SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-19/२५ दायां पतिता-अन्तर्भूता या प्रक्रिया पुत्रजन्मोत्सवसबन्धिनी सा स्थितिपतिता तां, -वाचनान्तरे ‘दसदिवसियं ठियपडियन्ति दशाहिकमहिमानमित्यर्थः कुरुत कारयत वा, 'सएहि तिशतपरिमाणैः, दायेहितिदानैः, वाचनान्तरेशतिकांश्चेत्यादि, यागान्-देवपूजा, दायान-दानानि मागान्-लब्धद्रव्यविभागनिति, प्रथमे दिवसेजातकर्म-प्रसवकर्मनालच्छेदननिखननादिकं द्वितीयदिने जागरिकां-रात्रिजागरणं तृतीये दिवसे चन्द्रसूर्यदर्शनं उत्सदविशेष एतइति, पाठान्तरे तुप्रथमदिवसे स्थितिपतितांतृतीये चंद्रसूर्यदर्शनिकांषष्ठे जागरिकां निव्वत्ते असुइजायकम्मकरणे'त्ति निवृत्ते-अतिक्रान्ते अशुचीनां जातका करणे निव्वत्ते सुइजायकम्मकरणेति वा पाठान्तरं, तत्र निवृत्ते कृते शुचीनां जामतकर्मणां करणे 'बारसाहे दिवसे'त्ति द्वादशाख्ये दिवसे इत्यर्थः, अथवा द्वादशानामह्यां समाहारो द्वादशाहं तस्य दिवसो येन द्वादशाहः पूर्यते तत्र तथा, मित्राणि-सुहृदःज्ञातयो-मातापितृमात्रादयः निजकाः-स्वकीयापुत्रादयःस्वजना:-पितृव्यादयः सम्बन्धिनः-श्वशुरपुत्रश्वशुरादयः परिजनो-दासीदासादिः बलंच-सैन्यं च गणनायकादयस्तु प्रागभिहिताः, महइमहालइ'त्तिअतिमहति, आस्वादयन्तावास्वादनीयं, परिभाजयन्तौ अन्येभ्यो यच्छन्तौमातापितरावितिप्रक्रमः, जेमिय'तिजैमितीमुक्तवन्तौ, भुत्तुत्र'तिमुक्तोत्तर--भुक्तोत्तरकालं आगयतिआगतावुप-वेशनस्थानेइतिगम्यते, समाणेत्तिसन्ती, किंभूतौभूत्वेत्याह?-आचान्तौ शुद्धोदकयोगेन चोक्षी लेपसिक्थाद्यपनयनेन अत एव परमशुचिभूताविति, 'अयमेयारूवे'त्ति इदमेतद्रूपं गौणं कोऽर्थो ?-गुणनिष्पन्नं नामधेयं-प्रशस्तं नाम मेघ इति । क्षीरधात्र्या-स्तन्यायिन्या मण्डनधात्र्या-मण्डिकया मजनधात्र्या-स्नापिकया क्रीडनधात्र्या-क्रीडनकारिण्या अधात्र्याउत्सङ्गस्थापिकया कुब्जिकाभिः-वक्रजाभिः चिलातीभिः-अनार्यदेशोत्पन्नाभिमिनाभिः-इस्वशरीराभिः वटभाभिः महत्कोष्ठाभिःबर्बरीभिःबर्बरदेशसंभवाभिः बकुसिकाभिर्योनकाभिः पल्हविकाभिः ईसिनिकाभिः घोरुकिनिकाभिः लासिकाभिः लकुसिकाभिविडीभिः सिंहलीभिः आरबीभिः पुलिन्द्रीभिः पक्वणीभिः बहलीभिः मुरुंडीभिः शबरीभिः पारसीभिः 'नानादेशीभिः' बहुविधाभिः अनार्यप्रायदेशोत्पन्नाभिरित्यर्थः विदेशः-स्वकीयदेशापेक्षया राजगृहनगरदेशस्तस्य परिमण्डिकाभिः, इङ्गितेन नयनादिचेष्टाविशेषेण चिन्तितं च-अपरेण हृदि स्थापितं प्रार्थितं च-अभिलषितं विजानन्ति यास्ताः तथा ताभिः, स्वदेशे यन्नेपथ्यं परिधानादिरचना तद्वद्गृहीतो वेषो यकाभिस्तास्तथा ताभिः, -नि पुणानां मध्ये कुशलायास्तास्तथा ताभिः, अत एव विनीताभिर्युक्त इति गम्यते, तथा चेटिकाचक्रवालेन अर्थात् स्वदेशसंभवेन वर्षधराणां-वर्द्धितकरिंथनरुन्धनप्रयोगेण नपुंसकीकृता- नामन्तः पुरमहल्लकानां 'कंचुइज्जत्ति कंचुकिनामन्तः पुरप्रयोजननिवेदकानां प्रतीहाराणांवामहत्तरकाणांच-अन्तःपुरकार्यचिन्तकानांवृन्देनपरिक्षिप्तोयःसतथा, हस्तद्धस्तं-ह स्तान्तरं संद्रियमाणः अकादक-उत्सङ्गादुत्सङ्गान्तरं, परिभोज्यमानः परिगीयमानः तथाविधबालोचित- गीतविशेषैः उपलाल्यमानः क्रीडादिलालनया, पाठान्तरे तु 'उवणचिजमाणे २ उवगाइजमाणे २ उवलालिजमाणे २ अवगृहज्जमाणे २ आलिङ्गयमान इत्यर्थः, 'अवयासिजमाणे २ कथञ्चिदालिङ्गयमान एव, परिवंदिजमाणे २ स्तूयमान इत्यर्थः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003340
Book TitleAgam Sutra Satik 06 Gnatadharmakath AngSutra 06
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages280
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy