________________
२१२
भगवतीअङ्गसूत्रं (२) १६/-/५/६७६ तंजहा--आहारपज्जत्तीए जाव भासामणपञ्जत्तीए, एवं खलु गोयमा! गंगदत्तेणं देवेणं सा दिव्वा देवडी जाव अभिसम० । गंगदत्तस्सणं भंते ! केवतियं कालं ठिती पन्नत्ता?, गोयमा! सत्तरससागरोवमाइं ठिती । गंगदत्ते णं भंते ! देवे ताओ देवलोगाओ आउक्खएणंजाव महावि० वासे सिज्झिहिति जाव अंतं काहिति ।। सेवं भंते !२ ति॥
वृ. 'दिवंतेयलेस्सं असहमाणे'त्ति इह किल शक्रः पूर्वभवे कार्तिकाभिधानोऽभिनवश्रेष्ठी बभूव गङ्गदत्तस्तुजीर्ण श्रेष्ठीति, तयोश्च प्रायो मत्सरो भवतीत्यसावसहनकारणं संभाव्यत इति ।
‘एवं जहा सूरियाओ'त्ति अनेनेदं सूचितं 'सम्मादिट्ठी मिच्छादिट्ठी परित्तसंसारिए अनतसंसारिए सुलभवोहिए दुल्लभवोहिए आराहए विराहए चरिमे अचरिमे' इत्यादीति ।।
शतकं-१६ उद्देशकः-५ समाप्तः
- -शतकं-१६ उद्देशकः-६:वृ. पञ्चमोद्देशके गङ्गदत्तस्य सिद्धिरुक्ता, सा च भव्यानां केषाञ्चित् स्वप्नेनापि सूचित्ता भवतीति स्वप्नस्वरूपं षष्ठेनोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्
मू. (६७७) कतिविहे गंभंते ! सुविणदंसणे पन्नते?, गोयमा! पंचविहे सुविणदंसणे पन्नते, तंजहा-अहातच्चे पयाणे चिंतासुविणे तविवरीए अवत्तदंसणे।
- सुत्ते णं भंते ! सुविणं पासति जागरे सुविणं पासति सुत्तजागरे सुविणंपासति?, गोयमा नो सुत्ते सुविणं पासइ नो जागरे सुविणं पासइ सुत्तजागरे सुविणं पासइ।
जीवाणंभंते! किं सुत्ता जागरा सुत्तजागरा?, गोयमा! जीवा सुत्ताविजागरावि सुत्तजागरावि, नेरइया णं भंते ! कि सुत्ता०? पुच्छा, गोयमा! नेरइया सुत्ता नो जागरा नो सुत्तजागरा, एवं जाव चउरिदिया।
पंचिंदियतिरिक्खजोणिया णं भंते ! किं सुत्ता० पुच्छा, गोयमा ! सुत्ता नो जागरा सुत्तजागरावि, मणुस्सा जहा जीवा, वाणमंतरजोइसियवेमाणिया जहा नेरइया ।
वृ. 'कइविहे'इत्यादि, सुविणदसणेत्तिस्वप्नस्य-स्वापक्रियानुगतार्थविकल्पस्य दर्शनंअनुभवनं, तच्च स्वप्नभेदात्पञ्चविधमिति, अहातचे तियथा येनप्रकारेण तथ्यं-सत्यं तत्वं वा तेन यो वर्ततेऽसौ यथातथ्यो यथातत्वो वा, स च टार्थाविसंवादी फलाविसंवादी वा, तत्र दृष्टार्थाविसंवादी स्वप्नः किल कोऽपि स्वप्नं पश्यति यथा मह्यं फलं हस्ते दत्तं जागरितस्तथैव पश्यतीति, फलाविसंवादी तु किल कोऽपि गोवृषकुञ्जराधारूढमात्मानं पश्यति बुद्धश्चकालान्तरे सम्पदं लभत इति।
___पयाणे'त्तिप्रतननंप्रतानो-विस्तारस्तद्रूपः स्वप्नो यथातथ्यः तदन्यो वा प्रतान इत्युच्यते, विशेषणकृत एव चानयोर्भेदः एवमुत्तरत्रापि, 'चिंतासुमिणे ति जाग्रदवस्थस्य या चिन्ताअर्थचिन्तनंतत्संदर्शनात्मकः स्वप्नश्चिन्तास्वप्नः, 'तविवरीय'त्तियाशं वस्तु स्वप्ने टं तद्विपरीतस्यार्थस्य जागरणे यत्र प्राप्तिसतद्विपरीतस्वप्नो यथा कश्चिदात्मानांमध्यविलिप्तं स्वप्ने पश्यति जागरितस्तु मेध्यमर्थं कंचन प्राप्नोतीति, अन्ये तु तद्विपरीतमेवमाहुः
कश्चित् स्वरूपेण मृत्तिकास्थलमारूढः स्वप्ने च पश्यत्यात्मानमश्वारूढमिति, 'अव्वत्तदंसणे'त्ति अव्यक्तं-अस्पष्टं दर्शनं अनुभवः स्वप्नार्थस्य यत्रासावव्यक्तदर्शनः ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org