________________
श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-८
१३७ जिनप्रति-बिम्बमवस्वापं च प्रतिसञ्जहार, क्षोमयुगलं कुण्डलयुगंल च तीर्थकरस्योच्छीर्षकमूले स्थापयति स्म श्रीदामगण्डकं च नानामणिमयं जिनस्योल्लोके दृष्टिनिपातनिमित्तमतिरमणीय निचिक्षेप,
ततः शक्रो वैश्रमणमवादीत्-भोदेवानुप्रिय! द्वात्रिंशद्धिरण्यकोटीर्वात्रिंशत्सुवर्णकोटीश्च जिनजन्मभवने यथा संहरेति, तदादेशाच्च जृम्भका देवास्तथैव चक्रुः शक्रः पुनर्देवैर्जिनजन्मनगाँ त्रिकादिष्वेवं घोषणं कारयामास, यथा-हन्त ! भुवनवास्यादिदेवाः ! श्रृण्वन्तु भवन्तो यथा यो जिने जिनजनन्यां वाऽशुभं मनः सम्प्रधायरयति तस्यार्जकमञ्जरीव सप्तधा मूर्द्धा स्फुटतु, ततो देवा नन्दीश्वरे महिमानं विदधुः, स्वस्थानानिचजग्मुरिति ।मालाचैहितं तत्र वा साध्वितिमाल्यं कुसुमं तद्गतदोहदपूर्वकंजन्मत्वेनान्वर्थतः शब्दतस्तु निपातनात् मल्लीति नाम कृतं, यस्तु स्त्रीत्वेऽपि तस्याहज्जिनस्तीर्थकर इत्यादिशब्दव्यपदेशः सोऽहंदा-दिशब्दानांबाहुल्येनपुंस्खेव प्रवृत्तिदर्शनादिति, 'यथा महाबल'इति भगवत्यां महाबलोऽभिहित इहैव वा यथा मेघकुमार इति। मू. (८३) सा वद्धती भगवती दियलोयचुता अणोवमसिरीया।
दासीदासपरिवुडा परिकिन्ना पीढमद्देहिं ।।। वृ. 'सावड्डए भगवती'त्यादि गाथाद्वयंआवश्यकनियुक्तिसम्बन्धि ऋषभमहावीरवर्णकरूपं बहुविशेषसाधादिहाधीतं नपुनर्गाथाद्वयोक्तानि विशेषणानि सर्वाणि मल्लिजिनस्यघटन्त एव, तच्चदर्शयिष्यामः, ततःसा वर्द्धते-वृद्धिमुपगच्छतिस्म भगवती ऐश्वर्यादिगुणयोगात् देवलोकाच्युताअनुत्तरविमानावतीर्णत्वात् अनुपमश्रीका-निरुपमानशोभादासीदासपरिवृतेतिप्रतीतं,
परिकीर्णा--परिकरिता पीठमर्दै:-वयस्यैरिति, एतत्किल प्रायः स्त्रीणामसम्भवि, वयस्यिकानामेव तासां सम्भवात्, अथवा अलौकिकचरितत्वेन पीठमईसम्भवेऽपि निर्दूषणत्वेन भगवत्या नेदं विशेषणं न सम्भवविति। मू. (८४) असियसिरया सुनयणा बिंबोडी धवलदंतपंतीया।
वरकमलकोमलंगी फुल्लुप्पगंधनीसासा ।।" वृ. असितशिरोजा-कालकुन्तला सुनयना-सुलोचना बिम्बोष्ठी-पक्वगोल्हाभिधानफलविशेषाकारोष्ठीधवलदन्तपङ्कितका पाठान्तरेण धवलदन्तश्रेणिका वरकमलगर्भगौरीत्येतद्विशे षणंन सम्भवति तस्याः कमलगर्भस्य सुवर्णवर्णत्वात्भगवत्याश्चमल्लयाः प्रियङ्गुवर्णत्वेनश्यामत्वाद्, उक्तंच॥१॥ “पउमाभ वासुपुज्जा रत्ता ससिपुष्पदंत ससिगोरा।
सुब्बयनेमी काला पासो मल्ली पियंगाभा ।।'' इति, अथवा वरकमलस्य-प्रधानहरिणस्य गर्भ इव गर्भो जठरसम्भूतत्वसाधात् वरकमलगर्भ:-कस्तूरिका तद्वद् गौरी-अवदातावरकमलगर्भगौरी श्यामवर्णत्वात्, कस्तूरिकाया इव श्यामेत्यर्थः, पाठान्तरेण वरकमलगर्भवर्णा, तत्रापि श्यामवर्णेत्यर्थः, वाचनान्तरेण वरकमलकोमलाङ्गीत्यनवद्यमेव, फुलं-विकसितं यदुत्पलं-नीलोत्पलादि तस्य यो गन्धस्तदनिःश्वासो गन्धसाधाद्यस्याः सा तथा सुरभिनिःश्वासेत्यर्थः,
पाठान्तरेण ‘पउमुप्पलुप्पलगंधनीसास'त्ति तत्र पद्म-शतपत्रादि गन्धद्रव्यविशेषो वा
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org