SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ शतकं - १६, वर्ग:-, उद्देशक:- १ शरीरमिन्द्रियाणि च तथा वाह्यो हलन्त्र्यादिपरिग्रहस्तदस्यास्तीत्यधिकरणी जीवः 'अहिकरणंपि'त्ति शरीराद्यधिकरणेभ्यः कथञ्चिदव्यतिरिक्तत्वादधिकरणं जीवः एतच्च द्वयं जीवस्याविरतिं प्रतीत्योच्यते तेन विरतिमान् असौ शरीरादिभावेऽपि नाधिकरणी नाप्यधिकरणमविरतियुक्तस्यैव शरीरादेरधिकरणत्वादिति । एतदेव चतुर्विंशतिदण्डके दर्शयति 'नेरइए' इत्यादि, अधिकरणी जीव इति प्रागुक्तं, स च दूरवर्त्तिनाऽप्यधिकरणेन स्याद् यथा गोमान् इत्यतः पृच्छति 'जीवे ण' मित्यादि, 'साहिग- रणि'त्ति सह- सहभाविनाऽधिकरणेन - शरीरादिना वर्त्तत इति समासान्तेन्विधि साधिकरणी, संसारिजीवस्य शरीरेन्द्रियरूपाधिकरणस्य सर्वदैव सहचारित्वात् साधिकरणत्वमुपदिश्यते, शस्त्राद्यधिकरणापेक्षया तु स्वस्वाभिभावस्य तदविरतिरूपस्य सहवर्त्तित्वाज्जीवः साधिकरणीत्युच्यते, अत एव वक्ष्यति । 'अविरइं पडुच्च' त्ति, अत एव संयतानां शरीरादिसद्भावेऽप्यविरतेरभावान्न साधिकरणित्वं, 'निरहिगरणि'त्ति निर्गतमधिकरणमस्मादिति निरधिकरणी समासान्तविधेः अधिकरणदूरवतीत्यर्थः सचन भवति, अविरतेरधिकरणभूताया अदूरवर्त्तित्वादिति, अथवा सहाधिकरणिभिःपुत्रमित्रा - दभिर्वर्त्तत इति साधिकरणी, कस्यापि जीवस्य पुत्रादीनामभावेऽपि तद्विषयविरतेरभावात्साधिकरणित्वमवसेयमत एव नो निरधिकरणीत्यपि मन्तव्यमिति । २०१ अधिकरणाधिकारादेवेदमाह 'जीवेणमित्यादि, 'आयाहिगरणि' ति अधिकरणी कृष्यादिमान् आत्मनाऽधिकरणी आत्माधिकरणी, ननु यस्य कृप्यादि नास्ति स कथमधिकरणीति ?, अत्रोच्यते, अविरत्यपेक्षयेति, अत एवाविरतिं प्रतीत्येति वक्ष्यति, 'पराहिगरणि'त्ति परतः परेषामधिकरणे प्रवर्त्तनेनाधिकरणी पराधिकरणी, 'तदुभयाहिगरणि' त्ति तयोः - आत्मपरयोरुभयं तदुभयं ततोऽधिकरणीयः स तथेति । अथाधिकरणस्यैव हेतुप्ररूपणार्थमाह- 'जीवाण' मित्यादि, 'आयप्पओगनिव्वततिए' त्ति आत्मनः प्रयोगेण - मनःप्रभृतिव्यापारेण निर्वर्त्तितं - निष्पादितं यत्तत्तथा, एवमन्यदपि द्वयम् । ननु यस्य वचनादि परप्रवर्त्तनं वस्तु नास्ति तस्य कथं परप्रयोगनिर्वर्त्तितादि भविष्यतीत्याशकामुपदर्श्य परिहरन्नाह - ' से केणमित्यादि, अविरत्यपेक्षया त्रिविधमप्यस्तीति भावनीयमिति अथ शरीराणामिन्द्रियाणां योगानां च निर्वर्त्तनाया जीवादेरधिकरणित्वादि प्ररूपयन्निदमाह मू. (६६५) कइ णं भंते! सरीरगा पन्नत्ता ?, गोयमा ! पंच सरीरा पण्णत्ता, तंजहाओरालिए जाव कम्मए। कति णं भंते! इंदिया पन्नत्ता ?, गोयम ! पंच इंदिया पन्नत्ता, तंजहासोइंदिए जाव फासिंदिए, कतिविहे णं भंते! जोए पन्नत्ते ?, गोयमा ! तिविहे जोए पन्नत्ते, तंजहा- मणजोए वइजोए कायजोए । जीवे णं भंते! ओरालियसरीरं निव्वत्तेमाणे किं अधिकरणी अधिकरणं ?, गोयमा ! अधिकरणीवि अधिकरणंपि, से केणट्टेणं भंते ! एवं बुधइ अधिकरणीवि अधिकरणपि ?, गोयमा ! अविरतिं पडुच्च, से तेणट्टेणं जाव अधिकरणंपि, पुढविकाइए णं भंते! ओरालियसरीरं निव्वत्तेमाणे किं अधिकरणी अधिकरणं ?, एवं चेव, एवं जाव माणुस्से । एवं वेउव्वियसरीरंपि, नवरं जस्स अत्थि । जीवे णं भते ! आहारगसरीरं निव्वत्तेमाणे किं अधिकरणी ? पुच्छा, गोयमा ! अधिकरणीवि अधिकरणंपि, से केणट्टेणं जाव अधिकरणंपि ?, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy