________________
शतकं - १४, वर्गः, उद्देशकः - ७
अत्रोत्तरं - हंता गोयमा !' इत्यादि, अनेन तु प्रश्नार्थः एवाभ्युपगतः कस्यापि भक्तप्रत्याख्यातुरेवंभूतभावस्य सद्भावादिति । अनन्तरं भक्तप्रत्याख्यातुरनगारस्य वक्तव्यतोक्ता, सच कश्चिदनुत्तरसुरेषूत्पद्यत इति तद्वक्तव्यतामाह
मू. (६२२) अत्थिणं भंते! लवसत्तमा देवा ल० २१, हंता अत्थि, से केणट्टेणं भन्ते ! एवं वुच्चइ लवसत्तमा देवा ल० २ ?
१५३
गोयमा ! जे जहानाम - केइ पुरिसे तरुणे जाव निउणसिप्पोवगए सालीण वा वीहीण वा गोधूमाण वा जवाण वा जवजवाण वा पक्काणं परियाताणं हरियाणं हरियकंडाणं तिक्खेणं नवपञ्जणएणं असिअएणं पडिसाहरिया १०२ पडिसंखिविया २ जाव इणामेव २ तिकडु, सत्तलवए लुएञ्जा । जति णं गोयमा ! तेसिं देवाणं एवतिलं कालं आउए पहुप्पते तो णं ते देवा तेणं चेव भवग्गहणेणं सिज्झता जाव अंतं करेंता, से तेणट्टेणं जाव लवसत्तमा देवा लव सत्तमा देवा
बृ. 'अत्थि ण' मित्यादि, लवाः- शाल्यादिकवतिकालवनक्रयाप्रमिताः कालविभागाः सप्त-सप्तसङ्ख्यामानं-प्रमाणं यस्य कालस्यासौ लवसप्तमस्तं लवसप्तमं कालं यावदायुष्यप्रभवति सति ये शुभाध्यवसायवृत्तयः सन्तः सिद्धिं न गता अपि तु देवेषूत्पन्नास्ते लवसप्तमाः, ते च सर्वार्थः सिद्धाभिधानानुंत्तसुरविमाननिवासिनः, 'से जहा नामए' त्ति 'सः' कश्चित् 'यथानामकः ' अनिर्दिष्टनामा पुरुषः 'तरुणे' इत्यादेर्व्याख्यानं प्रागिव 'पक्काणं' ति पक्वां 'परियायाणं' ति 'पर्यवगतानां' लवनीयावस्थां प्राप्तानां 'हरियाणं' ति पिङ्गिभूतानां ते च पत्रापेक्षयाऽपि भवन्तीत्याह
'हरियकंडाणं 'ति पिङ्गीभूतजालानां 'नवपज्रणपएणं 'ति नवं- प्रत्यग्रं 'पजणयं ति प्रतापितस्यायोधनकुट्टनेन तीक्ष्णीकृतस्य पायनं - जलनिवोलनंयस्य तन्त्रवपायनं तेन 'असियएणं' ति दात्रेण 'पडिसाहरिय'त्ति प्रतिसंहृत्य विकीर्णनालान् बाहुना संगृह्य 'पडिसंखि विय'त्ति मुष्टिग्रहणेन सङिप्य 'जाव इणामेवे'त्यादि प्रज्ञापकस्य लवनक्रियाशीघ्रत्वोप- दर्शनपरचप्पुटिकादिहस्तव्यापारसूचकं वचनं 'सत्तलवे 'त्ति लूयन्त इति लवाः शाल्यादिना - लमुष्टयस्तान् लवान् 'लूएज'त्ति लुनीयात्, तत्र च सप्तलवलवने यावान्कालो भवतीति वाक्यशेषो दृश्यः, ततः किमित्याह - 'जइ ण' मित्यादि, 'तेसिं देवाणं 'ति द्रव्यदेवत्वे साध्ववस्थायामित्यर्थः 'तेणं चेव'त्ति यस्य भवग्रहणस्य सम्बन्धि आयुर्न पूर्णं तेनैव, मनुष्यभवग्रहणेनेत्यर्थः ।
मू. (६२३) अत्थि णं भंते! अनुत्तरोववाइया देवा अ० २?, हंता अत्थि, से केणणं भंते! एवं बुधइ अ० २ ? गोयमा ! अनुत्तरोववाइयाणं देवाणं अनुत्तरा सद्दा जाव अनुत्तरा फासा, से तेणट्टेणं गोयमा ! एवं वुच्चइ जाव अणुत्तरोववाइया देवा अ० २ ।
अनुत्तरोववाइया णं भंते! देवा णं केवतिएणं कम्मावसेसेणं अनुत्तरोववाइयदेवत्ताए उववन्ना ?, गोयमा ! जावतियं छट्टभत्तिए समणे निग्गंथे कम्मं निज्जरेति एवतिएणं कम्मावसेसेणं अनुत्तरोववाइयदेवत्ताए उववन्ना ?, गोयमा ! जावतियं छट्टभत्तिए समणे निग्गंथे कम्मं निज्जरेति एवतिएण कम्मायसेसेणं अनुत्तरोववाइया देवा देवत्ताए उववन्ना । सेवं भंते ! २ त्ति /०
वृ. लवसप्तमा अनुत्तरोपपातिका इत्यनुत्तरोपपातिकदेवप्ररूपणाय सूत्रद्वयमभिधातुमाह'अत्थि ण 'मित्यादि, 'अनुत्तरोववाइय'त्ति अनुत्तरः- सर्वप्रधानोऽनुत्तरशब्दादिविषययोगात् उपपाती - जन्म अनुत्तरोपपातः सोऽस्ति येषां तेऽनुत्तरोपपातिकाः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org