SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/८/८१ त्याह-फाल्गुनस्य शुद्धः-शुक्लः - द्वितीय इत्यर्थः, तस्य फाल्गुनशुद्धस्य पक्षस्य या चतुर्थी तिथिस्तस्याः पक्षः - पार्श्वोऽर्द्धरात्रिरिति भावः, तत्र 'ण' मित्यालङ्कारे, वाचनान्तरे तु गिम्हाणं पढमे इत्यादि ६श्यते तत्रापि चैत्रसितचतुर्थ्या मार्गशीर्षसितैकादश्यां तज्जननदिने नव सातिरेका मासाः अभिवर्द्धितमासकल्पनया भवन्तीति तदपि सम्भवति, अतोऽत्र तत्त्वं विशिष्टज्ञानिगम्यमिति, 'अनंतरं चयं चइत्त' त्ति अव्यवहितं च्यवनं कृत्वेत्यर्थः, अथवा अनन्तरं चयं - शरीरं देवसम्बन्धीत्यर्थः 'चईत्ता' त्यक्त्वा 'आहारे' त्यादि आहारापक्रान्त्या देवाहारपरित्यागेन भवापक्रान्त्या – देवगतित्यागेन शरीरापक्रान्त्या -- वैक्रियशरीरत्यागेन अथवा आहारव्युत्क्रान्त्या - अपूर्वाहारोत्पादेन मनुष्योचिताहारग्रहणेणेत्यर्थः, एवमन्यदपि पदद्वयमिति, गर्भतया व्युकान्तः - उत्पन्नः, 'मल्लेणं' तिमालभ्यो हितं माल्यं कुसुमं जातावेकवचनं 'अत्थुयपच्चत्थुयंसि त्ति आस्तृतेआच्छादिते प्रत्यवस्तृते पुनः पुनराच्छादिते इत्यर्थः शयनीये निषण्णा निवन्नाः - सुप्ताः, 'सिरिदामगंड' ति श्रीदाम्नां - शोभावन्मालानां काण्डं - समूह: श्रीदामकाण्डं, अथवा गण्डो- दण्डः तद्वद्यत्तद् गण्ड एवोच्यते, श्रीदाम्नां गण्डः श्रीदामगण्ड:, पाटलाद्याः पुष्पजातयः प्रसिद्धाः, नवरं मल्लिका–विचकिलः मरुबकः - पत्रजातिविशेषः 'अणोज्ज' त्ति अनवद्यो - निर्दोषः कुब्जकः-‍ तपत्रिका - विशेषः एतानि प्रचुराणि यत्र तत्तथा, परमशुभदर्शनीयं परमसुखदर्शनीयं वा 'महया गंधद्धणिं मुयंतं'ति महताप्रकारेण गंधभ्राणि-सुरभिगन्धगुणं तृप्तिहेतुं पुद्गलसमूहं मुञ्चत् आजिघ्रन्त्यः-उत्सिङ्घन्त्यः, 'कुंभग्गसो य'त्ति कुम्भपरिमाणतः 'भारग्गसो य'त्ति भारपरिमाणतः, 'आरोग्गारोग्गं 'ति अनाबाधा माता अनाबाधं तीर्थकरम् । मू. (८२) तेणं कालेणं २ अहोलोगवत्यव्वाओ अट्ठ दिसाकुमारीओ मयहरीयाओ जहा जंबुद्दीवपन्नत्तीए जम्मणं सव्वं नवरं मिहिलाए कुंभयस्स पभावतीए अभिलाओ संजोएव्वो जाव नंदीसरवरे दीवे महीमा, तया णं कुंभए राया बहूहिं भवणवति ४ तित्थयर० जाव कम्मं जाव नामकरणं, जम्हा णं अम्हे इमीए दारियाए माउए मल्लसयणिज्जुंसि डोहले विणीते तं होउ णं नाणं मल्ली, जहा महाबले नाम जाव परिवड्डिया । वृ. 'अहोलोयवत्थव्याओ' त्तिगजदन्तकानामधः अधोलोकवास्तव्या अष्टौ दिक्कुमारीमहत्तरिका:, इह चावसरे यदभिधेयं तन्महतो ग्रन्थस्य विषय इतिकृत्वा सङ्क्षेपार्थमतिदेशमाह - 'जहा जंबुद्दीवपन्नत्तीए जम्मणं सव्वं 'ति यथा जम्बूद्वीपप्रज्ञप्तयां सामान्यतो जिनजन्मोक्तं तथा मल्लीतीर्थकृतो जन्मेति-जन्मवक्तव्यता सर्वा वाच्येति, नवरमिह मिथिलायां नगर्यां कुम्भस्य राज्ञः प्रभावत्या देव्याः इत्ययमभिलाषः संयोजितव्यो, जम्बूद्वीपप्रज्ञप्त्यां तु नायं विद्यते इति, किंपर्यवसानं जन्म वक्तव्यमित्याह - यावन्नन्दीश्वरे 'महिम 'त्ति अतिदिष्टग्रन्यश्चार्यत एवं द्रष्टव्यो, यथा अष्टौ दिक्कुमारीमहत्तरिकाः भोगङ्कराप्रभृतयस्तत्समयमुपजातसिंहासनप्रकम्पाः प्रयुक्तावधिज्ञानाः समवसितैकोनविंशतितमतीर्थनाथजननाः ससम्भ्रममनुष्ठितसमवायाः समस्तजिननायकजन्मसुमहामहिमविधानमस्माकंजीतमिति विहितनिश्चयाः स्वकीयस्वकीयाभि-योगिकदेवविहितदिव्यविमानारूढाः सामानिकादिपरिकरवृताः सर्वर्ध्या मल्लिजिनजन्मनगरीमागम्य जिनजन्मभवनं यानविमानैस्त्रिः प्रदक्षिणीकृत्य उत्तरपूर्वस्यां दिशि यानविमानानि चतुर्भिरङ्गुलैर्भुवम प्राप्तानि Jain Education International For Private & Personal Use Only www.jainelibrary.org १३४ - --
SR No.003340
Book TitleAgam Sutra Satik 06 Gnatadharmakath AngSutra 06
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages280
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy