________________
२९२
भगवती अङ्गसूत्रं (२) २०/-/५/७८६
सुक्किलगा य २ एवं परिवाडीए एकतीसं भंगा भाणियव्वा, एवं एक्कगदुयगतियगचउक्कगपंचगसंजोएहिं दो छत्तीसा भंगसया भवंति, गंधा जहा अट्टपएसियस्स, रसा जहा एयस्स चेव वना, फासा जहा चउपएसियस्स ।
दसपएसिए णं भंते! खंधे पुच्छा, गोयमा ! सिय एगवन्ने जहा नवपएसिए जाव सिय चउफासे पन्नत्ते, जइ एगवन्ने एगवन्नदुवन्नतिवनचउवत्रा जहेव नवपएसियस्स, पंचवन्नेवि तहेव नवरं बत्तीसतिमो भंगो भन्नति, एवमेते एक्कगदुयगतियगचउक्कगपंचगसंजीएसु दोन्नि सत्ततीसा भंगसया भवंति, गंधा जहा नवपएसियस्स, रसा जहा एयस्स चेव वन्ना, फासा जाव चउप्पएसियस्स जहा दसपएसओ एवं संखेजपएसिओवि, एवं असंखेज्जपएसिओवि, सुहुमपरिणओवि अनंतपएसिओवि एवं चेव ॥
वृ. 'परमाणु' इत्यादि, 'एगवन्ने' ति कालादिवर्णानामन्यतरयोगात्, एवं गन्धादिष्वपि वाच्यं, 'दुफासे 'ति शीतोष्णस्निग्धरूक्षाणामन्यतरस्याविरुद्धस्य द्वितयस्य योगाद् द्विस्पर्शः, तत्र च विकल्पाश्चत्वारः, शीतस्य स्निग्धेन रूक्षेण च क्रमेण योगादौ, एवमुष्णस्यापि द्वाविति चत्वारः, शेषास्तु स्पर्शा बादराणामेव भवन्ति ।
'दुपएसिएण 'मित्यादि, द्विप्रदेशिकस्यैकवर्णता प्रदेशद्वयस्याप्येकवर्णपरिणामात्, तत्र च कालादिभेदेन पञ्च विकल्पाः, द्विवर्णता तु प्रतिप्रदेशं वर्णभेदात्, तत्र च द्विकसंयोगजाता दश विकल्पाः सूत्रसिद्धा एव, एवं गन्धरसेष्वपि, नवरं गन्धे एकत्वे द्वौ द्विकसंयोगे त्वेकः, रसेष्वेकत्वे पञ्च द्वित्वे तु दश, स्पर्शेषु द्विस्पर्शतायां चत्वारः प्रागुक्ताः, 'जइ तिफासे' इत्यादि 'सव्वे सीए' त्ति प्रदेशद्वयमपि शीतं १, एस्यैव द्वयस्य देश एक इत्यर्थ स्निग्धः २ देशश्च रूक्षः ३ इत्येको भङ्गकः, एवमन्येऽपि त्रयः सूत्रसिद्धा एव, चतुःस्पर्शे त्वेक एव, एवं चैते स्पर्शभङ्गा सर्व्वेऽपि मीलिता नव भवन्तीति ।
'तिपएसिए' इत्यादि, सिय कालए' त्ति त्रयाणामपि प्रदेशानां कालत्यादित्वेनैकवर्णत्वे पञ्च विकल्पाः, द्विवर्णतायां चैकः प्रदेशः कालः प्रदेशद्वयं तु तथाविधैकप्रदेशावगाहादिकारणपेक्ष्यैकत्वेन विवक्षितमिति स्यान्नील इत्येके भङ्गः, अथवा स्यात्कालस्तथैव प्रदेशद्वयं तु भिन्नप्रदेशावगाहादिना कारणेन भेदेन विवक्षितमतो नीलकाविति व्यपदिष्टमिति द्वितीयः, अथवा द्वौ तथैव कालकावित्युक्तौ एकस्तु नीलक इत्येवं तृतीयः, तदेवमेकत्र द्विकसंयोगे त्रयाणां भावाद्दशसु द्विकयोगेषु त्रिंशद्भङ्गा भवन्ति, एते च सूत्रसिद्धा एवेति, त्रिवर्णतायां त्वेकवचनस्यैव सम्भवाद्दश त्रिसंयोगा भवन्तीति, गन्धे त्वेकगन्धत्वे द्वौ द्विगन्धतायां त्वेकत्वानेकत्वाभ्यां पूर्ववत्त्रयः ।
'जइ दुफासे' इत्यादि समुदितस्य प्रदेशयत्रस्य द्विस्पर्शतायां द्विप्रदेशिकवञ्चत्वारः, त्रिस्पर्शतायां तु सर्व शीतः प्रदेशत्रयस्यापि शीतत्वात् देशश्च स्निग्धः एकप्रदेशात्मको देशश्च रूक्षोद्विप्रदेशात्मको द्वयोरपि तयोरेकप्रदेशावगाहनादिना एकत्वेन विवक्षितत्वात्, एवं सर्वत्रेत्येको भङ्गः १, तृतीयपदस्यानेकवचनान्तत्वे द्वितीयपदस्यानेकवचनान्तत्वे तृतीयः, तदेवं सर्वशीतेन यो भङ्गाः ३ एवं सर्वोष्णेनापि ३ एवं सर्वस्निग्धेनापि ३ एवं सर्वरूक्षेणापि ३ तदेवमेते द्वादश १२, चतुःस्पर्शतायां तु 'देसे सीए' इत्यादि, एकवचनान्तपदचतुष्टय आद्यः, अनन्त्यपदस्यानेकवचनान्तत्वे तु द्वितीयः, स चैवं द्वयरूपो देशः शीत एकरूपस्तूष्णः पुनः शीतयोरेकः स्निग्धः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org