________________
२४२
भगवतीअङ्गसूत्रं (२) १८/-19/७२४ यथाऽनाहारकोऽभिहितस्तता वाच्याः, ते च जीवपदे स्याप्रथमाः सिद्धापेक्षया स्यादप्रथमाः संसार्यपक्षया, नारकादिवैमानिकान्तपदेषुतुनो प्रथमाअप्रथमा अनादित्वात्तल्लाभस्य, सिद्धपदे तु प्रथमा नो अप्रथमाः साकारानाकारोपयोगविशेषितस्य सिद्धत्वस्य प्रथमत एव भावादिति।
वेदद्वारे-सवेयगे त्यादि, जहाआहारए' अप्रथमएवेत्यर्थः 'नवरंजस्सजोवेदोअत्थि'त्ति जीवादिदण्डकचिन्तायां यस्य नारकादेर्यो नपुंसकादिर्वेदोऽस्ति स तस्य वाच्यः स च प्रतीत एवेति, 'अवेयओ'इत्यादिअवेदकोयथाऽकषायी तथा वाच्यस्त्रिष्वपि पदेषु-जीवमनुष्यसिद्ध लक्षणेषु, तत्रच जीवमनुष्यपदयोः स्यात्प्रथमः स्यादप्रथमः अवेदकत्वस्य प्रथमेतरलाभापेक्षया, सिद्धस्त्वप्रथम एवेति।
शरीरद्वारे- ससरीरीत्यादि, अयमप्याहारकवदप्रथम एवेति 'नवरमाहारगसरीरी'त्यादि 'जहासम्मदिहित्तिस्याप्रथमः स्यादप्रथमइत्यर्थः,अयंचैवंप्रथमेतराहारकशरीरस्यलाभापेक्षयेति, अशरीरी जीवः स्यासिद्धश्च स च प्रथम एवेति॥पर्याप्तिद्वारे 'पंचही त्यदि, पञ्चभिः पर्याप्तिभिः पर्याप्तकः तथा पञ्चभिरपर्याप्तिभिरपर्याप्तक आहारकवदप्रथम इति, 'जस्स जा अस्थिति दण्डकचिन्तायां यस्य याः पर्याप्तयस्तस्य ता वाच्यास्ताश्च प्रतीता एवेति।
अथ प्रथमाप्रथमलक्षणाभिधानायाह-'जो जेण'गाहा, यो-भावो-जीवत्वादिर्येन जीवादिना का 'प्राप्तपूर्वः' अवाप्तपूर्व : 'भावः' पर्यायः सः' जीवादिस्तेन-भावेनाप्रथमको भवति, सेसेसुत्ति सप्तम्यास्तृतीयार्थत्वात् शेषः' प्राप्तपूर्वभाव्यतिरिक्तैर्भवतिप्रथमः, किंस्वरूपैः शेषैः ? इत्याह-अप्राप्तपूर्वैविरिति गाथाः ॥अथ प्रथमादिविपक्षं चरमादित्वं जीवादिष्वेव द्वारेषुपु निरूपयन्निदमाह-'जीवे ण'मित्यादि, जीवो भदन्त ! 'जीवभावेन जीवत्वपर्यायेण किं चरमः ?-किं जीवत्वस्य प्राप्तव्यचरमभागः किं जीवत्वं मोक्ष्यतीत्यर्थः 'अचरमे'त्ति अविद्यमानजीवत्वचरमसमयो, जीवत्वमत्यन्तं न मोक्ष्यतीत्यर्थ, इह प्रश्ने आह–'नो' नैव 'चरमः' प्राप्तव्यजीवत्वावसानो, जीवत्वस्याव्यवच्छेदादिति ।
'नेरइए ण'मित्यादि 'सिय चरिमे सिय अचरिमेत्ति यो नारको नारकत्वादुवृत्तः सन् पुनर्नरकगतिं न यास्यति सिद्धगमनात् स चरमः अन्यतवचरमः, एवं यावद्वैमानिकः । 'सिद्धे जहा जीवे'त्ति अचरम इत्यर्थ, न हि सिद्धः सिद्धतया विनङ्क्षयतीति । 'जीवा णं'मित्यादि, पृथक्त्व- दण्डकस्तथाविध एवेति।
आहारकद्वारे-आहारए सव्वत्यत्ति सर्वेषुजीवादिपदेषु 'सियचरिमे सिय अचरिमे त्ति कश्चिच्चरमो यो निर्वास्यति अन्यस्त्वचरम इति। अनाहारकपदेऽनाहारकत्वेनजीवःसिद्धश्चाचरमो वाच्यः, अनाहारकत्वस्य तदीयस्यापर्यवसितत्वात्, जीवश्वेह सिद्धावस्थ एवेति, एतदेवाह'अनाहारओ' इत्यादि, सेसठाणेसुत्ति नारकादिषुपदेषु जहाआहारओत्तिस्याच्चरमः स्यादचरम् इत्यर्थः, यो नारकादित्वेनानाहरकत्वं पुनर्न लस्यते स चरमो यस्तु तल्लप्स्यतेऽसौ अचरम इति ।
भव्यद्वारे- भवसिद्धीओ'इत्यादि, भव्यो जीवो भव्यत्वेन चरमः,सिद्धिगमनेन भव्यत्वस्य चरमत्वप्राप्तेः, एतच्च सर्वेऽपि भवसिद्धिका जीवाः सेत्स्यन्तीति वचनप्रामाण्यादभिहितमिति 'अभवसिद्धिओ सव्वस्थ'त्ति सर्वेषु जीवादिपदेषु 'नो चरिमे'त्ति अभव्यस्य भव्यत्वेनाभावात्, 'नोभवे'त्यादिउभयनिषेधवान्जीवपदे सिद्धपदेचाभवसिद्धिकवदचरमः तस्य सिद्धत्वात् सिद्धस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org