________________
३५४
भगवतीअङ्गसूत्रं (२) २४/-१२०/८५६ यदिचोत्कृष्टस्थितिस्वरस्त्रित्सागरोपमायुर्नारकोभूत्वापूर्वकोट्यायुः पञ्चेन्द्रियतिर्यसूत्पद्यते तदा वारद्वयमेवैवमुक्ति स्यात् ततश्च षटषष्टि सागरोपमाणि पूर्वकोटीद्वयं च स्यात् तृतीया तिर्यग्भवसम्बन्धिपूर्वकोटी न लभ्यत इति नोत्कृष्टता भवानां कालस्य च स्यादिति।
उत्पादितोनारकेभ्यः पञ्चेन्द्रियतिर्यग्योनिकः,अथतिर्यग्योनिकेभ्यस्तमुत्पादयन्नाह-'जइ तिरिक्खे'त्यादि, 'जच्चेव अप्पणो सट्ठाणे वत्तव्वय'त्तियैवात्मनः-पृथिवीकायिकस्य स्वस्थानेपृथिवीकायिकलक्षणे उत्पाद्यमानस्य वक्तव्यता भणिता सैवात्रापिवाच्या, केवलंतत्र परिमाणद्वारे प्रतिसमयसङ्खयेया उत्पधन्त इत्युक्तं इह त्वेकादिरिति, एतदेवाह-'नवर'मित्यादि ।
तथापृथिवीकायिकेभ्यः पृथिवीकायिकस्योत्पद्यमानस्य संवेधद्वारेप्रथमद्वितीयचतुर्थपचमगमेषूत्कर्षतोऽसङ्ख्यातानि भवग्रहणान्युक्तानि शेषेषु त्वष्टौ भवग्रहणानि इह पुनरष्टावेव नवस्वपीति।
तथा 'कालादेसेणंउभयओठिईएकरेजत्तिकालादेशेन संवेधंपृथिवीकायिकस्यससंज्ञिपचेन्द्रियतिरिश्चश्च स्थित्या कुर्यात्, तथाहि-प्रथमे गमे 'कालादेसेणं जहन्नेणं दो अंतोमुहुत्ताई'ति पृथिवीसत्कं पञ्चेन्द्रियसत्कं चेति, उत्कर्षतोऽष्टाशीतिवर्षसहस्राणि पृथिवीसत्कानि चतस्रश्च पूर्वकोट्यः पञ्चेन्द्रियतिर्यक्सत्काः, एवं शेषगमेष्वप्यह्यः. संवेध इति, 'सव्वत्य अप्पणो लद्धी भाणियव्वति सर्वत्राकायिकादिभ्यश्चतुरिन्द्रियान्तेभ्यउद्न्तानां पञ्चेन्द्रियतिर्यसूत्पादे अप्पणोति अप्कायादेः सत्का लब्धिः परिमाणादिका भणितव्या, सा च प्राक्तन सूत्रेभ्योऽवगन्तव्या, अथानन्नरोक्तमेवार्थस्कुटतरमाह ‘जहेव पुढविकाइएसु उववज्जमाणाणं मित्यादि, यथा पृथिवीकायिकेभ्यः पञ्चेन्द्रियतिर्यसूत्पद्यमानानांजीवानांलब्धिरुक्तातथैवाप्कायादिभ्यश्चतुरिन्द्रयान्तेभ्य उत्पद्यमानानां सा वाच्येति ।
असंज्ञिभ्यः पञ्चेन्द्रियतिर्यगुत्पादाधिकारे-'उक्कोसेणं पलिओवमस्स असंखेज्जइभागठिईए'ति, अनेनासंज्ञिपञ्चेन्द्रियाणाममसङ्ख्यातवर्षायुष्केषु पञ्चेन्द्रियतिर्यसूत्पत्तिरुक्ता, 'अवसेसंजहेवे'त्यादि, अवशेष-परिमाणादिद्वारजातंयथा पृथिवीकायिकेषूत्पद्यमानस्यासंज्ञिनः पृथिवीकायिकोद्देशकेऽभिहितं तथैवासंज्ञिनः पञ्चेन्द्रियतिर्यसूत्पद्यमानस्य वाच्यमिति।
___ 'उक्कोसेणंपलिओवमस्सअसंखेज्जइभागंपुवकोडिपुहुत्तममहियंति, कथम्?,असंज्ञीपूर्वकोट्यायुष्कः पूर्वकोट्यायुष्केष्वेवपञ्चेन्द्रियतिर्यसूत्पन्नइत्येवंसप्तसुभवग्रहणेषु सप्तपूर्वकोट्यः अष्टमभवग्रहणे तु मिथुनकतिर्यक्षु पल्योपमासङ्ग्येयभागप्रमाणायुष्केषूत्पन्न इति ।
तृतीयगमे उक्कोसेणंसंखेज्जा उववजंति'त्तिअसङ्ख्यातवर्षायुषांपञ्चेन्द्रियतिरश्चामसङ्ख्यातानामभावादिति, चतुर्थगमे 'उक्कोसेणं पुव्वकोडिआउएसु उववजेजत्तिजघन्यायुरसंज्ञी सङ्घयातायुष्केष्वेव पञ्चेन्द्रियतिरियसूत्पद्यत इतिकृत्वा पूर्वकोट्यायुष्केष्वित्युक्तम्, 'अवसेसं जहा एयस्से'त्यादि, इहावशेषं-परिमाणादि एतस्य-असंज्ञितिर्यपञ्चेन्द्रियस्य, ‘मज्झिमेसु'त्ति जघन्यस्थितिकगमेषु ‘एवं जहा रयणप्पभाए पुढीवीए' इत्यादि तच्च संहननोच्चत्वादि अनुबन्धसंवेधान्तं, 'नवरंपरिमाण'मित्यादि, तच्चेदम्-'उक्कोसेणंअसंखेज्जाउववजंति'त्ति अवशेषपरिमाणादियथैतस्यैव-संज्ञिपञ्चेन्द्रियतिरश्चइत्यर्थः, केवलं तत्रावगाहना सप्तधनुरित्यादिकोक्ता इह तूत्कर्षतो योजनसहनमाना, साच मत्स्यादीनाश्रित्यावसेयेति, एतदेवाह-‘नवर पित्यादि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org