SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ शतकं-१८, वर्ग:-, उद्देशकः-१ २४१ लेश्याद्वारे-“सलेसेण मित्यादि जहा आहारए'त्ति अप्रथम इत्यर्थः अनादित्वात्सलेश्यत्वस्येति 'नवरंजस्स जा लेसा अस्थि'त्ति यस्य नारकादेर्या कृष्णादिलेश्याऽस्तिसा तस्य वाच्या, इदंचप्रतीतमेव, अलेश्यपदंतु जीवमनुष्यसिद्धेष्वस्ति, तेषां च प्रथमत्वं वाच्यं, नोसज्ञिनोअसंज्ञिनामिवेति, एतदेवाह-'अलेसे णमित्यादि ।। द्विारे-'सम्मद्दिहिए ण मित्यादि, 'सिय पढमे सिय अपढमे'त्ति कश्चित्सम्यग्दृष्टिीवः सम्यग्दृष्टितया प्रथमो यस्य तत्प्रथमया सम्यग्दर्शनलाभः कश्चिच्चाप्रथमो येन प्रतिपतितं सत् सम्यग्दर्शनंपुनर्लब्धमिति, एवं एगिदियवजंति एकेन्द्रियाणांसम्यक्त्वं नास्तिततोनारकादिदण्डकचिन्तायामेकेन्द्रियान् वर्जयित्वा शेषः स्यात्प्रथमः स्यादप्रथम इत्येवं वाच्यः, प्रथमसम्यक्त्वलाभापेक्षया प्रथमः द्वितीयादिलाभापेक्षया त्वप्रथमः, सिद्धस्तु प्रथम एव सिद्धत्वानुगतस्य सम्यक्त्वस्य तदानीमेव भावात् । . "मिच्छादिट्ठीत्यादि, जहाआहारगातिएकत्वे पृथकत्वेचमिथ्याटीनामप्रथमत्वमित्यर्थः, अनादित्वान्मिध्यादर्शनस्येति। _ 'सम्मामिच्छादिट्टी त्यादि 'जहा सम्मदिहित्ति स्यात्प्रथमः स्यादप्रथमः प्रथमेतरसम्यग्मिथ्यादर्शनलाभापेक्षयेति भावः, 'नवरं जस्स अस्थि सम्मामिच्छत्तंति दण्डकचिन्तायां यस्य नारकादेर्मिश्रदर्शनमस्ति स एवेह प्रथमाप्रथमचिन्तायामधिकर्तव्यः ॥ संयतद्वारे-'संजए' इत्यादि, इह चजीवपदं मनुष्यपदं चैते द्वे एवस्तः,तयोश्चैकत्वादिना यथा सम्यग्दृष्टिरुकतस्तथाऽसौ वाच्यः, स्यात्प्रथमः स्यादप्रःथ इत्यर्थः, एतच्च संयमस्य प्रथमेतरलाभा-पेक्षयाऽवसेयमिति 'अस्संजएजहाआहारए'त्तिअप्रथम इत्यर्थः असंयतत्वस्यानादित्वात् ."संजयासंजए इत्यादि संयातसंयतोजीवपदे पञ्चेन्द्रियतिर्यकपदे मनुष्यपदे च भवतीत्यत एतेष्वेकत्वादिना सम्यष्टिवद्वाच्यः स्याप्रथमः स्यादप्रथम इत्यर्थः, प्रथमाप्रथमत्वं च प्रथमेतरदेशविरतिलाभापेक्षयेति 'नोसंजएनोअस्संजए'इत्यादि, निषिद्धसंयमासंयममिश्रभावोजीवः सिद्धश्च स्यात् स च प्रथम एवेति ॥ । कषायद्वारे 'सकसाई त्यादि, कषायिणः आहारकवदप्रथमाअनादित्वात्कषायित्वस्येति 'अकसाई'त्यादि, अकषायो जीवः स्यात्प्रथमो यथाख्यातचारित्रस्य प्रथमलामे स्यादप्रथमो द्वितीयादिलाभे, एवंमनुष्योऽपि,सिद्धस्तुप्रथम एव, सिद्धत्वानुगतस्याकषायभावस्य प्रथमत्वादिति ज्ञानद्वारे-'नाणी'त्यादि, 'जहा सम्मद्दीट्ठी'त्तिस्याप्रथमः स्यादप्रथम इत्यर्थः तत्र केवली प्रथमः अकेवली तु प्रथमज्ञानलाभे प्रथमः अन्यथा त्वप्रथम इति, 'नवरं जं जस्स अस्थिति जीवादिदण्डकचिन्तायां यत् मतिज्ञानादि यस्य जीवनारकादेरस्ति तत्तस्य वाच्यमिति, तच्च प्रतीतमेव, केवलनाणी'त्यादि व्यक्तम्, 'अन्नाणी त्यादि, एतदप्याहारकवदप्रथममित्यर्थः 'जस्स जो जोगो अत्थि'त्ति जीवनारकादिदण्डकचिन्तायां यस्य जीवादेर्यो मनोयोगादिरस्ति स तस्य वाच्यः, स च प्रतीत एवेति, 'अजोगी'त्यादि, जीवो मनुष्यः सिद्धश्चायोगी भवति स च प्रथम एवेति। उपयोगद्वारे-'सागारे'त्यादि जहा अनाहारए'त्ति साकारोपयुक्ता अनाकारोपयुक्ताश्च 151161 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy