SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः:, अध्ययन-८ १३५ व्यवस्थाप्य जिनसमीपंजिनजननीसमीपंचगत्वा त्रिः प्रदक्षिणीकृत्य कृतप्राञ्जलिपुटाइदमवादिषुःनमोऽस्तु ते रत्नकुक्षिधारिके! नमोऽस्तु ते जगप्रदीपदायिके! क्यमधोलोकवास्तव्या दिक्कुमार्यो जिनस्य जन्ममहिमानं विधास्यामः अतो युष्माभिर्न भेतव्यमिति अभिधाय च विहितसंवर्त्तवाताः जिनजन्मभवनस्य समन्तायोजनपरिमण्डलक्षेत्रस्य तृणपत्रकचवरादेर-शुचिवस्तुनोऽपनयनेन विहितशुध्योर्जिनजनन्योरदूरतो जिनस्यासाधारणमगणितगुणगण- मागायन्त्यस्तस्थुः, एवमेवोर्ध्वलोकवास्तव्या नन्दनवनकूटनिवासिन्य इत्यर्थः अष्टौ दिक्कुमारीमहत्तरिकास्तथैवागत्यविरचिताभ्रवलिकाः आयोजनमानक्षेत्रंगन्धोदकवर्षपुष्पवर्षं धूपघटीश्च कृत्वा जिनसमीपमागत्यपरिगायन्त्यआसांचक्रु. तथापौरस्त्यरुचकवास्तव्या रुचकाभिधानस्य त्रयोदशस्य द्वीपस्य मध्यवर्तिनः प्राकाराकारेण मण्डलव्यवस्थितस्योपरि पूर्वदिग्व्यवस्थितेष्वष्टासु कूटेषु कृतनिवासा इत्यर्थः आगत्य तथैवादहिस्ता गायन्त्यस्तस्थुः, एवं दक्षिणरुचकवास्तव्या जिनस्य दक्षिणेन भृङ्गारहस्ताः पश्चिमरुचकवास्तव्या जिनस्यपश्चिमेनतालवृन्तहस्ता उत्तररुचकवास्तव्याशामरहस्ता जिनस्य उत्तरेण, एवंचतम्रो रुचकस्य विदिग्वास्तव्याआगत्य दीपिकाहस्ता जिनस्य चतसृषु विदिक्षु तथैव तस्थुः, मध्यमरुचकवास्तव्या रुचकद्वीपस्याभ्यनतरार्द्धवासिन्य इत्यर्थः चतस्रस्तास्तथैवागत्य जिनस्य चतुरङ्गुलवर्जनाभिनालच्छेदनं च विवरखननं च नाभिनालनिधानं च विवरस्य रलपूर्ण चतदुपरि हरितालिकापीठबन्धंच पश्चिमावर्जदिक्त्रयेकदलीगृहत्रयंचतन्मध्येषुचतुःशालभवनत्रयं चतन्मध्यदेशे सिंहासनत्रयं च दक्षिणे सिंहासने जिनजनन्योरुपवेशनं च शतपाकादितैलाभ्यङ्गन चगन्धद्रव्योद्वर्तनंचपुष्पोदकंचपूर्वत्र पुष्पोदकगन्धोदकशुद्धोदकमज्जनंच सर्वालङ्कारविभूषणं च उत्तरत्र गोशीर्षचन्दनकाष्ठैर्वह्नयुज्वलनं चाग्निहोमं च भूतिकर्मचरक्षापोहलिकांच मणिमयपाषाणद्वयस्य जिनकर्णाभ्यनुप्रताडनंचभवतुभगवान्पर्वतायुरितिभणनंचपुनः समातृकजिनस्य स्वभवननयनं च शय्याशायनं च चक्रुः कृत्वा च गायन्त्यस्तस्थुरिति। सौधर्मकल्पेच शक्रस्य सहसाआसनंप्रचकम्पेअवधिंचासौप्रयुयुजेतीर्थकरजन्मचालुलोके ससंभ्रमंच सिंहासनादुत्तस्थौपादुकेचमुमोचउत्तरासङ्गंचचकारसप्ताष्टानिच पदानि जिनाभिमुखमुपजगाम भक्तिभरनिर्भरो यथाविधि जिनं च ननाम पुनः सिंहासनमुपविवेश हरिणेगमेषीदेवं पदात्यनीकाधिपतिं शब्दयांचकार तं चादिदेश यथा सुधर्मायां सभायां योजनपरिमण्डला सुघोषाभिधानांघण्टां त्रिस्ताडयन्नुद्घोषणां विधेहि, यथा-भो भो देवा ! गच्छति शक्रो जम्बूद्वीपं तीर्थकरजन्ममहिमानं कर्तुमतो यूयं सर्वसमृध्या शीघ्रं शक्रस्यान्तिके प्रादुर्भवतेति, स तु तथैव चकार, तस्यां च घण्टायां ताडितायामन्यान्येकोनद्वात्रिंशदघण्टालक्षाणि समकमेव रणरणारवं चक्रुः, उपरते च घण्टारवे घोषणामुपश्रुत्य यथादिष्ट देवाःसपदि विदधुः, ततोपालकाभिधानाभियोगिकदेवविरचितेलक्षयोजनप्रमाणेपश्चिमावर्जदिक्त्रयनिवेशिततोरणद्वारे नानामणिमयूखमञ्जरीरञ्जितगगनमण्डले नयनमनसामतिप्रमोददायिनि महाविमानेऽधिरूढः सामानिकादिदेवकोटीभिरनेकाभिः परिवृतः पुरःप्रवर्तितपूर्णकलशभृङ्गारछत्रपताकाचामराद्यनेकमङ्गल्यवस्तुस्तोमः पञ्चवर्णकुडभिकासहपरिमण्डितयोजनसहोच्छ्रितमहेन्द्रध्वजप्रदर्शितमार्गो नन्दीश्वरद्वीपे दक्षिणपूर्वे रतिकरपर्वते कृतावतारो दिव्यविमानर्द्धिमुपJain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003340
Book TitleAgam Sutra Satik 06 Gnatadharmakath AngSutra 06
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages280
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy