SearchBrowseAboutContactDonate
Page Preview
Page 861
Loading...
Download File
Download File
Page Text
________________ २९४ भगवतीअङ्गसूत्रं (२) २०/-/५/७८६ ॥१॥ “अंतलहुयस्स हेट्ठा गुरुयं ठावेह सेसमुवरिसमं । अंतं लहुएहिं पुणो पूरेज्जा भंगपत्थारे ॥" छत्तीसं भंग ति द्वित्रिचतुःस्पर्शेषु चतुःषोडशषोडशानां भावादिति, इह वुद्ध गाथे॥१॥ “वीसइमसउद्देसे चउप्पएसाइए चउप्फासे। एगबहुवयणमीसा बीयाइया कह भंगा। एकवचनबहुवचनमिश्रा द्वितीयतृतीयादयः कथं भङ्गका भवन्ति?, यत्रैवपदे एकवचनं प्रागुक्तं तत्रैव बहुवचन बहुवचने त्वेकवचनम्, एतच्च न भवतीतिकृत्वा विरोध उद्भावितः, अत्रोत्तरं॥१॥ "देसो देसा व मया दव्वक्खेत्तवसओ विवक्खाए। संघायभेयतदुभयभावाओ वा वयणकाले ।।" अयमर्थः-देशो देशा वेत्ययं निर्देशो न दुष्टः एकानेकवर्णादिधर्मयुक्तद्रव्यवशेनैकानेकावगाहक्षेत्रवशेन वा देशस्यैकत्वानेकत्वविवक्षणात्, अथवा भणनप्रस्तावे सङ्घातविशेषभावेन भेदविशेषभावेन वातस्यैकत्वानेकविविक्षणादेवेति।। पञ्चप्रदेशिके जइतिवने त्यादि, त्रिषु पदेष्वष्टौ भङ्गाः केवलमिह सप्तैव ग्राह्याः, पञ्चप्रदेशिकेऽष्टमस्यासम्भवात्, एवं च दशसु त्रिकसंयोगेषु सप्ततिरिति। . ___'जइचउवन्ने'इत्यादि, चतुर्णा पदानांषोडश भङ्गास्तेषुचेह पञ्चसम्भविनस्तेच सूत्रसिद्धा एच, पञ्चसुवर्षेषु पञ्च चतुष्कसंयोगा भवन्ति, तेषु चैषां प्रत्येकं भावात्पञ्चविंशतिरिति, 'ईयालं भंगसयंतिपञ्चप्रदेशिके एकद्वित्रिचतुष्पञ्चवर्णसंयोगजानांपञ्चचत्वारिंशत्सप्ततिपञ्चविंशत्येकसवयानां भङ्गानां मीलनादेकोत्तरचत्वारिंशदधिकं भङ्गकशतं भवतीति। छप्पएसिए ण मित्यादि इह सर्वं पञ्चप्रदेशिकस्येव, नवरं वर्णत्रयेऽष्टौ भङ्गा वाच्याः, अष्टमस्याप्यत्रसम्भवात्, एवंच दशसुत्रिकसंयोगेष्वशीतिर्भङ्गका भवन्तीति, चतुर्वर्णेतुपूर्वोक्ताना षोडशानांभङ्गकानामष्टदशान्तिमत्रयवर्जितानांशेषा एकादशभवन्ति, तेषांचपञ्चसुचतुष्कसंयोगेषु प्रत्येकं भावात्पञ्चपञ्चशदिति। 'जइ पंचवन्ने' इत्यादी षड् भङ्गाः, 'छासीयं भंगसयंति एकादिसंयंगोसम्भवानां पञ्चचत्वारिंशदशीतिपञ्चाधिकपञ्चाशतषटसङ्ख्यभङ्गकानांमीलनात्षडुत्तराशीत्यधिक भङ्गकशतं भवति ‘सत्तपएसिय'इत्यादि, इह चतुर्वर्णत्वे पूर्वोक्तानां षोडशानामन्तिमवर्जाः शेषाः पञ्चदश भवन्ति, एषां पञ्चसु चतुष्कसंयोगेषु प्रत्येकं भावात्पञ्चसप्ततिरिति। 'जइपंचवन्ने' इत्यादि, इह पञ्चानांपदानांद्वात्रिंशद्भङ्गा भवन्ति,तेषुचेहाद्यानांषोडशानामएमद्वादशान्त्यत्रयवर्जिताः शेषा उत्तरेषां च षोडशानामाधास्त्रयः पञ्चमनवमौ चेत्येवं सर्वेऽपि षोडशसंभवन्तीति, दोसोला भंगसय'त्ति एकद्वित्रिचतुष्पञ्चकसंयोगजानां पञ्चचत्वारिंशदशीतिपञ्चाधिकसप्ततिषोडशसङ्ख्यानां भङ्गकानां मीलनाद् द्वे शते षोडशोत्तरे स्यातामिति। 'अट्ठपएसिए'इत्यादि, इह चतुर्वर्णत्वे पूर्वोक्ताः षोडशापि भङ्गा भवन्ति, तेषां च प्रत्येक पञ्चसु चतुष्कसंयोगेषु भावादशीतिर्भङ्गका भवन्ति, पञ्चवर्णत्वे तु द्वात्रिंशतो भङ्गानां षोडशचतुर्विशाष्टाविंशाष्टाविंशान्त्यत्रयवर्जा शेषाः षडविंशतिर्भङ्गका भवन्तीत्यर्थः, 'दो इक्कतीसाइंति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy