________________
२४३
शतकं-१८, वर्गः-, उद्देशकः-१ च सिद्धत्वपर्यायानपगमादिति।
सज्ज्ञिद्वारे-'सन्ना जहा आहारओ'त्ति सज्ज्ञित्वेन स्याच्चरमः स्यादचरम इत्यर्थः, एवमसञ्ज्ञयपि उभयनिषेधवांश्चजीवः सिद्धश्चाचरमो, मनुष्यस्तु चरमः उभयनिषेधवतोमनुष्यस्य केवलित्वेन पुनर्मनुष्यत्वस्यालाभादिति ।
लेश्याद्वारे-'सलेसा'इत्यादि, 'जहा आहारओ'त्ति स्याच्चरमः स्यादचरम इत्यर्थः, तत्र ये निर्वास्यन्ति ते सलेश्यत्वस्य चरमाः, अन्ये त्वचरमा इति॥
दृष्टिद्वारे- सम्मद्दिट्टी जहा अनाहारओ'त्ति जीवः सिद्धश्च सम्यग्दृष्टिरचरमो यतो जीवस्य सम्यक्त्व प्रतिपतितमप्यवश्यंभावि, सिद्धस्य तु तन्न प्रतिपतत्येव, नारकादयस्तु स्यान्चरमाः स्यादचरमाः, ये नारकादयो नारकत्वादिना सह पुनः सम्यक्त्वं न लप्स्यन्ते ते चरमाः ये त्वन्यथा तेऽचरमा इति।
'मिच्छादिट्ठी जहा आहारओ'त्ति स्थाच्चरमः स्यादचरम इत्यर्थः यो हि जीयो निर्वास्यति स मिथ्यारित्वेन चरमो यस्त्वन्यथाऽसावचरमः, नारकादिस्तु यो मिथ्यात्वयुक्तं नारकत्वं पुनर्नलप्स्यते स चरमोऽन्यस्त्वचरमः, 'सम्मामिच्छे’त्यादि, 'एगिदियविगलिंदियवज्जंति एतेषां किल मिश्रन भवतीति नारकादिदण्डके नैते मिश्रालापके उचारयितव्या इत्यर्थः,अस्य चोलक्षणत्वेन सम्यग्दृष्टयालापके एकेन्द्रियवर्जमित्यपि द्रष्टव्यं, एवमन्यत्रापि यद्यत्र न संभवति तत्तत्र स्वयं वर्जनीयं, यथा सज्ज्ञिपदे एकेन्द्रियादयः असज्ञिपदे ज्योतिष्कादय इति, 'सिय चरिमे सिय अचरिमे' सम्यग्मिथ्यादृष्टि स्याचरमोयस्य तप्राप्ति पुनर्न भविष्यति, इतरस्त्वचरम इति । संयतद्वारे'संजओ' इत्यादि, अयमर्थः-संयतोजीवः स्यान्चरमो यस्य पुनः संयमोन भविष्यतिअन्यस्त्वचरमः, एवं मनुष्योऽपि, यत एतयोरेव संयतत्वमिति 'अस्संजओऽवि तहेव'त्ति असंयतोऽपि तथैव यथाऽऽहारकः स्याचरमः स्यादचरम इत्यर्थः, एवं संयतासंयतोऽपि केवलं जीवपञ्चेन्द्रियतिग्मनुष्यपदेष्वेवायं वाच्यः, अत एवाह-'नवरं जस्स जं अस्थि'त्ति, निषिद्धत्रयस्त्वचरमः सिद्धत्वात्तस्येति।
कषायद्वारे-‘सकसाई'त्यादि, अयमर्थः-सकषायः सभेदो जीवादिस्थानेषु स्याचरमः स्यादचरमः, तत्र यो जीवो निर्वास्यति स सकषायित्वेन चरमोऽन्यस्त्वचरमः, नारकादिस्तु यः सकषायित्वं नारकाद्युपेतं पुनर्न प्राप्स्यति स चरमोऽन्यस्त्वचरमः ‘अकसायी'त्यादि अकषायी' उपशान्तमोहादि सचजीवो मनुष्यः सिद्धश्चस्यात्, तत्रजीवः सिद्धश्चारमो यतो जीवस्याकषायित्वं प्रतिपतितम्यवश्यम्भावि,सिद्धस्यतुन प्रतिपतत्येव, मनुष्यस्त्वकषायितोपेतं मनुष्यत्वं यः पुनर्न लप्स्यते स चरमो यस्तु लप्स्यते सोऽचरम इति ।
ज्ञानद्वारे-'नाणी जहा सम्मदिट्टित्ति, अयमिह सम्यग्दृष्टिदृष्टान्तलब्धोऽर्थः-जीवः सिद्धश्चारमःजीवो हि ज्ञानस्य सतः प्रतपातेऽप्यवश्यं पुनर्भावेनाचरमः, सिद्धस्त्वक्षीणज्ञानभाव एव भवतीत्यचरमः, शेषास्तु ज्ञानोपेतनारकत्वादीनां पुनर्लाभासम्भवे चरमा अन्यथा त्वचरमा इति, 'सव्वस्य'त्ति सर्वेषुजीवादिसिद्धान्तेषुपदेषुएकेन्द्रियवर्जितेष्विति गम्यं, ज्ञानभेदापेक्षयाऽऽह
____ 'आभिनिविहिए' इत्यादि, जहा आहारओ'त्तिकरणात्स्याच्चरमः स्यादचरम इति दृश्यं, तत्राभिनिवोधिकादिज्ञानं यः केवलज्ञानप्राप्तया पुनरपि न लप्स्यते स चरमोऽन्यस्वत्वचरमः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org