SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १३६ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/८/८२ संहरन् मिथिला नगरीमाजगाम, विमानारूढ एव भगवतो जिनस्य जन्मभवनंत्रिः प्रदक्षिणीकृतवान्, उत्तरपूर्वस्यां दिशि चतुर्भिरङ्गुलैर्भुवमप्राप्तं विमानमवस्थापितवान्, ततोऽवतीर्य भगवन्तं सम् ॐ दिक्कुमारीवदभिवन्द्य जिनमातरमवस्पाप्य जिनप्रतिबिम्बं तत्सन्निधौ विधाय पञ्चधाऽऽत्मानमाधाय एकेन रूपेण करतलपल्लवावधृतजिनः अन्येन जिननायको परिविधृतच्छत्रः अन्याभ्यां करचालितप्रकीर्णकः अन्येन च करकिशलयकलितकुलिशः पुरः प्रगन्ता सुरगिरिशिखरोपरिवर्त्तिपण्डकवनं गत्वा तद्व्यवस्थितातिपाण्डुकम्बलाभिधानशिलासिंहासने पूर्वाभिमुखो निषण्णः, एवमन्ये ईशानादयो वैमानिकेन्द्राश्चमरादयो भवनपतीन्द्राः कालादयो व्यन्तरेन्द्राः चन्द्रसूर्यादयो ज्यौतिष्काः सपरिवाराः मन्दरेऽवतेरुः, ततश्चाच्युतदेवराजी जिनाभिषेकमत्याऽऽभियोगिकदेवानादिदेश, ते चाष्टसहस्रं सौवर्णिकानां कलशानामेवं रूप्यमयानां मणिमयानां एवं द्विकसंयोगवतां त्रीण्यष्टसहस्राणित्रिसंयोगवतामष्टसहस्रं भोमेयकानां च तथाऽष्टसह चन्दनकलशानां भृङ्गाराणामादर्शानां स्थालानामन्येषां च विवधानमभिषेकोपयोगिनां भाजनानामष्टसहस्रं २ विचक्रुः, तैश्च कलशादिभाजनैः क्षीरोदस्य समुद्रस्य पुष्करोदलस्य च मागधादीनां च तीर्थानां गङ्गादीनां च महानदीनां पद्मादीनां महाह्रदानामुदकमुत्पलादीनी मृक्तिकांच हिमवदादीनां च वर्षधराणां वर्त्तुलविजयार्द्धानां च पर्वतानां भद्रशालादीनां च वनानां पुष्पाणि गन्धान् सर्वौषधीः तूवराणि सिद्धार्थकान् गोशीर्षचन्दनं चानिन्युः, ततोऽसावच्युतदेवराजोऽनेकैः सामानिकदेवसहस्रैः सह जिनपतिमाभिषिषेच, अभिषेके च वर्त्तमाने इन्द्रादयो देवाः छत्रचामरकलशधूपकडुच्छुकपुष्प- गन्धाद्यनेकविधाभिषेकद्रव्यव्यग्रहस्ताः वज्रशूलाद्यनेकायुधसम्बन्धबन्धुरपाणयः आनन्द - जललवप्लुतगण्डस्थलाः ललटापट्टघटितकरसम्पुटा जयजयारवमुखरितदिगन्तराः प्रमोदमदिराम-न्दमदवशविरचितविविधचेष्टाः पर्युपासांचक्रिरे, तथा केचित् चतुर्विधं वाद्यं वादयामासुः केचिच्चतुर्विधं गेयं परिजगुः केचिच्चातुर्विधं नृत्तं ननृतुः केचिच्चतुर्विधमभिनयमभिनिन्युकेचिद् द्वात्रिंशद्विधं नाट्यविधिमुपदर्शयामासुरिति, ततो गन्धकाषायिकया गात्राण्यलूपयन् ततश्चाच्युतेन्द्रो मुकुटादिभिर्जिनमलञ्चकार, ततो जिनपतेः पुरतो रजतमयतन्दुलैर्दर्पणादीन्यष्टाष्टमङ्गलकान्यालिलेख पाटलादिबहलपरिमलकलितकुसुमनिकरं व्यकिरत् शुभसुरभिगन्धबन्धुरं धूपं परिददाह, अष्टोत्तरेण वृत्तशतेन च सन्तुष्टस्तुष्टाव - नमोऽस्तु ते सिद्ध ! बुद्ध ! नीरजः ! श्रमण ! समाहित समस्तसम ! योगिन् शल्यकर्तन ! निर्भय ! नीरागद्वेष ! निर्मम ! निःशल्य ! निःसङ्ग ! मानमूरणागण्यगुणरत्न ! शीलसागर ! अनन्ताप्रमेयभव्यधर्मवरचतुरन्तचक्रवर्त्तिन् ! नमोऽस्तु तेऽर्हते नमोऽस्तु ते भगवते इत्यभिधाय वन्दते स्म, ततो नातिदूरे स्थितः पर्युपासांचक्रे, एवं सर्वेऽप्यभिषिषेचुः, केवलं सर्वान्ते शक्रोऽभिषिक्तवान्, तदभिषेकावसरे च ईशानः शक्रव दात्मानं पञ्चधा विधाय जिनस्योत्सङ्गधरणादिक्रियामकरोत्, ततः शक्रो जिनस्य चतुर्दिशि चतुरो धवलवृषभान् विचकार, तेषां च शृङ्गाग्रेभ्योङष्टी तोय धारा युगपद्विनिर्ययुः वेगेन च वियति समुत्पेतुः एकत्र च मिलन्तिस्म भकवतो मूर्द्धनि च निपेतुः, शेषमच्युतेन्द्रवदसावपिचकार, ततोऽसौ पुनर्विहितपञ्चप्रकारात्मा तथैव गॉहीतजिनश्चतुर्निकायदेवपरिवृतः तूर्यनिनादापूरिताम्बरतलो जिननायकं जिनजनन्याः समीपे स्थापयामास, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003340
Book TitleAgam Sutra Satik 06 Gnatadharmakath AngSutra 06
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages280
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy