________________
२७२
भगवतीअङ्गसूत्रं (२) १९/-/३/७६१ पएसोगाढाई कालतो अनयरकालकृितीयाई भाक्ओ वनमंताई गंधमंताई रसमंताई फासमंताई'इत्यादीति 'तं चिजइत्ति तत्-पुद्गलजातं शरीरेन्द्रियतया परिणमतीत्यर्थः 'चिन्ने वा से उद्दाइ तिचीर्णं च-आहारितं सत्तत् पुद्गलजातम् 'अपद्रवति' अपयाति विनश्यतीति मलवत् सारश्चास्य शरीरेन्द्रियतया परिणमति, एतदेवाह-'पलिसप्पइव'त्ति परिसर्पतिचपरि-समन्ताद्गच्छति, एवं सत्राइ वत्ति “एवं' वक्ष्यमाणोल्लेखेन 'सञ्ज्ञा' व्यावहारिकार्थावग्रहरूपा मति प्रवर्ततइति शेषः, पन्नाइव'त्तिप्रज्ञा-सूक्ष्मार्थविषया मतिरेव, मणोइवत्ति मनोद्रव्यस्वभावं, 'वईइ वत्ति वागू द्रव्यश्रुतरूपा। .
प्राणातिपातादिद्वारे-'पाणाइवाए उवक्खाइज्जती त्यादि प्राणातिपाते स्थिता इति शेषः प्राणातिपातवृत्तय इत्यर्थः, उपाख्यायन्ते अभिधीयन्ते, यश्चैह वचनाद्यभावेऽपिपृथिवीकायिकानां मृषावादादिभिरुपाख्यानं तन्मृषावादाद्यविरतिमाश्रित्योच्यत इति, अथ हन्तव्यादिजीवानां का वार्ता ? इत्याह-'जेसिपि णमित्यादि, येषामपि जीवानामतिपातादिविषयभूतानां प्रस्तावात्पृथिवीकायिकानामेव सम्बन्धिनाऽतिपातादिना तेजीवत्तिते-अतिपातादिकारिणो जीवाः 'एवमाहिलंति'त्ति अतिपातादिकारिण एते इत्याख्यायन्ते, तेषामपि जीवानामतिपातादिविषयभूतानां न केवलं घातकानां 'नो' नैव 'विज्ञातम्' अवगतं 'नानात्वं' भेदो यदुत वयं वध्यादय एते तु वधकादय इत्यमनस्कत्वात्तेषामिति ||
उत्पादद्वारे-“एवं जहा वक्कतीए'इत्यादि, इह च व्युत्क्रान्ति प्रज्ञापनायाः षष्ठं पदं, अनेन च यत्सूचितं तदिदं-'किं नेरइएहिंतो उववनंति तिरिक्खजोणिएहिंतो उववजंति मणुस्सेहितो उववजंति देविहितो उववअंति ?, गोयमा ! नो नेरइएहिंतो उववजंति तिरिक्खजोणिएहितो उववजंति मणुस्सेहिंतो उववजंति देवेहितो उव्वजति' ।।
समुद्घातद्वारे-'समोहयावित्तिसमुद्घातेवर्तमानाः कृतदण्डा इत्यर्थः 'असोमहयावित्ति दण्डादुपरता अकृतसमुद्घाता वा।
उद्धर्तनाद्वारे-'एव उव्वट्टणा जहा वक्तीए'त्ति, अनेन चेदं सूचितं-किं नेरइएसु जाव देवेसु?, गोयमा ! नो नेरइएप्सु उववनंति तिरिक्खजोणिएसु उव० मणुस्सेसु उववजंति नो देवेसुउववखंति'त्ति।
तेजस्कायिकदण्डके 'नवरं उववाओ ठिई उव्वट्टणा य जहा पनवणाए'त्ति, इह स्यादादिद्वाराणि पृथिवीकायिकदण्डकवद्वाच्यानि, उत्पादादिषु पूनर्विशेषोऽसतिसच प्रज्ञापनायामिवेह द्रष्टव्यः, स चैवमर्थतः-तेषामुपपातस्तिर्यग्मनुष्येभ्य एव स्थितिस्तूत्कृष्टाऽहोरात्रत्रयंतत उद्वृत्तास्तु तेतिर्यक्ष्वेवोत्पद्यन्ते, यथा चेहोत्पादविशेषोऽस्ति तथा लेश्यायामपि यतस्तेजसोऽप्रशस्तलेश्या एव, पृथिवीकायिकास्त्वाद्यचतुर्लेश्याः, यच्चेदमिह न सूचितं तद्विचित्रत्वात्सूत्रगतेरिति।
वायुकायदण्डके ‘चत्तारि समुग्घाय'त्ति पृथिव्यदीनामाद्यायः समुद्घाताः वायूनां तु वेदनाकषायमारणान्तिकवैक्रियलक्षणाश्चत्वारः समुद्घाताः संभवन्ति तेषां वैक्रियशरीरस्य सम्भवादिति । वनस्पतिकायदण्डके 'नवरं आहारो नियम छद्दिसिं'ति यदुक्तं तन्नावगम्यते लोकान्तनिष्कु-टान्याश्रित्य त्रिदिगादेरप्याहारस्य तेषां सम्भवा बादरनिगोदान् वाऽऽश्रित्येदमवसेयं, तेषां पृथिव्याद्याश्रितत्वेन षडदिक्काहारस्यैव सम्भवादिति ।। अथैषामेव पृथिव्यादीनामवगाहनाऽल्पत्वादिनिरूपणायाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org