SearchBrowseAboutContactDonate
Page Preview
Page 932
Loading...
Download File
Download File
Page Text
________________ शतकं-२४, वर्गः-, उद्देशकः-२४ ३६५ करेजा, एते तिन्नि गमगा सव्वट्ठसिद्धगदेवाणं । सेवं भंते ! २ त्ति भगवं गोयमे जाव विहरइ । वृ. 'जहन्नेणं पलिओवमट्टिइएसुत्ति सौधर्मे जघन्येनान्यस्यायुषोऽसत्वात्, “उक्कोसेणं तिपलिओवमठिइएसुत्त यद्यपि सौधर्मे बहुतरमायुष्कमस्ति तथाऽप्युत्कर्षतपिल्योपमायुष एव तिर्यञ्चो भवन्तितदनतिरिक्चतंचदेवायुर्बन्धन्तीति, ‘दोपलिओवमाईतिएवं तिर्यग्भवसत्कमपरं घ देवभवसत्कं, 'छ पलिओवमाईति त्रीणि पल्योपमानि तिर्यग्भवसत्कानि त्रीण्येव देवभवसत्कानीति। ___'सो चेव अप्पणा जहन्नकालठिईओ जाओ'इत्यादिगमत्रयेऽप्येको गमः, भावना तु प्रदर्शितैव, 'जहन्नेणं घणुहपुहुत्तं'त्ति क्षुद्रकायचतुष्पदापेक्षं 'उक्कोसेणं दो गाउयाईति यत्र क्षेत्रे काले वा गव्यूतमाना मनुष्या भवन्ति तत्सम्बन्धिनो हस्त्यादीनपेक्ष्योक्तमिति। सङ्घयातायुःपञ्चेन्द्रियतिर्यगधिकारे-'जाहे व अप्पणा जहन्नकालट्टिइओ भवई'त्यादौ 'नो सम्पामिच्छादिट्ठी'त्ति मिश्रष्टिनिषेध्यो जघन्यस्थितिकस्य तदसम्भवादजघन्यस्थितिकेषु दृष्टित्रयस्यापि भावादिति, तथा ज्ञानादिद्वारेऽपि द्वे ज्ञानेवाअज्ञाने वा स्यातां, जघन्यस्थितेरन्ययोरभावादिति । ___अथ मनुष्याधिकारे-'नवरं आदिल्लएसु दोसु गमएसु'इत्यादि, आद्यगमयोर्हि सर्वत्र धनुष्पृथक्त्वं जघन्यावगाहना उत्कृष्टा तु गव्यूतषट्कमुक्ता इह तु 'जहन्नेणं गाउय'मित्यादि, तृतीयगमे तु जघन्यत उत्कर्षतश्चषड्गव्यूतान्युक्तानि इह तु त्रीणि, चतुर्थे गमे तुप्राग्जघन्यतो धनुष्पृथक्त्वमुत्कर्षतस्तु द्वे गव्यूते उक्ते इह तुजघन्यत उत्कर्षतश्च गव्यूतम्, एवमन्यदप्यूह्यम् । ईशानकदेवाधिकारे- सातिरेगं पलिओवमं कायव्वं'ति ईशाने सातिरेकपल्योपमस्य जघन्यस्थितिकत्वात्, तथा 'चउत्थगमए ओगाहणा जहन्नेणं घनुहपुहुत्तं'ति ये सातिरेकलपल्योपमायुषस्तिर्यञ्चः सुषमांशोद्भवाः क्षुद्रतरकायास्तानपेक्ष्योक्तम्, 'उक्कोसेणं साइरेगाई दो गाउयाईति एतच्च यत्र काले सातिरेकगव्यतमाना मनुष्या भवन्ति तत्कालभवान् हस्त्यादीनपेक्ष्योक्तं, तथा जेसुठाणेसुगाउयं तिसौधर्मदेवाधिकारे येषु स्थानेष्वसङ्ख्यातवर्षायुर्मनुष्याणं गव्यूतमुक्तं 'तेसु ठाणेसु इहं साइरेगं गाउयंति जघन्यतः सातिरेकपल्पोपमस्थितिकत्वादीशानकदेवस्य प्राप्तव्यदेवस्थित्यनुसारेण चासङ्ख्यावर्षायुर्मनुष्याणां स्थितिसद्भावात् तदनुसारेणैव च तेषामवगाहना भावादिति। सनत्कुमार देवाधिकारे-'जाहे य अप्पण जहन्ने'त्यादौ 'पंचलेस्सामो आदिल्लाओ कायव्वाओ'त्तिजघन्यस्थितिकस्तिर्यक् सनत्कुमारे समुत्पित्सुर्जघन्यस्थिति-सामर्थ्यात्कृष्णादीनां चतसृणां लेश्यानामन्यतरस्यां परिणतोभूत्वा मरणकाले पद्मलेश्यामासाद्यम्रियते ततस्तत्रोत्पद्यते, यतोऽग्रेतनभवलेश्यापरिणामे सतिजीवः परभवं गच्छतीत्यागमः, तदेवमस्य पञ्च लेश्या भवन्ति _ 'लंतगाईगंजहन्ने'त्यादि, एतद्भावना चानन्तरोक्तन्यायेन कार्या, संघयणाई बंभलोए लंतएसु पंच आइल्लगाणि'त्ति छेदवर्तिसंहननस्य चतुर्णामेव देवलोकानां गमने निबन्धनत्वात्, यदाह॥१॥ "छेवढेण उगम्मइचत्तारि उजाव आइमा कप्पा। वड्डेन्ज कप्पजुयलं संघयणे कीलियाईए ।।" इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy