________________
भगवती अङ्गसूत्रं १४/-/५/६१२
अर्थः श्चास्या उद्देशकार्यावगमगम्य इति, 'नो खलु तत्थ सत्यं कमइ' ति विग्रहगतिसमापन्नो हि कार्म्मणशरीरत्वेन सूक्ष्मः, सूक्ष्मत्वाच्च तत्र 'शस्त्रम्' अग्न्यादिकं न क्रामति ।
'तत्थ णं जे से' इत्यादि, अविग्रहगतिसमापन्न उत्पत्तिक्षेत्रोपपन्नोऽभिधीयते न तु ऋजुगतिसमापन्नः तस्येह प्रकरणेऽनधिकृतत्वात् स चाग्निकायस्य मध्येन न व्यतिव्रजति, नारकक्षेत्रे बादराग्निकायस्याभावात्, मनुष्य क्षेत्र एव तद्भावात् यच्चोत्तराध्ययनादिषु श्रूयते - "हुयासणे जलंतंमि दवपुव्वो अनेगसो ।" इत्यादि तदग्निसध्द्रहव्यान्तरापेक्षयाऽवसेयं, संभवन्ति च तथाविधशक्तिमन्ति द्रव्याणि तेजोलेश्याद्रव्यवदिति ।
१४४
असुरकुमारसूत्रे विग्रहगतिको नारकवत्, अविग्रहगतिकस्तु कोऽप्यग्नेर्मध्येन व्यतिव्रजेत् यो मनुष्यलोकमागच्छति, यस्तु न तत्रागच्छति असौ न व्यतिव्रजेत्, व्यतिव्रजन्नपि च न ध्यायते ध्यायते वा यतो न खलु तत्र शस्त्रं क्रमते सूक्ष्मत्वाद्वैक्रयशरीरस्य शीघ्रत्वाच्च तद्गतेरिति ।
'एगिंदिय जहा नेरइय'त्ति, कथम् ?, यतो विग्रहे तेऽप्यग्निमध्येन व्यतिव्रजन्ति सूक्ष्मत्वान्न दह्यन्तेच, अविग्रहगतिसमापन्नकाश्च तेऽपि नाग्नेर्मध्येन व्यतिव्रजन्ति स्थावरत्वात्, तेजोवायूनां गतिसतयाऽग्नेर्मध्येन व्यतिव्रजनं यद् दृश्यते तदिह न विवक्षिमिति सम्भाव्यते, स्थावरत्वमात्रस्यैव विवक्षितत्वात्, स्थावरत्वे हि अस्ति कथञ्चित्तेषां गत्यभावो यदपेक्षया स्थावरास्ते व्यपदिश्यन्ते, अन्यथाऽधिकृत व्यपदेश्य निर्निबन्धनता स्यात्, तथा तद्वाय्वादिपारतन्त्रेण पृथिव्यादीनामग्निमध्येन व्यतिव्रजनं दृश्यते तदिह न विवक्षितं, स्वातन्त्र्यकृतस्यैव तस्य विवक्षणात् चूर्णिकारः पुनरेवमाह-
'एगिंदियाण गई नत्थि 'त्ति ते न गच्छन्ति, एगे वाउक्काइया परपेरणेसु गच्छंति विराहिनंति य'त्ति, पञ्चेन्द्रियतिर्यक्सूत्रे 'इड्डिप्पत्ता य'त्ति वैक्रियलब्धिसम्पन्नाः 'अत्थेगइए अगनिकायस्से' त्यादि, अस्त्येककः कश्चित् पञ्चेन्द्रियतिर्यगयोनिको यो मनुष्यलोकवर्त्ती स तत्राग्निकायसम्भवात्तन्मध्येन व्यतिव्रजेत्, यस्तु मनुष्य क्षेत्राद्वहिर्नासावग्नेर्मध्येन व्यतिव्रजेत्, अग्नेरेव तत्राभावात्, तदन्यो वा तथाविधसामग्यभावात्, 'नो खलु तत्थ सत्यं कमइ' त्ति वैक्रियादिलब्धिमति पञ्चेन्द्रियतिरश्चि नाग्न्यादिकं शस्त्रं क्रमत इति ॥ अथ दश स्थानानीति द्वारमभिधातुमाह
मू. (६१३) नेरतिया दस ठाणाई पञ्चणुष्भवमाणा विहरंति, तंजहा- अनिट्ठा सद्दा अनिट्ठा रूवा अनिट्ठा गंधा अनिट्टा रसा अनिट्ठा फासा अनिट्ठा गती अनिट्ठा ठिती अनिट्टे लावन्ने अनिट्टे जसे कित्ती अनिट्टे उट्टाणकम्मबलवीरियपुरिसक्कारपरक्कमे ।
असुरकुमारा हम ठाणाई पचणुब्भवमाणा विहरंति, तंजहा-इट्ठा सद्दा इट्ठा रूवा जाव इट्टे उठणकम्मत्रलवीरियपुरिसक्कारपरक्कमे एवं जाव थणियकुमारा ।
पुढविकाइया छट्टाणाइं पचणुब्भवमाणा वि०, तं०- इट्ठानिट्ठा फासा इट्टानिट्टा गती एवं जाव परक्कमे, एवं जाव वणस्सइकाइया ।
बेइंदिया सत्तड्डाणाइं पचणुब्भवमाणाविहरति, तंजहा - इट्ठानिट्ठा रसा सेसं जहा एगिंदियाणं, तेंदिया णं अट्टट्ठाणाई पाणुब्भवमाणा वि०, तं०- इट्ठानिट्ठा गंधा सेसं जहा बेदियाणं चउरिंदिया नवद्वाणाई पच्चणुब्भवमाणा विहरंति, तं०- इट्ठानिट्ठा रूवा 'सेसं जहा तेंदियाणं ।
पंचिंदियतिरिक्खजोणिया दसठाणाई पचणुन्भवमाणा विहरंति, तंजहा - इट्टानिट्ठा सद्दा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International