्तुलयति-जयति तुलारूढानिव वा करोतीति त्रितुला कर्कशा-कर्कशद्रव्यमिवानिष्टेत्यर्थः, प्रगाढा-प्रकर्षवतीचण्डा-रौद्रा दुःखा-दुःखरूपा न सुखेत्यर्थः,
किमुक्तं भवति ?- दुरधिसह्या, 'दाहवकंतीए'त्ति दाहो व्युत्क्रान्त-उत्पन्नो यस्य स तथा स एव दाहव्युत्क्रान्तिकः ‘अट्टक्स- दृदुहट्टे'त्ति आर्तवशं-आर्तध्यानवशतामृतो-गतो दुःखार्तश्चयः स तथा, 'कणेरुए'त्तिकरेणुकायाः रत्तुपल्ले'त्यादि रक्तोत्पलवद्रक्तः सुकुमारकश्च यःसतथा जपासुमनश्चआरक्तपारिजातकश्च वृक्षविशेषौलाक्षारसश्च सरसकुडमंचसन्ध्या-रागश्चेतिद्वन्द्वः एतेषामिवव!यस्यस तथा, गणियार'त्तिगणिकाकाराः-समकायाः करेणवस्तासां 'कोत्थं तिउदरदेशस्तत्र हस्तो यस्य कामक्रीडापरायणत्वात् सतथा, इह चेत्समासान्तो द्रष्टव्यः । 'कालधंमुण'त्ति कालः-मरणं स एव धर्मो-जीवपर्यायः कालधर्मः 'निव्वत्तियनामधेजो'इ यावत्करणेन यद्यपि समग्रः पूर्वोक्तो हस्तिवर्णकः सूचितस्थापि श्वेततावर्णकवर्को द्रष्टव्यः, इह रक्तस्य तस्य वर्णितत्वादत एवाने 'सत्तुस्सेहे'इत्यादिकमतिदेशं वक्ष्यति यत् पुनरिह दृश्यते 'सत्तंगे'त्यादि तद्वाधनान्तरं, वर्णकापेक्षं तु लिखितमिति ।
"लेसाही'त्यादि तेजोलेश्याधन्यतरलेश्यां प्राप्तस्येत्यर्थः अध्यवसानं-मानसी परिणतिः परिणामो-जीवपरिणतिः,जातिस्मरणावरणीयानिकर्माणिमतिज्ञानावरणीयभेदाः क्षयोपशमःउदितानांक्षयोऽनुदितानांविष्कम्भितोदयत्वंईहा-सदाभिमुखो वितर्कइत्यादि प्राग्वत्, संज्ञिनः पूर्वजातिः-प्राक्तनं जन्म तस्या यत् स्मरणं तत्संज्ञिपूर्वजातिस्मरणं व्यस्तनिर्देशे तु संज्ञी पूर्वो भवोयत्र तत्संज्ञिपूर्वसंज्ञीतिच विशेषणंस्वरूपज्ञापनार्थं, नवसंज्ञविनोजातिविषयंस्मरणमुत्पद्यत इति, 'अभिसमेसित्तिअवबुध्यसे प्रत्यपराण:-अपराह्नः, _ -तएणमित्यादिकोग्रन्थोजातिस्मरणविशेषणमाश्रित्यवर्णितः, दवग्गिजायकारणट्टत्ति दवाग्नेः संजातस्यकारणस्य-भयहेतोर्निवृत्तयेइदंदवाग्निसंजातकारणार्थं, अर्थशब्दस्यनिवृत्त्यर्थत्वात्, क्वचित्त दवग्गिसंताणकारण?'त्ति दृश्यते, तत्र दवाग्निसन्त्राणकारणायेति व्याख्येयं, 'मंडलंघाएसि' वृक्षाधुपघातेन तत्करोतीत्यर्थः 'खुवेतयतिवत्तिक्षुवोहस्वशिखः शाखी आहुणियति २ प्रकम्य चलयित्वेत्यर्थः, 'उद्ववेसित्ति उद्धरसि ‘एडेसि'त्ति छईयसि, 'दोचंपि' द्वितीयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org