________________
श्रुतस्कन्धः-१, वर्गः, अध्ययनं - ८
१४५
- निल्ला लियजमलजुयलजीहं ति निर्मालितं विवृतमुखान्निः सारितं यमलं - समं युगलं-द्वयं जिह्वयोर्येन तत्तथा 'आऊसियवयणगडदेसं' ति आऊसियत्ति-प्रविष्टौ वदने गण्डदेशौ - कपोलभागौ ग्रस्य तत्तथा 'चीणचिपिडनासियं' ति चीना-ह्रस्वा चिपिटा च- निम्ना नासिका यस्य तत्तथा 'विगयभुग्गभुमयं ' ति विकृते - विकारवत्यौ भुग्ने - भग्ने इत्यर्थः, पाठान्तरेण 'भुग्ग भग्गे' अतीव क्रे भुवौ यस्य तत्तथा, 'खज्जोयगदित्तचक्खुरागं' ति खद्योतका - ज्योतिरिङ्गणाः तद्वद्दीप्तश्चक्षूरागोलोचनरक्तत्वं यस्य तत्तथा, उन्नासनकं भयंकरं विशालवक्षो - विस्तीर्णोरः स्थलं विशालकुक्षिविस्तीर्णोदरदेशं एवं प्रलम्बकुक्षि 'पहसियपयलियपयडियगत्तं' त्ति प्रहसितानि - हसितुमारब्धानि प्रचलितानि च स्वरूपात् प्रवलिकानि वा प्रजातवलीकानि प्रपतितानिच-प्रकर्षेण श्लथीभूतानि गात्राणि यस्य तत्तथा, वाचनान्तरे 'विगयभुग्गभुमयपहसियपयलियपयडियफुलिंगखज्जोयदित्तचक्खुरागं' ति पाठः, तत्र विकृते भग्ने भ्रुवौ प्रहसिते च प्रचलिते प्रपतिते यस्य स्फुलिङ्गवत् खद्योतकवच दीप्तश्चक्षूरागश्च यस्य तत्तथा, 'पणचमाणमित्यादि विशेषणपश्ञ्चकं प्रतीतं, 'नीलुप्पले त्यादौ गवलं-महिषशृङ्गं अतसी-मालवकदेशप्रसिद्धो धान्यविशेषः, 'खुरहारं 'ति क्षुरस्येव धारा यस्य स तथा तमसि - खङ्ग, क्षुरो ह्यतितीक्ष्णधारो भवत्यन्यथा केशानाममुण्डनादिति क्षुरेणोपमा खङ्गधरायाः कृतेति, अभिमुखमापतत् पश्यन्ति सर्वेऽपि सांयात्रिकाः, तत्रार्हन्नकवर्णा यत् कुर्वन्ति तद्दर्शयितुमुक्तमेव पिशाचस्वरूपं सविशेषं तेषां तद्दर्शनं चानुवदन्निदमाह-
'तए ण' मित्यादि, ततस्ते अर्हन्नकवर्णाः सांयात्रिकाः पिशाचरूपं वक्ष्यमाणविशेषणं पश्यन्ति दृष्ट्वा च बहूनमिन्द्रादीनां बहून्युपयाचितशतान्युपयाचितवन्तस्तिष्ठन्तीति समुदायार्थः, अथवा 'तएणं’ति ‘अरहन्नगवज्जा' इत्यादि गमान्तरं 'आगासदेवयाओ नच्चंति' इतोऽनन्तरं द्रष्टव्यम्, अत एव वाचनान्तरे नेदुमुपलभ्यते, उवलभ्यते चैवम्- 'अभिमुहं आवयमाणं पासंति, तए णं ते अरहन्नगवज्जा नावावाणियगा भीया' इत्यादि, तत्र 'तीलपिसायं' ति तालवृक्षाकारोऽतिदीर्घत्वेन पिशाचः तालपिशाचः तं, विशेषणद्वयं प्रागिव, 'फुट्टसिरं' ति स्फुटितम् - अबन्धत्वेन विकीर्णशिर इति - शिरोजातत्वात् केशा यस्य स तथा तं भ्रमरनिकरवत् वरमाषराशिवत् महिषवच्च कालको यः स तथा तं भृतमेघवर्णं तथैव, सूपमिव-धान्यशोधकभाजनविशेषवत् नखा यस्य स सूर्पनखःतं, 'फालसदशजिह्न 'मिति फालं-द्विपञ्चाशत्पलप्रमाणो लोहभयो दिव्यविशेषस्तच्च वह्निप्रतापितमिह ग्राह्यं तत्साधर्म्यं चेह जिह्वाया वर्णदीप्तिदीर्घत्वादिभिरिति लम्बोष्ठं प्रतीतं धवलाभिर्वृत्ताभिरश्लिष्टाभिर्विशरारुत्वेन तीक्ष्णाभिः स्थिराभिः निश्चलत्वेन पीनाभिरुपचतत्वेन कुटिलाभिश्च वक्रतया दंष्ट्राभिरवगूढं व्याप्तं वदनं यस्य स तथा तं, -
-विकोशितस्य- अपनीतकोशकस्य निरावरणस्येत्यर्थः धारास्योः - धाराप्रधानखड्गयोर्यद्युगलं - द्वितयं तेन समय दृश्यौ--अत्यन्ततुल्ये तनुके- प्रतले चञ्चलं--विमुक्तस्थैर्यं यथा भवत्यविश्रामित्यर्थो गलन्त्यौ - रसातिलौल्यात् लालाविमुञ्चन्त्यौरसलोले- भक्ष्यरसलम्पटे चपले चञ्चले फुरफुरायमाणे - प्रकम्प्रेनिललिते - मुखान्निष्काशिते अग्रजिह्वे अग्रभूते जिले जिल्लात्रे इत्यर्थो येन स तथा तं ‘अवच्छियं' ति प्रसारितमित्येके, अन्ये तु यकारस्यालुप्तत्वात् 'अवयच्छिय'
7110
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org