________________
८६
भगवती अङ्गसूत्रं १/-/६/६९
गोयमा ! ओगाढं ओभासेइ नो अनोगाढं, एवं अनंतरोगाढं ओभासेइ परंपरोगाढं, तं भंते!, किं अणुं ओभास इ बायरं ओभासइ ?, गोयमा ! अणुंपि ओभासइ बायरंपि ओभासइ, तं भंते ! उहुं ओभासइ तिरियं ओभासद आहे ओभासद ?, गोयमा ! उहुंपि ३, तं भंते! आई ओभासइ मज्झे ओभासइ अंते ओभासइ ?, गोयमा नानु आई ३, तं भंते!, सविसए ओभासइ अवसए ओभासइ गोयमा ! सविसए ओभासइ नो अविसए, तं भंते! आनुपुविं ओभासेइ अनानुपुव्विं ओभासइ गोयमा ! आनुपुव्विं ओभासइ नो अनानुपुव्विं, तं भंते! कइदिसिं ओभासइ ?, गोयमा ! नियमा छद्दिसिं 'ति ।
एतेषां च पदानां प्रथमोद्देशकेनारकाहारसूत्र व्याख्या ध्श्येति । य एव 'ओभासइ' इत्यनेन सह सूत्रप्रपञ्च उक्तः स एव 'उज्जोयई' त्यादिना पदत्रयेण वाच्य इति दर्शयन्नाह एवं 'उज्जीवेई 'त्यादि । पृष्टं क्षेत्रं प्रभासतीत्युक्तम्, अथ स्पर्शनामेव दर्शयन्नाह 'सव्वंति 'त्ति प्राकृतत्वात् 'सर्वतः सर्वासु दिक्षु 'सव्वावंति' त्ति प्राकृतत्वादेव सर्वात्मना सर्वेण वाऽऽतपेनापत्ति-व्याप्तिर्यस्य क्षेत्रस्य तत्सर्वापत्ति, अथवा सर्वं क्षेत्रम्, इतिशब्दो विषयभूतं क्षेत्रं सर्वं न तु समस्तभेवेत्यस्यार्थस्योपप्रदर्शनार्थः, तथा सर्वेणातपेनातो-व्याप्तिर्यस्य क्षेत्रस्य तत्सर्वापम् इतिशब्दः सामान्यतः सर्वेणातपेन व्याप्तिर्यस्य क्षेत्रस्य तत्सर्वापम्, इतिशब्दः सामान्यतः सर्वेणातपेन व्याप्तिर्न तु प्रतिप्रदेशं सर्वेणेत्यस्यार्थस्योपप्रदर्शनार्थः, अथवा स्पृशतः सूर्यस्य स्पर्शनायाः कालसमयः स्पृशतकाल- समयस्तत्र आतपेनेति गम्यते, यावत्क्षेत्रं स्पृशति सूर्य इति प्रकृतं तावत्क्षेत्रं स्पृश्यमानं स्पृष्टमिति वक्तव्यं स्यादिति प्रश्नः इन्तेत्याद्युत्तरं, स्पृश्यमानस्पृष्टयोश्चैकत्वं प्रथमसूत्रादवगन्तव्यमिति ।
स्पर्शनामेवाधिकृत्याह
मू. (७०) लोयंते भंते! अलोयतं फुसइ अलोयंतेवि लोयंतं फुसइ ?, हंता गोयमा ! लोयंते अलोयंतं फुसइ अलोयंतेवि लोयंतं फुसइ ३ । तं भंते! किं पुढं फुसइ अपुठ्ठे फुसइ ! जाव नियमा छद्दिसिं फुसइ ।
दीवंते भंते ! सागरंतं फुसइ सागरंतेवि दीवंतं फुसइ ?, हंता जाव नियमा छद्दिसिं फुसइ एवं एएणं अभिलावेणं उदयंते पोयंतं फुसइ छिदंते दूसंतं छायंते आयवंतं जाव नियमा छद्दिसिं फुसइ ।
वृ. 'लोयंते भंते ! अलोयंत' मित्यादि, लोकान्तः सर्वतो लोकावसानम्, अलोकान्तस्तु तदन्तर एवेति । इहापि 'पुट्ठे फुसइ' इत्यादिसूत्रप्रपञ्चो ६श्यः, अत एवोक्तं 'जाव नियमा छद्दिसिं ति एतद्भावना चैवं स्पृष्टमलोकान्तं लोकान्तः स्पृशति, स्पृष्टत्वं च व्यवहारतो दूरस्थस्यापि दृष्टं यथ चक्षुस्पर्श इत्यत उच्यते - अवगाढम् - आसन्नमित्यर्थः, अवगाढत्वं चासत्तिमात्रमपि स्यादत उच्यतेअनन्तरावगाढम् अवयवधानेन संबद्धं, न तु परम्पराऽवगाढं श्रृङ्खलाकटिका इव परम्पासम्बद्धं, तं धाणुं स्पृशति, अलोकान्तस्य क्वचिद्विवक्षया प्रदेशमात्रत्वेन सूक्ष्मत्वात्, बादरमपि स्पृशति, कचिद्विवक्षयैव बहुप्रदेशत्वेन बादरत्वात्, तमूर्ध्वमधस्तिर्यक् च स्पृशति, उर्द्धादिदिक्षुलोकान्तस्यालोकान्तस्य च भावात्, तं चादौ मध्येऽन्ते च स्पृशति ।
कथम् ?, अधस्तिर्यगूर्ध्वलोकप्रान्तानामदिमध्यान्तकल्पनात्, तं च स्वविषये स्पृशतिस्पृष्टावगाढादौ, नाविषयेऽस्पृष्टादाविति, तं चानुपूर्वा स्पृशति, आनुपूर्वी चेह प्रथमे स्थाने लोकान्तस्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org