________________
३७२
भगवतीअङ्गसूत्रं (२) २५/-/२/८६९ तैजससूत्रे-ठियाइं गेण्हइ'ति जीवावगाहक्षेत्राभ्यन्तरीभूतान्येव गृह्णाति 'नो अठियाई गिण्हइत्तिन तदनन्तरवर्तीनि गृह्णह्वाति, तस्याकर्षपरिणामाभावात्, अथवा स्थितानि-स्थिराणि गृह्णाति नोअस्थितानि-अस्थिराणि तथाविधस्वभावात्वात् 'जहा भासापदे'त्तियथा प्रज्ञापनाया एकादशे पदे तथा वाच्यं, तच्च 'तिपएसियाई गिण्हाति जाव अनंतपएसियाइंगिण्हइ' इत्यादि ।
श्रोत्रेन्द्रियसूत्रे-'जहा वेउब्वियसरीरं'ति यथा वैक्रियशरीरद्रव्यग्रहणं स्थितास्थितद्रव्यविषयं षड्दिक्कंच एवमिदमपि, श्रोत्रेन्द्रियद्रव्यग्रहणं हिनाडीमध्यएव तत्रच 'सिय तिदिसि'मित्यादि नास्ति व्याघाताभावादिति । ___'फासिंदियत्ताएजहाओरालियसरीरं'ति, अयमर्थ:-स्पर्शनेन्द्रियतया तथा द्रव्याणिगृह्णाति यथौदारिकशरीरं स्थितास्थितानिषड्दिगागतप्रभृतीनिचेतिभावः, मणजोगत्ताए जहा कम्मगसरीरं नवरं नियमंछद्दिसिंति मनोयोगतया तथा द्रव्याणि गृह्णातियथा कार्मणं, स्थितान्येव गृह्मातीति भावः, केवलं तत्र व्याधातेनेत्याधुक्तं इह तु नियमात् षड्दिशीत्येवं वाच्०, नाडीमध्य एव मनोद्रव्यग्रहणभावात, अत्रसानांहि तन्नास्तीति, एवं वइजोगत्ताएवि'त्ति मनोद्रव्यद्वागद्रव्याणि गृह्णातीत्यर्थः, 'कायजोगत्ताए जहा ओरालियसरीरस्स'त्ति काययोगद्रव्याणि स्थितास्थितानि षड्दिगागतप्रमृतीनि चेत्यर्थः ।
'केइ' इत्यादि तत्रपञ्च शरीराणि पञ्चेन्द्रियाणित्रयो मनोयोगादयः आनप्राणं चेति सर्वाणि चतुर्दश पदानि तत एतदाश्रिताश्चतुर्दशैव दण्डका भवन्तीति ।।
. शतकं-२५ उद्देशकः-२ समाप्तः
-शतक-२५ उद्देशकः-३:वृ.द्वितीयोद्देशके द्रव्याण्युक्तानि, तेषुच पुद्गला उक्तास्तेचप्रायः संस्थानवन्तोभवन्तीत्यतस्तृतीये संस्थानान्युच्यन्ते, इत्वेवंसम्बद्धस्यास्येदमादिसूत्रम्- -
मू. (८७०) कति गंभंते! संठाणा प०?, गोयमा! छ संठाणा प०, तं०-परिमंडले वट्टे तंसे चउरंसे आयते अनित्यंथे, परिमंडला णं भंते ! संठाणा दब्वट्ठयाए किं संखेजा असंखेजा अनंता?, गोयमा! नो संखे० नो असंखे० अनंता वट्टाणं भंते ! संठाणा एवं चेव एवं जाव अनित्यंथा एवं पएसट्टयाएवि।
एएसि णं भंते । परिमंडलवतंसचउरंसआयतअनित्यंथाणं संठाणाणं दव्वट्ठयाए पएसट्टयाए दव्वठ्ठपएसट्टयाए कयरेशहितो जाव विसेसाहिया वा?
गोयमा! सव्वत्थोवा परिमंडलसंठाणा दबट्टयाए वट्टा संठाणा दव्वठ्ठयाए संखेजगुणा चउरसा संठाणा दव्बट्टयाए संखेनगुणा तंसा संठाणा दव्वट्ठयाए संखेनगुणा आयतसंठाणा दब्वट्ठयाए संखेनगुणा अनित्थंथा संठाणा दव्वट्टयाए असंखेनगुणा, पएसट्टयाए सव्वत्योवा परिमंडला संठाणा पएसट्टयाए वट्टा संठाणा संखेनगुणा जहा दव्वट्ठयाए तहा पएसट्टयाएवि जाव अनित्थंथा संठाणा पएसट्टयाए असंखेनगुणा ।
दव्यपएसट्टयाए सव्वत्थोवा परिमंडला संठाणा दव्वट्ठयाए सो चेव गमओ भाणियव्वी जाव अनित्यंथा संठाणा दब्ब० असंखे० अनित्यंथेहितोसंठाणेहिंतो दवट्ठयाएपरिमंडला संठाणा पएसट्ट० असंखे० वट्टा संठाणा पएसट्ट० संखे० सो चेव पएसठ्ठयाए गमओ भाणि० जाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org