________________
२९३
शतक-२०, वर्गः:, उद्देशकः-५ द्वितीयश्चोष्ण एतौ रूक्षाविति रूक्षपदेऽनेकवचनं, तृतीयस्त्वनेकवचनान्ततृतीयपदः ।
सचैवम्-एकरूपो देशः शीतो द्विरूपस्तूष्णः, तथा यः शीतो यश्चोष्णयोरेकस्तौ स्निग्धौ इत्येवं स्निग्धपदेऽनेकवचनं यश्चैक उष्णः स रूक्ष इति, चतुर्थस्त्वेनकवचनान्तद्वितीयपदः, स चैवं-स्निग्धरूपस्य द्वयस्यैकःशीतो यश्च तस्यैव द्वितीयोऽन्यश्चैको रूक्षः एतावुष्णपदेऽनेकवचनं, स्निग्धे तु द्वयोरेकप्रदेशा श्रितत्वादेकवचनं रूक्षे त्वेकत्वादेवेति, पञ्चमस्तु द्वितीयचतुर्थपदयोरनेकवचनान्ततया।
सचैवम्-एकः शीतः स्निग्धश्च अन्यौ चपृथगव्यवस्थितावुष्णौचेत्युष्णस्तक्षयोरनेकवचनं, षष्ठस्तु द्वितीयतृतीयपदयोरनेकवचनान्तत्वे, सचैवम्-एकः शीतो रूक्षश्चअन्यौच पृथग्व्यवस्थितावुष्णौ स्निग्धौ चेत्युष्णस्निग्धयोरनेकवचनं, सप्तमस्तवनेकवचनान्ताद्यपदः,सचैवंस्निग्धरूपस्य द्वयस्यैकोऽन्यश्चैक एतौ द्वौ शीतावित्यनेकवचनान्तत्वमाद्यस्य, अष्टमः पुनरनेकवचनान्तादिमान्तिमपदः, स चैवं-पृथकथिततयोः शीतत्वरूक्षत्वे चैकस्य वोष्णत्वे स्निग्धत्वे च, नवमस्त्वनेकवचनान्तत्वे आद्यतृतीयययोः, स चैवं-द्वयोर्भिन्नदेशस्थयोः शीतत्वे स्निग्धत्वे च एकस्य चोष्णरूक्षत्वे चेति, पणवीसंभंग'त्तिद्वित्रिचतुःस्पर्शसम्बन्धिनांचतुर्द्वादशनवानां मीलनात् पञ्चविंशतिर्भङ्गा भवन्ति।
'चउप्पएसिए ण'मित्यादि, सिय कालए य नीलए यत्ति द्वौ द्वावेकपरिणामपरिणतावितिकृत्वा स्यात्कालको नीलकञ्चेति प्रथमः, अन्त्ययोरनेकत्वपरिणामे सति द्वितीयः आद्ययोस्तृतीयः उभयोश्चतुर्थ, स्थापना चेयम् । एवं दशसुद्विकयोगेषुप्रत्येकंचतुर्भङ्गीभावा-च्चत्वारिंशद्भङ्गाः । - 'जइ तिवन्ने' इत्यादि तत्र प्रथमः कालको द्वितीयो नीलकः अन्त्ययोश्चैकपरिणामत्याल्लोहितकः १११ इत्येकः तृतीयस्थानेकपरिणामतयाऽनेकवचनान्तत्वे द्वितीयः ११२, एवं द्वितीयस्थानेकतायांतृतीयः १२१आद्यस्थानेकत्वेचतुर्थः२११ एवमेते चत्वार एकत्र त्रिकसंयोगे, दशसु चैतेषु चत्वारिंशदिति।
____'जइ चउक्ने'इत्यादि, इह पञ्चानां पञ्च चतुष्कसंयोगा भवन्ति, ते च सूत्रसिद्धा एव, 'सब्बे नउइं भंग'त्ति एकद्वित्रिचतुर्वणेषु पञ्च चत्वारिंशत् २ पञ्चानां भङ्गकानां भावानवतिस्ते स्युरिति । 'जइ एगगंधे' इत्यादि प्राग्वत् ।
- 'जइ तिफासे' इत्यादि, सव्वे सीए'त्तिचतुर्णामपि प्रदेशानाशीतपरिणामवत्वात् १ 'देसे निद्धेति चतुर्णांमध्ये द्वयोरेकपरिणामयोः स्निग्धत्वात् २ 'देसे लुक्खे'त्ति तथैव द्वयो रूक्षत्वात् ३ इत्येकः द्वितीयस्तु तथैव नवरं भन्निन्परिणामतयाऽनेकवचनान्ततृतीयपदः तृतीयस्त्वनेकवचनान्तद्वितीयपदः, चतुर्थ पुनस्तथैवानेकवचनान्तद्वितीयतृतीयपद इत्येते सर्वशीतेन चत्वारः, एवं सर्वोष्णेन सर्वस्निग्धेन सर्वरूक्षेणेत्येवं षोडश । _ 'जइ चउफासे'इत्यादि तत्र देसे सीए'त्ति एकाकारप्रदेशद्वयलक्षणो देशः शीतः तथाभूत एवान्यो देश उष्णः, तथा य एव शीतः स एव स्निग्धः यश्चोष्णः स रूक्ष इत्येकः, चतुर्थपदस्य प्रागिवानेकवचनान्तत्वे द्वितीयः तृतीयस्य च तृतीयः, तृतीयचतुर्थयोरनेकवचनान्तत्वे चतुर्थ, एवमेते षोडश, आनयनोपायगाथा चेयमेषाम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org