SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १, वर्ग:-, अध्ययनं -१४ १९९ 'अत्यहं 'ति अस्तं- निरस्तमविद्यमानमधस्तलं प्रतिष्ठानं यस्य तदस्ताधं स्ताधो वा प्रतिष्ठानं तदभावादस्ताधं, अतारं यस्य तरणं नास्ति पुरुषः परिमाणं यस्य तत्पौरुषेयं तन्निषेधादपौरुषेयं ततः पदत्रयस्य कर्मधारयो, मकारौ च प्राकृतत्वात्, अतस्तत्र, 'सद्धेय 'मित्यादि, श्रद्धेयं श्रमणा वदन्ति आत्मपरलोकपुण्यपाषादिकमर्थजातं, अतीन्द्रियस्यापि तस्य प्रमाणाबाधितत्वेन श्रद्धानगोचरत्वात्, अहं पुनरेकोऽश्रद्धेयं वदामि पुत्रादिपरिवारयुक्तस्यात्यर्थं राजसम्मतस्य च अपुत्रादित्वमराजसम्मतत्वं च विषखङ्गपाशकजलाग्निभिरहिंस्यत्वं चात्मनः प्रतिपादयतो मम युक्तिबाधितत्वेन जनप्रतीतेरविषयत्वेनाश्रद्धेयत्वादिति प्रस्तुतसूत्रभावना, 'तए ण' मित्यादि, हं भो ! इत्यामन्त्रणे, पुरतः - अग्रतः, प्रपातो - गर्तः पृष्ठतो हस्तिभयं 'दुहओ' त्ति उभयतः अचक्षुः स्पर्शः - अन्धकरं मध्ये-मध्यभागे यत्र वयमास्महे तत्र शरा - बाणा निपतन्ति, ततश्च सर्वतो भयं वर्त्तते इत्यर्थः, तथा ग्रामः प्रदीप्तोऽग्निना ज्वलति, अरण्यं तु ध्यायते ऽनुपशान्तदाहं वर्तते, अथवा ध्यायतीव ध्यायति, श्रुतस्कन्धः - १, अग्नेरविध्यानेन जागर्त्तीिवेत्यर्थः, अथवा अरण्यं प्रदीप्तं ग्रामो ध्यायते न विध्यायति, एवं सर्वस्यापि भयानकत्वात् स्थानान्तरस्य चाभावादायुष्मसंतेतलिपुत्र ! 'कउ'त्ति क्वव्रजामः भीतैर्गन्तव्यमस्माभिरिवान्येनापि भवतीति प्रश्नः, उत्तरं च भीतस्य प्रव्रज्या शरणं भवतीति गम्यते, यथोत्कण्टितादीनां स्वदेशगमनादीनि, तत्र 'छुहियस्स' त्ति बुक्षुक्षितस्य मायिनो - वंचकस्य रहस्यगुप्तत्वं शरणमिति सर्वत्र गमनीयं अभियुक्तस्य - सम्पादितदूषणस्य प्रत्यकरणं-दूषमापोहेन प्रतीत्युत्पादनं अध्वानं अरियतो - गन्तुमशक्तस्य वाहनगमनं शकटाद्यारोहणं तरीतुकामस्य नद्यादिकं प्लवनं तरणं कृत्यं कार्यं यस्य तत् प्लवनकृत्यं - तरकाण्डं परमभियोक्तुकामस्यअभिभवितुकामस्य सहायकृत्यं - मित्रादिकृतं सहायकर्मेति, अथ कथं भीतस्य प्रव्रज्या शरणं भवति अत उच्यते- 'खंते' त्यादि क्षान्तस्य क्रोधनिग्रहेण दान्तस्येन्द्रियनोइन्द्रियदमेन जितेन्द्रियस्य विषयेषु रागादिनिरोद्धुः 'एत्तो' त्ति एतेभ्योऽनन्तरोदितेभ्योऽग्रतः प्रपातादिभ्यो भयेभ्यः एकमापि भयं न भवति, प्रब्रजितस्य सामायिकपरिणत्या शरीरादिषु निरभिष्वङ्गत्वात् मरणादिभयाभावादिति, एवं देवेनामात्यः स्ववाचा भीतस्य प्रव्रज्या श्रेयसीत्यभ्युपगमं कारयित्वा एवमुक्तः 'सुट्टु' इत्यादि, अयमर्थो-भीतस्य प्रव्रज्या शरणमिति यदि प्रतिज्ञायते तदा सुष्ठु ते मतं, भयाभिभूतस्त्वमिदानीमसीति एतमर्थमाजानीहि० अनुष्ठानद्वारेणावबुध्यस्व प्रव्रज्यां विधेहीतियावत् ॥ 119 11 -इह च यद्यपि सूत्रे उपनयो नोक्तः तथाप्येवं द्रष्टव्यः, “जाव न दुक्खं पत्ता माणब्भसं च पाणिणो पायं । ताव न धम्मं गेण्हंति भावओ तेयलीसु उव्व ॥” मू. (१५५) तते णं तस्स तेयलिपुत्तस्स सुभेणं परिणामेणं जाइसरणे समुप्पन्ने, तते णं तस्स तेयलिपुत्तस्स अयमेयारूवे अब्भत्थिते ५ समु० - एवं खलु अहं इहेव जंबुद्दीवे २ महाविदेहे वासे पोक्खलावतीविजये पोंडरीगिणीते रायहाणीए महापउमे नामं राया होत्था, तते णं अहं धेराणं अंतिए मुंडे भवित्ता जाव चोद्दस पुव्वातिं० बहूणि वासाणि सामन्नपरियाए० मासियाए संलेहणाए महासुके कप्पे देवे, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003340
Book TitleAgam Sutra Satik 06 Gnatadharmakath AngSutra 06
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages280
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy