SearchBrowseAboutContactDonate
Page Preview
Page 949
Loading...
Download File
Download File
Page Text
________________ ३८२ भगवतीअगसूत्रं (२) २५/-/३/८७५ इत्येतदेवं भावनीयं-रुचकार्डादारभ्य यत्पूर्वंदक्षिणं वालोकार्द्धतदितरेणंतुल्यमतःपूर्वापरश्रेणयो दक्षिणोत्तरश्रेणयश्च समसङ्ख्यप्रदेशाः, ताश्च काश्चित् कृतयुग्माः काश्चिद् द्वापरयुग्माश्च भवन्ति नपुनस्त्र्योजप्रदेशाः कल्योजप्रदेशावा, तथाहि-असद्भावस्थापनया दक्षिणपूर्वाद्चकप्रदेशात्पूर्वतो यल्लोकश्रेण्यर्द्धत प्रदेशशतमानं भवति, यच्चापरदक्षिणाद्रुचकप्रदेशादपरतो लोकश्रेण्यर्द्ध तदपिप्रदेशतमान, ततश्चशतद्वयस्य चतुष्कापहारे पूर्वापरायतलोकश्रेण्याः कृतयुग्मता भवति, तथा दक्षिणपूर्वाद्रुचकप्रदेशाद्दक्षिणो योऽन्त्यः प्रदेशस्तत आरभ्य पूर्वतो यल्लोकश्रेण्यर्द्ध तनवनवतिप्रदेशमानं, यच्चापरदक्षिणायताद्रुचकप्रदेशाद्दक्षिणोयोऽन्यत्यः प्रदेशस्ततआरभ्यापरतो लोकश्रेण्यर्द्धतदपिचनवनवतिप्रदेशमान, ततश्च द्वयोर्नवनत्योर्मीलने चतुष्कापहारेच पूर्वापरायतलोकश्रेण्या द्वापरयुग्मताभवति, एवमन्यास्वपिलोकश्रेणीषुभावना कार्या, इहचेयंसङ्ग्रहगाथा॥१॥ “तिरियाययाउ कडबायराओ लोगस्स संखसंखा वा। सेढीओ कडजुम्मा उद्दमहेआययमसंखा ।।" इति। तथा अलोगागाससेढीओणंभंते! पएसे'त्यादौ 'सिय कडजुम्माओ'त्तियाः क्षुल्लकप्रतरद्वयसामीप्यात्तिरश्चीनतयोत्थिता याश्च लोकमस्पृशन्त्यः स्थितास्ता वस्तुस्वभावात्कृतयुग्माः, यावत्करणात् "सिय तेओयओ सिय दावरजुम्माओ'त्ति श्य, तत्र च.याः क्षुल्लकप्रतरद्वयस्याधस्तनादुपरितनाद्वा प्रतरादुत्थितास्तास्त्र्योजाः, यतः क्षुल्लकप्रतरद्वयस्याध उपरि च प्रदेशतो लोकस्य वृद्धिभावेनालोकस्य प्रदेशत एव हानिभावादेकैकस्य प्रदेशस्यालोकश्रेणीभ्योऽपगमो भवतीति, एवं तदनन्ताराभ्यामुत्थिता द्वापरयुग्माः, 'सिय कलिओगाओ'त्ति तदनन्तराभ्यामेवोत्थिताः कल्योजाः, एवं पुनः पुनस्ता एव यथासम्भवं वाच्या इति । 'उड्डाययाणमित्यादि, इह क्षुल्लकप्रतरद्वयमाने या उत्थिता ऊर्धायतास्ता द्वापरयुग्माः ततऊर्द्धमधश्चैकैकप्रदेशवृद्धया कृतयुग्माः क्वचिच्चैकप्रदेशवृद्धयाऽन्यत्रवृद्धयभावेन त्र्योजाः, कल्योजास्त्विहनसंभवन्ति वस्तुस्वभावात्, एतच्च भूमौलोकमालिख्य केदाराकारप्रदेशवृद्धिमन्तं ततः सर्वं भावनीयमिति ।। अथ प्रकारान्तरेण श्रेणीप्ररूपणायाह ___ मू. (८७६) कति णं भंते ! सेढीओ प०?, गोयमा! सत्त सेढीओ पन्नत्ताओ, तंजहाउज्जुआयता एगओवंका दुहओवंका एगओखहा दुहओखहा चक्कवाला अद्धचक्कवाला। परमाणुपोग्गलाणं भंते! किं अणुसेढींगती पवत्तति विसेदि गती पवत्तति?, गोयमा! अणुसेढी गति पवत्तति नो विसेढी गती पवत्तति। दुपएसियाणं भंते! खंधाणं अणुसेढी गती पवत्तति विसेढी गती पवत्तति एवं चेव, एवं जाव अनंतपएसियाणं खंधाणं । नेरइयाणं भंते ! किं अणुसेढी गती पवत्तति विसेढी गती पवत्तति एवं चेव, एवं जाव वेमाणियाणं॥ वृ. 'कइ ण'मित्यादि, 'श्रेणयः प्रदेशपङ्क्तयो जीवपुद्गलसञ्चरणविशेषिताः तत्र 'उजुयायत'त्ति ऋजुश्चासावायता चेति ऋचायता यया जीवादय ऊर्ध्वलोकादेरधोलोकादौ ऋजुतया यान्तीति, एगओवंक'त्ति एकत' एकस्यां दिशि ‘वता' वक्रायया जीवपुद्गला ऋजु गत्वा वक्रंकुर्वन्ति श्रेण्यन्तरेण यान्तीति, 'दुहओवंक'त्तियस्यांवारद्वयं वक्र कुर्वन्तिसा द्विधावक्रा, इयं चोर्ध्वक्षेत्रादाग्नेयदिशोऽधःक्षेत्रे वायव्यदिशि गत्वा य उत्पद्यते तस्य भवति, तथाहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy