SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्ग:-, अध्ययन-५ ___११९ सुभूमिभागाओ उजाणाओ पडिनिक्ख-मति र त्ता बहिया जणवयविहारं विहरति, ततेणं से सुए अनगारे अन्नया कयाइतेणंअनगारसहस्सेणं सद्धिं संपरिबुडे पुव्याणुपुर्दि घरमाणे गामाणुगामं विहरमाणे जेणेव पोंडरीए पव्वए जाव सिद्धे। - घृ. 'सुए परिव्वायगेतिशुको व्यासपुत्रः ऋग्वेदादयश्चत्वारोवेदाःषष्टितन्त्रं-सायिमतं सांख्यसमये-सायसमाचारे लब्धार्थो वाचनान्तरे तु यावत्करणादेवमिदमवगन्तव्यं ऋग्वेदजुर्वेदसामवेदाथर्वणवेदानामितिहास- पञ्चामानां इतिहासः--पुराणं 'निघण्टुषष्ठानां' निघण्टुः-नामकोशः 'साङ्गोपाङ्गाना' अङ्गानि-शिक्षादीनि उपाङ्गानि-तदुक्तप्रपञ्चनपराः प्रबन्धाः सरहस्यानां-ऐदम्पर्ययुक्तानांसारकः-अध्यापनद्वारेण प्रवर्तकः स्मारको वाअन्येषां विस्मृतस्य स्मारणात् वारकोऽशुद्धपाठनिषेधकः पारगः-पारगामी षडङ्गवित्षष्टितन्त्रविशारदःषष्टितन्त्रंकापिलीयशास्त्रं, षङ्गवेदकत्वमेव व्यनक्ति-सङ्ख्याने-गणितस्कन्धे 'शिक्षाकल्पे' शिक्षायांअक्षरस्वरूपनिरूपके शास्त्रे कल्पे- तथाविधसमाचारप्रतिपादके व्याकरणे-शब्दलक्षणे छन्दसि-पद्यवचनलक्षणनिरूपकेनिरुक्ते-शब्दनिरुक्तप्रतिपादकेज्योतिषामयने-ज्योतिःशास्त्रे अन्येषु च-ब्राह्मणकेषु शास्त्रेषु सुपरिनिष्ठित इति, वाचनान्तरं 'पञ्चयमपञ्चनियमयुक्तः' तत्र पञ्च यमाः-प्राणातिपातविरमणादयः नियमास्तु-शौचसंतोषतपः स्वाध्यायेश्वरुप्रणिधानानि शौचमूलकं यमनियमलीनाद्दशप्रकारं, धातुरक्तानि वस्त्राणि प्रवराणि परिहितो यः स तथा, त्रिदण्डादीनि सप्त-हस्ते गतानि यस्य स तथा, तत्र कुण्डिका-कमण्डलूः, क्वचित्काञ्चनिकाकरोटिका वाऽधीयेते तेच क्रमेण रुद्राक्षकृतमालामृद्भाजनंचोच्यते, छण्णालकं-त्रिकाष्ठिकाअगुशो-वृक्षपल्लवच्छेदार्थः पवित्रकं-ताम्रमयमङ्गुलीयकं केसरी-चीवरखण्डंप्रमार्जनार्थं, संखाणं तिसाङ्क्षयमतं “सज्जपुढवित्तिकुमारपृथिवी 'पयणं आरुहेइ' पाकस्थाने चुल्लायादावारोपयति उष्माणं-उष्णत्वं ग्राहयति 'दिहि वमित्तए' मतं वमयितुं त्याजयितुमित्यर्थः। 'अट्ठाईति अर्थान् अर्यमाणत्वादधिगम्यमानत्वादित्यर्थः, प्रार्थ्यमानत्वाद् याच्यमानत्वादित्यर्थाः, वक्ष्यमाणयात्रायापनीयादीन्, तथा तानेव 'हेऊइंति हेतुनु, अन्तर्वतिन्यास्तदी यज्ञानसम्पदोगमकत्वात्, पसिणाईति प्रश्नान् पृच्छ्यमानत्वात् 'कारणाइंतिकारणानि विवक्षितार्थनिश्चयस्य जनकानि 'वागरणाईति व्याकरणानि प्रत्युत्तरतया व्याक्रियमाणत्वादेषामिति, 'निप्पट्ठपसिणवागरणं ति निर्गतानि स्पष्टानि स्फुटानि प्रश्नव्याकरणानि-प्रश्नोत्तराणि यस्य स तथा 'खीणा उवसंत'त्ति क्षयोपशममुपगता इत्यर्थः, एतेषां च यात्रादिपदानामागमिकगम्भीरार्थत्वेनाचार्यस्य तदर्थपरिज्ञानमस,म्भावयताऽपभ्राजनार्थप्रश्नः कृत इति, सरिसवय'त्ति एकत्र सध्शवयसः-समानवयसः अन्यत्रसर्षपाः-सिद्धार्थकाः 'कुलस्थित्तिएकत्र कुले तिष्ठन्तीति कुलस्थाः, अन्यत्र कुलत्थाः धान्यविशेषाः, सरिसवयादिपदप्रश्नः छलग्रहणेनोपहासार्थं कृत इति 'एगे भवंति एको भवान् इति, एकत्वाभ्युपगमे आत्मनः कृते भवंति द्वौ भवानितिच, द्वित्वाभ्युपगमे अहमित्येकत्वविशष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यमीतिबुद्धयापर्यनुयोगो विहितः,अक्षयःअव्ययः अवस्थितो भवाननेन नित्यात्मपक्षः पर्यनुयुक्तः,अनेके भूता-अतीता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003340
Book TitleAgam Sutra Satik 06 Gnatadharmakath AngSutra 06
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages280
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy