________________
१५१
शतकं-१४, वर्गः:, उद्देशकः-७ कालएविएवं तुल्लअनंतगुणकालएवि।
जहा कालए एवं नीलए लोहियए हालिद्दे सुक्कल्ले, एवं सुब्भिगंधे एवंदुभिगंधे, एवं तित्ते जाव महुरे, एवं कक्खडे जाव लुक्खे, उदइए भावे उदइयस्स भावस्स भावओ तुल्ले उदइए भावे उदइयभाववइरितस्स भावस्स भावओ नो तुल्ले, एवं उवसमिए० खइए० खओवसमिए० पारिणामिए० संनिवाइएभावे संनिवाइयस्स भावस्स, से तेणटेणं गो०! एवं वुच्चइभावतुल्लए२॥
से केपट्टेणं भंते! एवं वुच्चइ संठाणतुलए २?, गोयमा! परिमंडले संठाणे परिमंडलस्स संटाणसस संठाणओ तुल्ले परिमंडलसंठाणवइरित्तस संठाणओ नो तुल्ले एवं वट्टे तंसे चउरंसे आयए, समचउरंससंठाणे समचउरंसस्स संठाणस्स संठाणओ तुल्ले समचउरंसे संठाणे समचउरंससंठाणवइरित्तस्स संठाणस्स संठाणओ नोतुल्ले एवं परिमंडले एवं जाव हुंडे, से तेण० जाव संठाणतुल्लए सं०२॥
वृ.'कइविहे'इत्यादि, तुल्यं समं तदेव तुल्यकं दव्यतुल्लए'त्तिद्रव्यतः-एकाणुकाद्यपेक्षया तुल्यकंद्रव्यतुल्यकम्, अथवा द्रव्यं च तत्तुल्यकंच द्रव्यान्तरेणेति द्रव्यतुल्यकं विशेषणव्यत्ययात्, 'खेत्ततुल्लए'त्ति क्षेत्रतः-एकप्रदेशावगाढत्वादिना तुल्यकं क्षेत्रतुल्यकम्, एवं शेषाण्यपि, नवरं भवो-नारकादि: भावो-वर्णादिरौदयिकादिर्वा संस्थानं-परिमण्डलादि, इह च तुल्यव्यतिरिक्तमतुल्यं भवतीति तदपीह व्याख्यास्यते, 'तुलंखेञ्जपएसिए'त्ति तुल्या-समानाः सङ्घयेयाः प्रदेशायत्रस तथा, तुल्यग्रहणमिह सङ्ख्यातत्वस्य सङ्ख्यातभेदत्वान्न सङ्घयातमात्रेण तुल्यताऽस्य स्याद् अपि तु समानसङ्ख्यत्वेनेत्यस्यार्थःस्य प्रतिपादनार्थःम्, एवमन्यत्रापीति, यच्चेहानन्तक्षेत्रप्रदेशावगाढ- त्वमनन्तसमयस्थायित्वं च नोक्तं तदवगाहप्रदेशानां स्थितिसमयानां च पुद्गलानाश्रित्या-नन्तानामभावादिति।
_ 'भवट्टयाए'त्ति भव एवार्थी भवार्थःस्तद्भावस्तत्ता तया भवार्थःतया, 'उदइए भावे'त्ति उदयः कर्मणां विपाकः स एवौदयिकः-क्रियामात्रं अथवा उदयेन निष्पन्नः औदयिको भावोनारकत्वादिपर्यायविशेषः औदयिकस्य भावस्य नारकत्वादेर्भावतो-भावसामान्यमाश्रित्य तुल्यः-समः, एवं उवसमिए'त्तिऔपशमिकोऽप्येवं वाच्यः, तथाहि-'उवसमिए भावे उवसमियस्स भावस्स भावओ तुल्ले उवसमिए भावे उवसमियवइरित्तस्स भावस्स भावओ नो तुल्ले'त्ति, एवं शेषेष्वपि वाच्यं।
तत्रोपशमः-उदीर्णस्य कर्मणः क्षयोऽनुदीर्णस्य विष्कम्भितोदयत्वं स एवौपशमिकःक्रियामात्रं उपशमेन वा निवृत्तः औपशमिकः-सम्यग्दर्शनादि, 'खइए'त्ति क्षयः-कर्माभावः स एव क्षायिक क्षयेणवा निवृत्तः क्षायिकः-केवलज्ञानादि, ‘ओवसमिए'त्तिक्षयेण-उदयप्राप्तकर्मणो विनाशेन सहोपशमो-विष्कम्भितोदयत्वं क्षयोपशमः स एव क्षायोपशमिकः-क्रियामात्रमेव क्षयोपशमेन वनिवृत्तः क्षायोपशमिकः-मतिज्ञानादिपर्यायविशेषः, नन्वौपशमिकस्य क्षायोपशमिकस्य च कः प्रतिविशेषः, उभयत्राप्युदीर्णस्य क्षयस्यानुदीर्णस्य चोपशमस्य भावात् उच्यते, क्षायोपशमिके विपाकवेदनमेव नास्ति प्रदेशवेदनं पुनरस्त्येव, औपशमिके तु प्रदेशवेदनमपि नास्तीति, 'पारिणामिए'त्ति परिणमनं परिणामः स एव पारिणामिकः, 'सन्निवाइए'त्ति सन्निपातः-औदयिकादिभावानां द्वयादिसंयोगस्तेन निवृत्तः सन्निपातिकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org