________________
१४९
शतकं-१४, वर्ग:-, उद्देशकः-७ देवलोए अनंतरं माणुस्सए भवे।
किं परं? मरणा कायस्स भेदा इओ चुत्तादोवितुल्ला एगट्ठा अविसेसमणाणत्ता भविस्सामो
वृ. 'रायगिहे'इत्यादि, तत्र किल भगवान् श्रीमन्महावीरः केवलज्ञानाप्राप्तया सखेदस्य गौतमस्वामिनः समाश्वासनायात्मनस्तस्य च भाविनीतुल्यतांप्रतिपादयितुमिदमाह-'गोयमे त्यादि
'चिरसंसिट्ठोऽसित्ति चिरं बहुकालं यावत् चिरे वा अतीते प्रभूते काले संश्लिष्ट:स्नेहासंवद्धश्चिरसंश्लिष्टः असि' भवसि 'मे' मयाममवा त्वंहे गौतम!, 'चिरसंथुओ'त्तिचिरं-- बहुकालम् अतीतं यावत् संस्तुतः-स्नेहाप्रशंसितश्चिरसंस्तुतः, एवं 'चिरपरिचिए'त्ति पुनः पुनर्दर्शनतः परिचितश्चिरपरिचितः, 'चिरजुसिए तिचिरसेविताश्चिरप्रीतो वा 'जुषीप्रीतिसेवनयोः' इति वचनात्, 'चिराणुगए तिचिरमनुगतो ममानुगतिकारित्वात्, चिराणुवत्तीसित्तिचिरमनुवृत्तिअनुकूलवर्तिता यस्यासौ चिरानुवृत्ति, इदं च चिरसंश्लिष्टत्वादिकं कासीत् ? इत्याह____ 'अनंतरंदेवलोए'त्तिअनन्तरं-निर्यवधानंयताभवत्येवं देवलोके अनन्तरे देवभवे इत्यर्थः ततोऽपि-अनन्तरं मनुष्यभवे, जात्यर्थःत्वादेकवचनस्य देवभवेषु मनुष्यभवेषु चेति द्रष्टव्यं, तत्र किल त्रिपृष्ठभवे भगवतोगौतमः सारथित्वेन चिरसंश्लिष्टत्वादिधर्मयुक्तआसीत्, एवमन्येष्वपि भवेषु संभवतीति, एवं च रवि तव गाढत्वेन स्नेहस्य न केवलज्ञानमुत्पद्यते भविष्यति च तवापि स्नेहक्षये तदित्यधृति मा कृथा इति गम्यते, 'किं परं?, मरण'ति किं वहुना 'परं'ति परतो 'मरणात् मृत्योः, किमुक्तं भवति?
कायस्यभेदाद्धेतोः 'इओचुय'त्ति इतः' प्रत्यक्षान्मनुष्यभवाच्युतौ ‘दोवि'त्ति द्वावप्यावां तुल्यौ भविष्याव इति योगः, तत्र 'तुल्यौ' समानजीवद्रव्यौ 'एकट्ट'त्ति ‘एकार्थी' एकप्रयोजनावनन्तसुखप्रयोजनत्वात्एकस्थौ वा-एकक्षेत्राश्रितौ सिद्धिक्षेत्रापेक्षयेति अविसेसमणाणत्त'त्ति 'अविशेष' निर्विशेषं यथा भवत्येवम् ‘अनानात्वी' तुल्यज्ञानदर्शनादिपर्यायाविति, इदं च किल यदा भगवता गौतमेन चैत्यवन्दनायाष्टापदंगत्वाप्रत्यागच्छता पञ्चदशतापसशतानि प्रव्राजितानि समुत्पन्नकेवलानि च श्रीमन्महावीरसमवरसरमणमानीतानि तीर्थःप्रणामकरणसमनन्तरं च केवलिपर्षदि समुपविष्टानि, गौतमेन चाविदितत्केवलोत्पादव्यतिकरेणाभिहितानियथा-आगच्छत भोः साधवः ! भगवन्तं वन्दध्वमिति, जिननायकेन च गौतमोऽभिहितो यथा-गौतम ! मा केवलिनामाशातनां कार्षी।
___ ततो गौतमो मिध्यादुष्कृतमदात्, तथा यानहं प्रव्राजयामितेषां केवलमुत्पद्यते न पुनर्मम ततः किंतन्नोत्पत्स्थत एवेति विकल्पादधृतिंचकार, ततोजगद्गुरुणा गदितोऽसौ मनःसमाधानाय, यथा गौतम ! चत्वारः कटा भवन्ति-सुम्बकटो विदलकटश्चर्मकटः कम्बलकटश्चेति, एवं शिष्या अपिगुरोः प्रतिबन्धसाधर्म्यण सुम्बकटसमादयश्चत्वार एव भवन्ति, तत्रत्वंमयिकम्बलकटसमान इत्येतस्यार्थःस्य समर्थःनाय भगवता तदाऽभिहितमिति ।
एवं भाविन्यामात्मतुल्यतायां भगवताऽभिहितायां 'अतिप्रियमश्रद्धेय'मितिकृत्वा यद्यन्योऽप्येनमर्थं जानाति तंदा साधुर्भवतीत्यनेनाभिप्रायेण गौतम एवाह
मू. (६१९)जहाणं भंते! वयं एयमझुंजाणामोपासामो तहाणं अनुत्तरोववाइयावि देवा एयमद्वंजा० पा०?,हंता गोयमा! जहाणं वयंएयमटुंजाणामो पासामो तहा अनुत्तरोववाइयावि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org