SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ - १५२ भगवतीअगसूत्रं (२) १४/-/७/६२० 'संठाणतुल्लए'त्तिसंस्थान-आकृतिविशेषः,तच द्वेधा-जीवाजीवभेदात्, तत्राजीवसंस्थानं पञ्चधा, तत्र 'परिमंडले संठाणे'त्ति परिमण्डलसंस्थानं बहिस्ताद्वृत्ताकारं मध्ये शुषिरं यथा वलयस्य, तच्च द्वेधा-घनप्रतरभेदात्, 'वट्टे'त्ति वृत्तं-परिमण्डलमेवान्तःशुषिररहित यथा कुलालचक्रस्य, इदमपिढेधा-धनप्रतरभेदात्, पुनरेकैकं द्विधा-समसङ्ख्यविषमसङ्ख्यप्रदेशभेदात्, एवं त्र्यनं चतुरंच, नवरनं त्र्यम्नं त्रिकोणं श्रृङ्गाटकस्येव चतुरंतु चतुष्कोणं यथा कुम्मिकायाः, आयतदीर्घयथादण्डस्य, तच्चत्रेधा-श्रेण्यायतप्रतरायतघनायतभेदात्, पुनरेकैकं द्विधा--समसङ्ख्यविषमसङ्घयप्रदेशभेदात, इदं च पञ्चविधमपि विश्रसाप्रयोगाभ्यां भवति। ' जीवसंस्थानं तु संस्थानाभिधाननामकर्मोत्तरप्रकृत्युदयसम्पाद्यो जीवानामाकारः, तच्च षोढा, तत्राद्यं समचउरंसे'त्ति तुल्यारोहपरिणाहंसम्पूर्णाङ्गावयवस्वाङ्गुलाष्टशतोच्छ्रयं समचतुरनं, तुल्यारोहपरिणाहत्वेन समत्वात् पूर्णावयवत्वेन च चतुरत्वात्तस्य, चतुरंसङ्गतमितिपर्यायौ, एवं परिमंडलेवित्तियथा समचतुरस्रमुक्तं तथा न्यग्रोधपरिमण्डलमपीत्यर्थः, न्यग्रोधो वटवृक्षस्तद्वत्परिमण्डलं नाभीत उपरि चतुरनलक्षणयुक्तमधश्च तदनुरूपं न भवति-तस्मात्प्रमाणाद्धीनतरमिति, “एवं जाव हुंडे'त्ति इह यावत्करणात् 'साई खुज्जे वामणे'त्ति ध्यं तत्र ‘साइ'त्ति सादि नाभीतोऽ• धश्चतुरलक्षणयुक्तमुपरि च तदनुरूपं न भवति, 'खुजी'त्ति कुजं ग्रीवादौ हस्तपादयोश्चतुर-श्रलक्षणयुक्तं सङ्क्षिप्तविकृतमध्यं, 'वामणे'त्तिवामनं लक्षणयुक्तमध्यंग्रीवादौ हस्तपादयोरप्या-दिलक्षणन्यूनं, हुंडे'त्ति हुण्डं प्रायः सर्वावययेष्वादिलक्षणविसंवादोपेतमिति । अनन्तरं संस्थानवक्तव्यतोक्ता, अथ संस्थानवतोऽनगारस्य वक्तव्यताविशेषमभिधातुकाम आह मू. (६२१) भत्तपञ्चक्खायएणंभंते! अनगारे मुच्छिएजावअज्झोववन्ने आहारमाहारेति अहे णं वीससाए कालं करेति तओ पच्छा अमुच्छिए अगिद्धे जाव अणज्झोववन्ने आहारमाहारेति?, हंता गोयमा! भत्तपञ्चक्खायए णं अनगारे तं चैव। से केणतुणं भंते ! एवं यु० भत्तपञ्चक्खायए णं तं चेव?, गोयमा! भत्तपञ्चक्खायएणं अनगारे मुच्छिए जाव अन्झोववन्ने भवइ अहे णं वीससाए कालं करेइ तओ पच्छा अमुच्छिए जाव आहारे भवइ से तेणढेणं गोयमा! जाव आहारमाहारेति ॥ वृ. “भत्ते त्यादि, तत्र 'भत्तपच्चक्खये णं'ति अनशनी 'मूर्च्छितः' सञ्जातमूर्छा:जाताहारसंरक्षणानुबन्धः तद्दोषविषये वा मूढः 'मूर्छा मोहसमुच्छाययोः' इति वचनात, यावत्करणादिदं दृश्य-'गढिए' ग्रथित आहारविषयस्नेहतन्तुभि संदर्भितः ग्रन्थ श्रन्थ संदर्भ इति वचनात् 'गिद्धे' गृद्धः प्राप्ताहारे आसक्तोऽतृप्तत्वेन वातदाकाङ्क्षावान् गृधअभिकाङ्क्षायाम'इति वचनात् 'अज्झोववन्ने'त्ति अधुपपन्नः-अप्राप्ताहार चिन्तामाधिक्येनोपपन्नः। ___'आहारं' वायुतैलाभ्यङ्गादिकमोदनादिकंवाऽभ्यवहार्य तीव्रक्षुद्वेदनीयकर्मोदयादसमाधौ सति तदुपशमनाय प्रयुक्तम् ‘आहारयति' उपभुकते 'अहेणं ति अथ' आहारानन्तरं 'विश्रसया' स्वभावतएव 'कालं ति कालो-मरणं काल इव कालोमारणान्तिकसमुद्घातस्तं करोति' याति 'तओ पच्छत्ति ततो-मारणान्तिकसमुद्घातात् पश्चात् तस्मानिवृत्त इत्यर्थः अमूर्छितादिविशेषणविशेषित आहारमाहारयतिप्रशान्तपरिणामसद्भावादिति प्रश्नः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy