SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ शतकं-१८, वर्ग:-, उद्देशकः-४ २५३ पहियमाणश्चतुष्पर्यवसितो भवति स कृतयुग्ममित्यभिधीयते, यत्रापि राशौ चतूरूपत्वेन चतुष्कापहारो नास्ति सोऽपि चतुष्पर्यवसित-त्वसद्भावात्कृतयुग्ममेव, एवमुत्तरपदेष्वपि । ___अनन्तरंकृतयुग्मादिराशयः प्ररूपिताः,अथतैरेव नारकादीन्प्ररूपयन्नाह नेरइयाण'मित्यादि जहन्नपदे कडजुम्म'त्ति अत्यन्तस्तोकत्वेन ‘कृतयुग्माः कृतयुग्मसज्ञिताः 'उकोसपए'त्ति सर्वोत्कृष्टतायां त्र्योजःसज्ञिताः मध्यमपदे चतुर्विधा अपि, एतचैवमाज्ञाप्रामाण्यादवगन्तव्यम् 'वणस्सइकाइया ण'मित्यादि, वनस्पतिकायिका जघन्यपदे उत्कृष्टपदे चापदाः, जघन्यपदस्योत्कृष्टपदस्य च तेषामभावात् । तथाहि-जघन्यपदमुत्कृष्टपदंचतदुच्यते यन्नियतरूपंतच्चयथा नारकादीनांकालान्तरेणापि लभ्यते न तथा वनस्पतीनां, तेषां परम्परया सिद्धिगमनेन तद्राशेरनन्तत्वापरित्यागेऽप्यनियतरूपत्वादिति, सिद्धा जहा वणस्सइकाइय'त्ति जघन्यपदे उत्कृष्टपदे चापदाः, अजघन्योत्कृष्टपदे च स्यात् कृतयुग्मादय इत्यर्थः, तत्र जघन्योत्कृष्टपदापेक्षयाऽपदत्वं वर्द्धमानतया तेषामनियतपरिमाणत्वाद्भावनीयमिति। मू. (७३५) जावतियाणं भंते! वरा अंधगवण्हिणो जीवा तावतिया परा अंधगवण्हिणो जीवा?, हंता गोयमा ! जावतिया वरा अंधगवण्हिणो जीवा तावतिया परा अंधगवहिणो जीवा । सेवं भंते २ ति॥ वृ.जीवपरिमाणाधिकारादिदमाह-'जावइए'त्यादि, यावन्तः 'वर'त्ति अर्वाग्भागवर्तिनः आयुष्कापेक्षयाऽल्पायुष्का इत्यर्थः 'अंधगवण्हिणो'त्ति अंहिपा-वृक्षास्तेषां वह्नयस्तदाश्रयत्वेनेत्यंलिपवह्नयो बादरतेजस्कायिका इत्यर्थः। अन्ये त्वाहु:-अन्धकाः-अप्रकाशकाः सूक्ष्मनामकर्मोदयायेवह्रयस्तेऽन्धकवह्नयोजीवाः 'तावइयत्तितत्परिमाणाः 'पर'त्तिपराःप्रकृष्टाः स्थितितो दीर्घायुष इत्यर्थ इति प्रश्नः, ‘हंते' त्याद्युत्तरमिति ।। शतकं-१८ उद्देशकः-४ समाप्तः -शतकं-१८ उद्देशकः-५:वृ. चतुर्थोद्देशकान्ते तेजस्कायिकवक्तव्यतोक्ता ते च भास्वरजीवा इति पञ्चमे भास्वरजीवविशेषवक्तव्यतोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् मू. (७३६) दो भंते ! असुरकुमारा एगसि असुरकुमारावासंसि असुरकुमारदेवत्ताए उववत्रा तत्थणं एगे असुरकुमारे देवे पासादीए दरिसणिज्जे अभिरूवे पडिरूवे एगे असुरकुमारे देवे से णं नो पासादीए नो दरिसणिज्जे नो अभिरूवे नो पडिरूवे ।। से कहमेयं भंते! एवं?, गोयमा ! असुरकुमारा देवा दुविहा प०, तं०-वेउब्वियसरीरा य अवेउब्वियसरीरा य, तत्थ णं जे से वेउब्वियसरीरे असुरकुमारे देवे से णं पासादीए जाव पडिरूवे, तत्थ णं जेसे अवेउब्वियसरीरे असुरकुमारे देवे सेणं नो पासादीए जाव नो पडिरूवे। सेकेणटेणं भंते! एवं वुच्चइ तत्थ णंजे से वेउब्बियसरीरे तं चेव जावपडिरूवे?, गोयमा से जहानामए-इहं मणुयलोगसि दुवे पुरिसा भवंति-एगे पुरिसे अलंकियविभूसिए एगे पुरिसे अणलंकियविभूसिए। एएसिणं गोयमा! दोण्हं पुरिसाणं कयरे पुरिसे पासादीए जाव पडिरूवे कयरे पुरिसे नो For Private & Personal Use Only * Jain Education International www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy