________________
भगवती अङ्गसूत्रं (२) १५/-/-/६४८
विषयमात्रापेक्षया तत्करणतश्चेति पुनः पृच्छति - 'विसए ण' मित्यादि, अनेन च प्रथमो विकल्पः पृष्टः, 'समत्येण 'मित्यादिना तु द्वितीय इति, 'पारितावणियं' ति पारितापनिकीं क्रियां पुनः कुर्यादिति 'अणगाराणं 'ति सामान्य साधूनां 'खंतिक्खम' त्ति क्षान्त्या - क्रोधनिग्रहेण क्षमन्त इति क्षान्तिक्षमाः 'थेराणं'ति आचारयादीनां वयः श्रुतपर्यायस्थविराणां ।
१७८
'पडिचोयणाए 'त्ति तन्मनतप्रतिकूला चोदना - कर्तव्यप्रोत्साहाना प्रतिचोदना तया 'पडिसाहरणाए 'त्ति तन्मतप्रतिकूलतया विस्मृतार्थस्मारणा तया, किमुक्तं भवति ? - 'धग्मिएण' मित्यादि, 'पडोयारेणं' तिप्रत्युपचारेण प्रत्युपकारेण वा 'पडोयारेउत्ति 'प्रत्युपचारयतु' प्रत्युपचारं करोतु एवं प्रत्युपकारयतु वा 'मिच्छं विपडिवन्ने' त्ति मिथ्यात्वं ग्लैच्छ्यं वा-अनार्यत्वं विशेषतः प्रतिपन्न इत्यर्थः ।
'सुड्डु णं' ति उपालम्भवचनम् 'आउसो 'त्ति हे आयष्पन् ! - चिरप्रशस्तजीवित ! 'कासव' त्ति काश्यपगोत्रीय ! 'सत्तमं पउट्टपरिहारं परिहरामि' त्ति सप्तमं शरीरान्तरप्रवेशं करोमीत्यर्थः, 'जेवि 'आई' ति येऽपि च 'आई' ति निपातः 'चउरासीइं महाकप्पसयसहस्साइं ' इत्यादि गोशालकसिद्धान्तार्थः स्थाप्यो, वृद्धैरप्यनाख्यातत्वात्, आह च चूर्णिकारः-
संदिद्धत्ताओ तस्स सिद्धंतस्स न लक्खिज्जइ' त्ति तथाऽपि शब्दानुसारेण किञ्चिदुच्यतेचतुरशीतिमहाकल्पशतसहस्राणि क्षपयित्वेति योगः, तत्र कल्पाः - कालविशेषाः, तेच लोकप्रसिद्धा अपि भवन्तीति यद्वयवच्छेदार्थकमुक्तं महाकल्पावक्ष्यमाणस्वरूपास्तेषां यानि शतसहस्राणिलक्षाणि तानि तथा, 'सत्त दिव्वे 'त्ति सप्त 'दिव्यान्' देवभवान् 'सत्त संजू'त्ति सप्त संयूथान्-निकायविशेषान्, 'सत्त सन्निगमे ति सञ्ज्ञिागर्भान् मनुष्यगर्भवसतीः, एते च तन्मतेन मोक्षगामिनां सप्तखान्तरा भवन्ति वक्ष्यति चैवैतान् स्वयमेवेति, 'सत्त पउट्टपरिहारे' त्ति सप्त शरीरान्तरप्रवेशान्, एते च सप्तमसञ्जिञगर्भानन्तरं क्रमेणावसेयाः, तथा पंचे' त्यादाविदं संभाव्यते 'पंच कम्मणि सय- सहस्साइं ' ति कर्म्मणि-कर्मविषये कर्म्मणामित्यर्थ पञ्च शतसहस्राणि लक्षाणि 'तिन्निय कम्मंसि' त्ति त्रींश्च कर्म्मभेदान् 'खवइत्त' त्ति 'क्षपयित्वा' अतिवाह्य ।
'सेज' त्यादिना महाकल्पप्रमाणमाह, तत्र 'से जहा व 'त्ति महाकल्प्रमाणवाक्योपन्यासार्थः 'जहिं वा पज्जुवत्थिय'त्ति यत्र गत्वा परि-सामस्त्येन उपस्थिता - उपरता समाप्ता इत्यर्थः 'एसणं अद्धति एष गङ्गायामार्ग 'एएणं गंगापमाणेणं ति गङ्गायास्तन्मार्गस्य चाभेदाद्गङ्गाप्रमाणेनेत्युक्तम् 'एवामेव 'त्ति उक्तेनैव क्रमेण 'सपुव्वावरेणं' ति सह पूर्वेण गङ्गादिना यदपरं महागङ्गादि तत् सपूर्वापरं तेन भावप्रत्ययलोपदर्शनात्सपूर्वापरतवेत्यर्थः ।
'तासिं दुविहे ' इत्यादि, तासां गङ्गादीनां गङ्गादिगतवालुकाकणादीनामित्यर्थः द्विविध उद्धारः उद्धरणीयद्वैविध्यात्, 'सुहुमबोदिकलेवरे चैव त्ति सूक्ष्मवोन्दीनिसूक्ष्माकाराणि कलेवराणिअसङ्खयातखण्डीकृतयालुकाकणरूपाणि यत्रोद्धारे स तथा 'बायरबोंदिकलेवरे चैव 'ति बादरखोन्दीनि-बादराकाराणि कलेवराणि - वालुकाकणरूपाणि यत्र तथा, 'ठप्पे'त्ति न व्याख्येयः इतरस्तु व्याख्येय इत्यर्थः 'अवहाय'त्ति अपहाय - त्यक्त्वा ' से कोट्टे' त्तिस कोष्ठो - गङ्गासमुदायात्मकः 'खीणे' त्ति क्षीणः स चावशेषसद्भावेऽप्युच्यते यथा क्षीणधान्यं कोष्ठागारमत उच्यते 'नीरए' त्ति नीरजाः स च तद्भूमिगतरजसामप्यभावे उच्यते इत्याह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org