________________
शतकं-१, वर्ग:-, उद्देशकः-६
८७
तोऽनन्तरं द्वितीये स्थानेऽलोकान्त इत्येवमस्थानतया स्पृशति, अन्यथा तु स्पर्शनैव न स्यात्, तं चषट्सु दिक्षु स्पृशति, लोकान्तस्य पार्श्वतः सर्वतोऽलोकान्तस्य भावात्, इह च विदिक्षुस्पर्शना नास्ति, दिशां लोकविष्कम्भप्रमाणत्वाद् विदिशां च तत्परिहारेण भावादिति।
___ एवंद्वीपान्तसारगान्तादिसूत्रेषुस्पृष्टादिपदभावना कार्या, नवरं द्वीपान्तसागरान्तादिसूत्रे 'छद्दिसिं' इत्यस्यैवं भावना-योजनसहस्रावगाढा द्वीपाश्च समुद्राश्च भवन्ति, ततश्चोपरितनानधस्तनांश्च द्वीपसमुद्रप्रदेशानाश्रित्य ऊर्ध्वाधोदिग्द्वयस्य स्पर्शनावाच्या, पूर्वादिदिशांतुप्रतीतैव, समन्ततस्तेषामवस्थानात् ।। 'उदयंते पोयंत'ति नद्याधुदकान्तः ‘पोतान्तं' नौपर्यवसानम्, इहाप्युच्छ्यापेक्षया उर्द्धदिक्-स्पर्शना वाच्या जलनिमज्जेन वेति।
“छिदंते दूसंत'न्ति छिद्रान्तः 'दूष्यान्तं' वस्त्रान्तं स्पृशति, इहापि षड्दिस्पर्शनाभावना वस्त्रेच्छ्यापेक्षया, अथवा कम्बलरूपवस्त्रपोट्टलिकायांतन्मध्योत्पन्नजीवभक्षणेन तन्मध्यरन्ध्रापेक्षया लोकान्तसूत्रवत् षड्दिक्स्पर्शना भावयितव्या ।
"छायंतेआयवंत'तिइहछायाभेदेन षड्दिग्भावनैवम्-आतपेव्योमवर्तिपक्षिप्रभृतिद्रव्यस्य या छाया तदन्त आतपान्तं चतसृषु दिक्षु स्पृशति तथा तस्या एव छायाया भूमेः सकाशात्तद्रव्यं यावदुच्छ्रयोऽस्ति, ततश्चछायान्त आतपान्तमूर्ध्वमधश्च स्पृशति, अथवा प्रासादवरण्डिकादेर्या छाया तस्या भित्तेरवतरन्त्या आरोहन्त्या वाऽन्त आतापान्तमूर्ध्वमधश्च स्पृशतीति भावनीयम, अथवा तयोरेवछायाऽऽतपयोः पुद्गलानामसङ्घयेयप्रदेशावगाहित्वादुच्छ्रयसद्भावः, तत्सद्भावाघोधिोविभागः, ततश्च छायान्त आतपान्तमूर्ध्वमधश्च स्पशतीति।
स्पर्शनाऽधिकारादेव च प्राणातिपातादिपापस्थानप्रभवकर्मस्पर्शनामधिकृत्याह
मू. (७१) अस्थिभंते ! जीवाणं पाणाइवाएणं किरिया कजइ ?, हंता अस्थि । साभंते ! किं पुट्ठा कज्जइ अपुठ्ठा कज्जइ ?, जाव निव्वाधाएणं छदिसिं वाघायं पडुच्च सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं। साभंते ! किं कडा कजइ अकडा कज्जइ?, गोयमा ! कडा कञ्जइ नो अकडा कज्जइ । सा भंते ! किं अत्तकडा कजइ परकडा कज्जइ तदुभयकडा कजइ?, गोयमा! अत्तकडा कज्जइ नो परकडा कज्जइनोतदुभयकडा कज्जइ । साभंते! किंआनुपुट्विं कडा कज्जइ अनानुपुब्बि कडा कजइ?, गोयमा! आनुपुचि कडा काइनो अनानुपुब्बि कडा कजइ, जाय कडाजा यकजइजायकजिस्सइ सव्वासा आनुपुब्बिं कडा नो अनानुपुचि कडत्ति वत्तब्बं सिया।
अत्थिं णं भंते ! नेरइयाणं पाणाइवायकिरिया कजइ ?, हंता अस्थि । सा भंते ! किं पुट्ठा कजइ अपुठ्ठा कजइ जाव नियमा छदिसिं कज्जइ, सा भंते ! किं कडा कज्जइ अकडा कज्जइ?, तं चेव जाव नो अणनानुपुट्विं कडत्ति वत्तव्यं सिया, जहा नेरइया तहा एगिदियवजा भाणियव्वा, जाव वेमाणिया, एगिदिया जहा जीवा तहा भाणियव्या।
जहापाणाइवाएतहामुसावाएतहाअदिनादाणे मेहुणेपरिग्गहे कोहे जाव मिच्छादसणसल्ले, एवं एए अट्ठारस चउवीसं दंडगा भाणियव्वा ।
सेवं भंते ! सेवं भंते ! त्तिभंगवं गोयमे समणं भगवंजाव विहरति।
वृ. 'अस्थि त्ति अस्त्ययं पक्षः-'किरिया कज्जइ'त्ति, क्रियत इति क्रिया-कर्म सा क्रियतेभवति, 'पुढे' इत्यादेव्यार्खयापूर्ववत् । कडा कज्जइत्तिकृताभवति, अकृतस्य कर्मणोऽभावात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org