SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ शतकं-१, वर्गः-, उद्देशकः-५ ७७ अयंच तत्सत्तापेक्षो विरहो द्रष्टव्यो, न तूत्पादापेक्षया, यतो रत्नप्रभायांचतुर्विंशतिर्मुहूर्ता उत्पादविरहकाल उक्तः, ततश्चयत्र सप्तविंशतिर्भङ्गका उच्यन्तेतत्रापिविरहभावादशीतिःप्राप्नोति, सप्तविंशतेचाभावा एवेति । तत्र 'सव्वेवि ताव होज्ज कोहोवउत्त'त्ति, प्रतिनरकं स्वकीयस्वकीयस्थित्यपेक्षया जघन्यस्थितिकानां नारकाणां सदैव बहूनां सद्भावात् नारकभवस्य च क्रोधोदयप्रचुरत्वात्सर्व एव क्रोधोपयुक्ता भवेयुरित्येको भङ्गः १। ___'अहवा' इत्यादिना द्वित्रिचतुःसंयोगभङ्गा दर्शिताः, तत्र द्विकसंयोगे बहुवचनान्तं क्रोधममुञ्चताषड्भङ्गाः कार्याः, तथाहि-क्रोधोपयुक्तश्चमानोपयुक्तश्च १ तथा क्रोधोपयुक्ताश्च मानोपयुक्ताश्च २, एवं मायया एकत्वबहुत्वाभ्यां द्वौ, लोभेन च द्वौ, एवमेते द्विकसंयोगेषट् । त्रिकसंयोगे तु द्वादश भवन्ति १२, तथाहि-क्रोधे नित्यं बहुवचनं मानमाययोरेकवचनमित्येकः १, मानैकत्वे मायावहुत्वेच द्वितीयः २,माने बहुवचनं मायायामेकत्वमिति तृतीयः ३, मानबहुत्वे मायाबहुत्वेचचतुर्थः ४, पुनः क्रोधमानलोभैरित्थमेव चत्वारः ४,पुनः क्रोधमाया लोभैरित्थमेव चत्वारः ४, एवमेते द्वादश १२ । चतुष्कसंयोगे त्वष्टौ, तथाहि-क्रोधे बहुवचनेन मानमायालोभेषु चैकवचनेनैकः, एवमेव लोभेबहुवचनेन द्वितीयः, एवमेतावेकवचनान्तमायया जाती, एवमेव बहुवचनान्तमाययाऽन्यौ द्वौ, एतमेते चत्वार एकवचनान्तमानेन जाताः, एवमेव बहुवचनान्तमानेन चत्वार इत्येवमष्टौ, एवमेते जघन्यस्थितिषु नारकेषु सप्तविंशतिर्भवन्ति, जघन्यस्थितौ हि बहवो नारका भवन्त्यतः क्रोधे बहुवचनमेव। 'समयाहियाए जहन्नट्टिईए वट्टमाणा नेरइया किं कोहोवउत्ता' इत्यादि प्रश्नः, इहोत्तरम्'कोहोवउत्ते य' इत्यादयोऽशीतिभङ्गाः, इह समयाधिकायां यावत्सङ्खयेयसमयाधिकायां जघन्यस्थितौ नारका नभवन्त्यपि, भवति चेदेको वाऽनेको वेति ततः क्रोधादिष्वेकत्वेन चत्वारो विकल्पाः, बहुत्वेन चान्ये चत्वार एव ४ । द्विकसंयोगे चतुर्विशति, तथाहि-क्रोधमानयोरेकत्वबहुत्वाभ्यां चत्वारः ४, एवं क्रोधमाययोः ४, एवं क्रोधलोभयोः ४, एवं मानमाययोः ४, एवं मानलोभयोः ४, एवं माया लोभयोरिति ४ द्विकसंयोगे चतुर्विंशति। त्रिकसंयोगेद्वात्रिंशत्, तथाहि-क्रोधमानमायास्वेकत्वेनैकः, एष्वेवमायाबहुत्वेन द्वितीयः, एतमेतौभानैकत्वेन, द्वावेवान्यौ तद्बहुत्वेन, एवमेतेचत्वारः क्रोधैकत्वेन चत्वारएवान्ये क्रोधबहुत्वेनेत्यवमष्टौ क्रोधमानमायात्रिके जाताः, तथैवान्येऽष्टौ क्रोधमानलोभेषु तथैवान्येऽष्टौ क्रोधमायालोभेषु, तथैवान्येऽष्टौ मानमायालोभेष्विति द्वात्रिंशत्। ___ चतुष्कसंयोगे षोडश, तथाहि-क्रोधादिष्वेकत्वेनैको लोभस्य बहुत्वेन द्वितीयः, एवमेतौ मायैकत्वेन, तथाऽन्यौ मायाबहुत्वेन, एवमेतेचत्वारोमानैकत्वेन, तथाऽन्ये चत्वार एवमानबहुत्वेन, एवमेतेऽष्टौ क्रोधैकत्वेन, एवमन्येऽौ क्रोधबहुत्वेनेति षोडश, एवमेते सर्व एवाशीतिरिति । एते च जघन्यस्थितौ एकादिसङ्ख्यातान्तसमयाधिकायां भवन्ति, असङ्ख्यातसमयाधिकायास्तु जघन्यस्थितेरारभ्योत्कृष्टस्थितं यावत्सप्तविंशतिभङ्गास्त एव, तत्र नारकाणांबहुत्वादिति अथावगाहनाद्वारं तत्र मू. (६३) इमीसेणंभंते! रयणप्पभाए पुढवीएतीसाए निरयावाससयसस्सेसुएगभेगसि निरयावासंसि नेरइयाणं केवइया ओगाहणाठाणा पन्नत्ता?, गोयमा! असंखेजाओगाहणाठाणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy