________________
शतकं-२५, वर्गः-, उद्देशकः-३
प्रथमसमयेआग्नेय्यास्तिर्यग्नैऋत्यां याति ततस्तिर्यगेव वायव्यांततोऽधोवायव्यामेवेति, त्रिसमयेयं त्रसनाड्या मध्ये बहिर्वा भवतीति, 'एगओखह'त्ति यया जीवः पुद्गलो वा नाड्या वामपाश्वदिस्तां प्रविष्टस्त यैव गत्वा पुनस्तद्बामपार्वादावुत्पद्यते सा एकतःखा, एकस्यां दिशि वामादिपार्श्वलक्षणायां खस्य-आकाशस्य लोकनाडीव्यतिरिक्तलक्षणस्य भावादिति, इयं च द्वित्रिचतुर्वक्रोपेताऽपि क्षेत्रविशेषाश्रितेति भेदेनोक्ता, 'दुहओखह'त्ति नाड्या वामपाश्वदिन डी प्रविश्य तथैव गत्वाऽस्या एव दक्षिणपाश्र्वादी ययोत्पद्यते सा द्विधाखा।
नाडीबहिर्भूतयोमिदक्षिणपावलक्षणयोर्द्धयोराकाशयोस्तया स्पृष्टत्वादिति, 'चकवाल त्ति चक्रवालं-मण्डलं, ततश्च यया मण्डलेन परिभ्रम्यपरमाण्वादिरुत्पद्यतेसा चक्रवाला, 'अद्धचक्कवाल'त्ति चक्रवालार्द्धरूपा।
अनन्तरं श्रेणय उक्ताः, अथ ता एवाधिकृत्य परमाण्वादिगतिप्रज्ञापनायाह ‘परमाणुपोग्गलाणं भंते ! इत्यादि,' 'अणुसेढि'न्ति अनुकूला-पूर्वादिदिगभिमुखा श्रेणियंत्र तदनुश्रेणि, तद्यथा भवत्येवं गतिः प्रवर्तते, विसेदिति विरुद्धा विदिगाश्रिता श्रेणी यत्र तद्विश्रेणि, इदमपि क्रियाविशेषणम्।
अनुश्रेणिविश्रेणिगमनं नारकादिजीवानां प्रागुक्तं, तच्च नारकावासादिषु स्थानषु भवतीतिसम्बन्धात्पूर्वोक्तमपि नारकावासादिकं प्ररूपयन्नाह
. मू. (८७७) इमीसे गंभंते ! रयणप्पभाए पुढवि० केवतिया निरयावाससयसहस्सा पप०?, गोयमा! तीसं निरयावाससयसहस्स प०, एवं जहा पढमसते पंचमुद्देसगेजाव अनुत्तरविमाणत्ति
वृ. 'इमीसे णमित्यादि, इदं च नरकावासादिकं छद्मस्थैरपि द्वादशाङ्गप्रभावादवसीयत इति तनरूपणायाह
मू. (८७८) कइविहे णं भंते ! गणिपिडए प०?, गोयमा ! दुवालसंगे गणिपिडए पं० तं०-आयारो जाव दिडिवाओ, से किंतं आयारो?, आयारेणं समणामं निग्गंथाणं आयारगो० एवं अंगपरूवणा भाणियव्वा जहा नंदीए । जाब
वृ. 'कइविहे ण'मित्यादि, ‘से किंतं आयारो'त्ति प्राकृतत्वात्, अथ कोऽसावाचारः?, अथवा किं तद्वस्तु यदाचार इत्येवं व्याख्येयम्, 'आयारेणं'ति आचारेण शास्त्रेण करणभूतेन अथवा आचारे अधिकरणभूते णमित्यलङ्कारे 'आयाइत्येवं व्याख्येयम्, 'आयारेणं ति आचारेण शास्त्रेणकरणभूतेनअथवाआचारे अधिकरणभूते णमित्यलङ्कारे 'आयारगो' इत्यनेनेदं सूचितम्'आयारगोयरविणयवेणइयसिक्खाभासाअभासाचरणकरणजायामायवित्तीओ आघवेजंति'त्ति, तत्राचारो-ज्ञानाद्यनेकभेदभिन्नः गोचरो-भिक्षाग्रहणविधिलक्षणः विनयो-ज्ञानादिविनयः वैनयिकं-विनयफलं कर्मक्षयादि शिक्षा ग्रहणासेवनाभेदभिन्ना -
__ -अथवा 'वेणइयत्तिवैनयिको विनयोवा-शिष्यस्तस्य शिक्षावैनयिकशिक्षा विनेयशिक्षा वा भाषा-सत्याऽसत्यामृषाच अभाषा-मृषासत्यामृषाचचरणं-व्रतादिकरणं-पिण्डविशुद्धयादि यात्रा-संयमयात्रा मात्रा-तदर्थमाहारमात्रा वृत्ति विविधैरभिग्रहविशेषैर्वर्तनं आचारश्च गोचरश्चेत्यादिर्द्वन्द्वस्ततश्च ता आख्यायन्ते-अभिधियन्ते, इह च यत्र क्वचिदन्यतरोपा-दानेऽन्यतरगतार्थाभिधानं तत्सर्वं तयाधान्यख्यापनार्थमेवावसेयमिति । एवं अंगपरूवणा भाणियव्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org