________________
४५
श्रुतस्कन्धः -१, वर्ग:, अध्ययनं- 9
- "लाउल्लोइयमहियं' लाइयं - छगणादिना भूमी लेपनं उल्लोइयं - सेटिकादिना कुड्यादिषु धवलनं ताभ्यां महितं -पूजितं ते एव वा महितं पूजनं यत्र तत्तथा 'गोसीससरसरत्तचंदनदद्दरदिनपंचंगुलितलं' गोशीर्षस्य - चन्दनविशेषस्य सरसस्य च - रक्तचन्दविशेषस्यैव दर्दरण - चपेटारूपेण दत्ता - न्यस्ताः पञ्चाङ्गुलयस्तला - हस्तका यस्मिन् कुड्यादिषु तत्तथा 'उवचियचंदनकलसं' उपचिता-उपनिहिता गृहान्तः कृतचतुष्केषु चन्दनकलशा - मङ्गल्यघटाः यत्र तत्तथा 'चंदनघडसुकयतोरणपडिदुवारदेसभागं' चंदनघटाः सुठुकृताः तोरणानि च प्रतिद्वारं द्वारस्य २ देशभागेषु यत्र तत्तथा 'आसात्तोसत्तविपुलवट्टवग्घारियमल्लदामकलावं' आसक्तो - भूमिलग्नः उत्सक्तश्च-उपरिलग्नो विपुलो वृत्तो 'वग्घारिय'त्ति प्रलम्बी माल्यदाम्नां - पुष्पमालानां कलापः- समूहो यत्र तत्तथा
- 'पंचवन्त्रसरससुरभिमुक्कपुष्प्फपुंजोवयारकलियं' पञ्चवर्णाः सरसाः सुरभयो ये मुक्ताःकरप्रेरिताः पुष्पपुञ्जास्तैर्य उपचारः- पूजा भूमेः तेन कलितं 'कालागरूपवरकुंदुरुक्कतुरुक्वधूवडज्झंतमधमधंतगंधुद्धयाभिरामं' कुंदुरुक्कं - चीडा तुरुक्कं - सिल्हकं ' सुगन्धवरगन्धियं गंधवट्टिभूयं नडनट्टगजल्लमल्लगमुट्ठियवेलंबगकहकहगपवगलासग आइक्खगलंखमंखतूणइल्लतुंबवीणियअणेगतालायरपरिगीयं तत्र नटा - नाटकानां नाटयितारः नर्त्तका - ये नृत्यन्ति अंकिला इत्येके जल्ला - वरनाखेलका राज्ञः स्तोत्रपाठका इत्यन्ये मल्लाः- प्रतीताः मौष्टिका - मल्ला एव ये मुष्टिभिः प्रहरन्ति विडम्बकाः - विदूषकाः कथाकथकाः - प्रतीताः प्लवका ये उत्प्लवन्ते नद्यादिकं वा तरन्ति लासकाः- ये रासकान् गायन्ति जयशब्दप्रयोक्तारो वा भाण्डा इत्यर्थः, आख्यायका- ये शुभाशुभमाख्यान्तिलखा- वंशखेलकाः मयाः- चित्रफलकहस्ता भिक्षाटाः तूणइल्लाः - तूणाभिधान वाद्यविशेषवन्तः, तुम्बवीणका - वीणावादकाः अनेके ये तालाचराः-तालाप्रदानेन प्रेक्षाकारिणः तेषां परि-समन्ताद्गीतं - ध्वनितं यत्र तत्तथा कुरुत स्वयं कारयतान्यैस्तथा चारगशोधनं कुरुत कृत्वा च मानोन्मानवर्द्धनं कुरुत, तत्र मानं-धान्यमानं सेतिकादि उन्मानं - तुलामानं कर्षादिकं श्रेणयः - कुम्भकारादिजातयः प्रश्रेणयः- तत्प्रभेदरूपाः ।
'उस्सुक्क' मित्यादि, उच्छुल्कां - उन्मुक्तशुल्कां स्थितिपतितां कुरुतेति सम्बन्धः, शुल्कं तु विक्रेतव्यं भाण्डं प्रति राजदेयं द्रव्यं, उत्करां - उन्मुक्तकरां, करस्तु गवादीनां प्रति प्रतिवर्षं राजदेयं द्रव्यं, अविद्यमानो भटानां-राजपुरुषाणां आज्ञादायिनां प्रवेशः कुटुम्बिमन्दिरेषु यस्यां सा तथा तामभटप्रवेशां, दण्डेन निर्वृत्तं दण्डिमं कुदण्डेन निर्वृत्तं कुदण्डिमं राजद्रव्यं तन्नास्ति यस्यां सा तथा तामदंडिमकुदंडिमां, तत्र दण्डोऽपराधानुसारेण राजग्राह्यं द्रव्यं कुदण्डस्तु कारणिकानां प्रज्ञाद्यपराधान्महत्यप्यपराधिनोऽपराधे अल्पं राजग्राह्यं द्रव्यम्, -
- अविद्यमानं 'धरिमं' ति ऋणद्रव्यं यस्यां सा तथा तां, अविद्यमानो धारणीयः - अधमर्णो यस्यां सा तथा तां, ‘अणुद्धयमुइंग' त्ति अनुद्धूता० अआनुरूप्येण वादनार्थमुत्क्षिप्ता अनुद्धता वा - वादनार्थमेव वादकैरत्यक्ता मृदङ्गा-मर्दला यस्यां सा तथा तां, 'अम्मायमिलायमल्लदाम' न्ति अम्लानुपुष्पमालां गणिकावरैः - विलासिनीप्रधानैर्नाटकीयैः - नाटकप्रतिबद्धपात्रैः कलिता या सा तथा तां, अनेकतालाचरानुचरितां - प्रेक्षाकारिविशेषैः सेवितां प्रमुदितैः - हृष्टैः प्रक्रीडितैश्चक्रीडितुमारब्धैर्जनैरभिरामाया सा तथा तां, 'यथाह' यथोचितां 'स्थितिपतितां' स्थितौ - कुलमर्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org