SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं (२) १४/-/६/६१७ दरिसणिजे अभिरूवे 'त्ति, 'मणिपेढिया अट्ठजोयणिया जहा वेमाणियाणं' ति मणिपीठिका वाच्या, साचायमविष्कम्भाभ्यामटयोजनिका यथा वैमानिकानां सम्बधिनी न तु व्यन्तरादिसत्केच, तस्या अन्यथास्वरूपत्वात् । सा पुनरेवं- 'तस्स णं बहुसमरमणिज्जस्सभूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगं मणिपेढियं विउव्वाइ, साणं मणिपेढिया अट्ठ जोयणाई आयामविक्खंभेणं पन्नत्ता चत्तारि जोयणाई बाहल्लेणं सव्वरयणामई अच्छा जाव पडिरूव'त्ति, 'सयणिज्जवन्नओ' त्ति शयनीयवर्णको वाच्यः, स चैवं- 'तस्स णं देवसयणिज्जस्स इमेयारूवे वन्नावासे पन्नत्ते' वर्णकव्यासः - वर्णकविस्तरः, 'तंजहा - नानामणिमया पडिपाया सोवन्निया पाया नानामणियाइं पायसीसगाई' इत्यादिरिति, 'दोहिय अनीएहिं ' ति अनीकं सैन्यं 'नट्टाणीएणय'त्ति नाट्यं नृत्यं तत्कारकमनीकं - जनसमूहो नाट्यानीकं एवं गन्धर्वानीकं नवरं गन्धर्व्व-गीतं, 'महये' त्यादि यावत्करणादेवं दृश्यं 'महयाहयनट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं' ति व्याख्या चास्य प्राग्वत्, इह च यत् शक्रस्य सुधर्मसभालक्षणभोगस्थानसद्भावेऽपि भोगार्थः नेमिप्रतिरूपकादिविकुर्वणं तज्जिनास्थामाशातनापरिहारार्थं सुधर्म्मसभायां हि माणवके स्तम्भे जिनास्थीनि समुद्रकेषु सन्ति, तत्प्रत्यासत्तौ च भोगानुभवने तदबहुमानः कृतः स्यात स चाशातनेति । 'सिंहासनं विउब्वाइ' त्ति सनत्कुमारदेवेन्द्र - सिंहासनं विकुरुते नतु शक्रे शानाविव देवशयनीयं, स्पर्शमात्रेण तस्य परिचारकत्वान्न शयनीयेन प्रयोजनमिति भावः, 'सपरिवारं 'ति स्वकीयपरिवारयोग्यासनपरिकरितमित्यर्थः, 'नवरं जो जस्स परिवारो सो तस्स भाणियव्वो' त्ति तत्र सनत्कुमारस्य परिवार उक्तः, एवं माहेन्द्रस्य तु सप्तति सामानिकसहस्राणि चतस्रश्चाङ्गरक्षसहस्रणां सप्ततयः, ब्रह्मणः षष्टि सामानिकसहस्राणां लान्तकस्य पञ्चाशत् शुक्रस्य चत्वारिंशत् सहारस्य त्रिंशत् प्राणतस्य विंशति अच्युतस्य तु दश सामानिकसहस्राणि, सर्वत्रापि च सामानिकचतुर्गुणा आत्मरक्षा इति । 'पासायउच्चतं ज' मित्यादि तत्र सनत्कुमारमाहेन्द्रयोः षड् योजनशतानि प्रासादस्योच्चत्वं ब्रह्मलान्तकयोः सप्त शुक्रसहारयोरष्टौ प्राणतेन्द्रस्याच्युतेन्द्रस्य च नवेति, इह च सनत्कुमारादयः सामानिकादिपरिवारसहितास्तत्र नेमिप्रतिरूपके गच्छन्ति, तत्समक्षमपि स्पर्शादिप्रतिचारणाया अविरुद्धत्वात् शक्रेशानौ तु न तथा सामानिकादिपरिवारसमक्षं कायप्रतिचारणाया लज्जनीयत्वेन विरुद्धत्वादिति ॥ १४८ शतकं - १४ उद्देशकः - ६ समाप्तः -: शतकं - १४ उद्देशकः -७: वृ. षष्ठोद्देशकान्ते प्राणताच्युतेन्द्रयोर्भोगानुभूतिरुक्ता सा च तयोः कथञ्चित्तुल्येति तुल्यताऽभिधानार्थः सप्तमोद्देशकः, तस्य चेदमादिसूत्रम् मू. (६१८) रायगिहे जाव एवं वयासी परिसा पडिगया, गोयमादी समे भगवं महावीरे भगवं गोयमं आमंतेत्ता एवं वयासी । चिरसंसिडोऽसि मे गोयमा ! चिरसंधुओऽसि मे गोयमा ! चिरपरिचिओऽसि मे गोयमा चिरजुसिओऽसि मे गोयमा ! चिराणुगओऽसि मे गोयमा ! चिराणुवत्तीसि मे गोयमा ! अनंतरं For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy