________________
२८२
भगवतीअङ्गसूत्रं (२) १९/-/९/७७४ कइविहे गंभंते! पोग्गलकरणेप०? गोयमा! पंचविहे पोग्गलकरणे पं० २०-वनकरणे गंधकरणे रसकरणे फासकरणे संठाणकरणे, वनकरणे णं भंते ! कतिविहे प०?, गोयमा ! पंचविहे प०, तंजहा-कालवन्नकरणेजाव सुकिल्लवन्नकरणे, एवं भेदो, गंधकरणेदुविहे रसकरणे पंचविहे फासकरणे अट्ठविहे।
संठाणकरणे णं भंते! कतिविहे प०?, गोयमा! पंचविहे प०, तंजहा-परिमंडलसंठाणे जाव आयतसंठाणकरणेत्ति सेवं भंते ! २ ति जाव विहरति ।।
दृ. 'कइविहे ण'मित्यादि, तत्र क्रियतेऽनेनेति करणं-क्रियायाः साधकतमं कृति करणं-क्रियामात्र, नन्वस्मिन् व्याख्याने करणस्य निर्वृत्तेश्चन भेद: स्यात्, निवृत्तेरपि क्रियारूपत्वात्, नैवं, करणमारम्भक्रिया निवृत्तिस्तु कार्यस्य निष्पत्तिरिति।।
. 'दव्वकरणे'त्तिद्रव्यरूपं करणं-दात्रादि द्रव्यस्य वा-कटादेः द्रव्येण शकालादिना द्रव्ये वा-पात्रादौ करणं द्रव्यकरणं, 'खेत्तकरणं'ति क्षेत्रमेव करणं क्षेत्रस्य वा-शालिक्षेत्रादेः करणं क्षेत्रेण वा करणं स्वाध्यायादेः क्षेत्रकरणं ।
___'कालकरणे'त्ति काल एव करणं कालस्य वा-अवसरादेः करणं कालेन वा काले वा करणं कालकरणं । 'भवकरणं ति भवो-नारकादि स एव करणं तस्य वा तेन वा तस्मिन् वा करणम्, एवं भावकरणमपि, शेषं तूद्देशकसमाप्तिं यावत् सुगममिति॥
___ शतकं-१९ उद्देशकः-९ समाप्तः
शतक-१९ उद्देशकः-१०:. १.० नवमे करणमुक्तं, दशमेतु व्यन्तराणामाहारकरणमभिधीयते इत्येवंसम्बद्धोऽयं
मू. (७७८) वाणमंतराणं भंते! सव्वे समाहारा एवंजहा सोलसमसए दीवकुमारुहेसओ जाय अप्पड्डियत्तिभंते २ ॥
वृ. सुगमो नवरं जाव अप्पड्डिय'त्ति अनेनेदमुद्देशकान्तिमसूत्रसूचितम्-'एएसिणं भंते वाणमंतराणं कण्हलेसाणं जाव तेउलेसाण य कयरे २ हिंतो अप्पड्डिया वा महड्डिया वा?, गोयमा ! कण्हलेसेहिंतो नीललेस्सा महड्डिया जाव सब्वमहड्डिया तेऊलेस्स'त्ति ।।
शतक-१९ उद्देशकः-१० समाप्तः ॥१॥ "एकोनविंशस्य शतस्य टीकामज्ञोऽप्यकाएं सुजनानुभावात् । चन्द्रोपलश्चन्द्रमरीचियोगादनम्बुवाहोऽपि पयः प्रसूते ।।
शतकं-१९ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भगवतीअगसूत्रे एकोनविंशतिशतकस्य अभयदेवसूरिविरचिता टीका परिसमाप्ता।
(शतकं-२०) वृ. व्याख्यातमेकोनविंशतितमं शतम्, अथावसरायातं विंशतितममारभ्यते तस्य चादावेवोद्देशक सङ्ग्रहणी 'बेइंदिये' त्यादि गाथामाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org